Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
नयानु
मतिः
श्रीआव- प्रति नैगमादयो ब्रुवते-ननु ज्ञानदर्शनाभ्यामपि चिना न प्रकर्षप्राप्तः सर्वसंवरलाभ उपजायते, तत्सहितस्यैव तद्भावाभ्युश्यक मल- पगमात्, ततः कथं न त्रितयं मोक्षमार्ग? इति, ऋजुसूत्रादयः प्राहुः, तदसम्यक्, वस्तुतत्त्वापरिज्ञानात्, तथाहि-यदि य. वृत्तीनाम न ज्ञानदर्शनाभ्यां विना यथोक्तसंवरलाभस्ततस्ते तस्य कारणं भवताम् , नतु मोक्षस्य सर्वसंवरसाध्यस्य, कथं ?, उपोदयाते तद्भावे भाव एवेत्यन्वयानुगमाभावात् , इह यत् यस्यान्वयं व्यतिरेकं वा नानुविधत्ते न तस्य तत्कारणं, यथा कुशलन्यस्तं |
वीजमकरस्य, न भवति च मोक्षः सर्वज्ञानसर्वदर्शनसम्भवेऽपि तत्कालमेवेति, अथ सतोरेव सर्वज्ञानसर्वदर्शनयोः सर्व॥४२८॥ संवरलाभो, न तदभावे, तेन ते अपि मोक्षकारणस्य सर्वसंवरस्य कारणत्वान्मोक्षकारणमिति, तदयुक्तं, परम्परयापि
| कारणत्वाभ्युपगमे सकलस्यापि भुवनस्य मोक्षकारणत्वासः, भवनोदरवर्तिनां सर्वेषामपि वस्तूनां ज्ञेयश्रद्धेयप्रवृत्तिनिवृत्तिविषयतया ज्ञानदर्शनचारित्रोपयोगित्वात्, तथा च सति ज्ञानादित्रिके एव को भवतामाग्रहः?, ततो यथा न
समस्तं भुवनं मोक्ष(कारणं तद)कारणत्वादेवं ज्ञानदर्शने अपीति स्थितम् । तथा चाह भाष्यकृत्-आह नणु नाणदंसण-| सरहियस्स न सबसंवरो दिट्ठो। तस्सहियस्सेव तओ तम्हा तिययंपि मोक्खपहो ॥१॥(वि.२६२७)॥जइ तेहिं विणा नस्थिति
संवरो तेण ताई तस्सेव । जुत्तं कारणमिह न उ संवरसज्झस्स मोक्खस्स ॥२॥(वि.२६२८)॥ अह कारणोवगारित्ति कारणं तेण कारणं सर्व । भुवणं नाणाईणं जइणो नेयाइभावणं ॥३॥(वि.२६२९)।अह पच्चासन्नतरं नेयरमिहोवगारगारिंपि। तो सबसंवरमयं चारित्तंचेव मोक्खपहो॥४॥(वि.२६३०)। तदेवं यत् यस्य नयस्य सामायिकं मोक्षमार्गत्वेनानुमतं तदभिहितं, भगवतस्तु मतेन त्रीण्यपि ज्ञानादीनि सामाधिकानि परस्परसापेक्षाणि मोक्षमार्गः, एकस्याप्यभावे मोक्षस्यासंभवात् , 'तस्मात्सर्वस्य
॥४२८॥
Jain Educaron inte
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308