SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ नयानु मतिः श्रीआव- प्रति नैगमादयो ब्रुवते-ननु ज्ञानदर्शनाभ्यामपि चिना न प्रकर्षप्राप्तः सर्वसंवरलाभ उपजायते, तत्सहितस्यैव तद्भावाभ्युश्यक मल- पगमात्, ततः कथं न त्रितयं मोक्षमार्ग? इति, ऋजुसूत्रादयः प्राहुः, तदसम्यक्, वस्तुतत्त्वापरिज्ञानात्, तथाहि-यदि य. वृत्तीनाम न ज्ञानदर्शनाभ्यां विना यथोक्तसंवरलाभस्ततस्ते तस्य कारणं भवताम् , नतु मोक्षस्य सर्वसंवरसाध्यस्य, कथं ?, उपोदयाते तद्भावे भाव एवेत्यन्वयानुगमाभावात् , इह यत् यस्यान्वयं व्यतिरेकं वा नानुविधत्ते न तस्य तत्कारणं, यथा कुशलन्यस्तं | वीजमकरस्य, न भवति च मोक्षः सर्वज्ञानसर्वदर्शनसम्भवेऽपि तत्कालमेवेति, अथ सतोरेव सर्वज्ञानसर्वदर्शनयोः सर्व॥४२८॥ संवरलाभो, न तदभावे, तेन ते अपि मोक्षकारणस्य सर्वसंवरस्य कारणत्वान्मोक्षकारणमिति, तदयुक्तं, परम्परयापि | कारणत्वाभ्युपगमे सकलस्यापि भुवनस्य मोक्षकारणत्वासः, भवनोदरवर्तिनां सर्वेषामपि वस्तूनां ज्ञेयश्रद्धेयप्रवृत्तिनिवृत्तिविषयतया ज्ञानदर्शनचारित्रोपयोगित्वात्, तथा च सति ज्ञानादित्रिके एव को भवतामाग्रहः?, ततो यथा न समस्तं भुवनं मोक्ष(कारणं तद)कारणत्वादेवं ज्ञानदर्शने अपीति स्थितम् । तथा चाह भाष्यकृत्-आह नणु नाणदंसण-| सरहियस्स न सबसंवरो दिट्ठो। तस्सहियस्सेव तओ तम्हा तिययंपि मोक्खपहो ॥१॥(वि.२६२७)॥जइ तेहिं विणा नस्थिति संवरो तेण ताई तस्सेव । जुत्तं कारणमिह न उ संवरसज्झस्स मोक्खस्स ॥२॥(वि.२६२८)॥ अह कारणोवगारित्ति कारणं तेण कारणं सर्व । भुवणं नाणाईणं जइणो नेयाइभावणं ॥३॥(वि.२६२९)।अह पच्चासन्नतरं नेयरमिहोवगारगारिंपि। तो सबसंवरमयं चारित्तंचेव मोक्खपहो॥४॥(वि.२६३०)। तदेवं यत् यस्य नयस्य सामायिकं मोक्षमार्गत्वेनानुमतं तदभिहितं, भगवतस्तु मतेन त्रीण्यपि ज्ञानादीनि सामाधिकानि परस्परसापेक्षाणि मोक्षमार्गः, एकस्याप्यभावे मोक्षस्यासंभवात् , 'तस्मात्सर्वस्य ॥४२८॥ Jain Educaron inte For Private & Personal Use Only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy