SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ कार्यस्य, सामग्री जनिका मते 'ति वचनात् उक्तमनुमतद्वारं, तद्भणने च व्याख्याता 'उद्देसे निद्देसे य' इत्यादिका उपोद्घा तनिर्युक्तिगता प्रथमद्वारगाथा ॥ सम्प्रति द्वितीयद्वारगाथाप्रथमावयवः किमिति द्वारं व्याख्यायते - तत्र सामायिकं नाम किं जीवः ? उताजीवः ? अथोभयम् ? आहोस्विदनुभयं १, जीवत्वेऽपि किं द्रव्यमुत गुण ? इत्याशङ्कापनोदार्थमाह आया खलु सामइअं पञ्चक्खायंतओ हवइ आया । तं खलु पञ्चक्खाणं आवाए सङ्घदवाणं ॥ ७९० ॥ आत्मा-जीवः, खलुशब्दोऽवधारणे, आत्मैव-जीव एव सामायिकम्, एतेन प्रागुपन्यस्तशेषाजीवादिविकल्पव्युदासः, स च न सामान्येन, किन्तु प्रत्याचक्षाणः - प्रत्याख्यानं कुर्वन् प्रत्याख्यान परिणामे वर्त्तमान इति भावः, 'हवइ आया' इति स एव च प्रत्याचक्षाणः परमार्थतो भवत्यात्मा, श्रद्धानज्ञानसावद्य विनिवृत्तिरूपस्वभावावस्थितत्वात् शेषः संसारी पुनरात्मैव न भवति, प्रचुरघातिकर्म्मपरमाणुभिस्तस्य स्वाभाविकगुणतिरस्करणात्, अत एव यथोक्तात्मप्रतिपत्त्यर्थं । द्वितीयात्मग्रहणं, 'तं खलु पच्चक्खाणं' ति खलुशब्दः सामायिकस्य जीवपरिणतिरूपत्वज्ञापनार्थः, तत् खलु प्रत्याख्यानं । जीवपरिणतिरूपं विषयमधिकृत्य सर्वद्रव्याणामापाते - आभिमुख्येन सन्निपतने, निष्पद्यते इति वाक्यशेषः, सर्वद्रव्याणां श्रद्धेयतया (ज्ञेयतया ) यथायोगं प्रवृत्तिनिवृत्तिविषयतया च तद्विषयत्वात् ननु किं सामायिकमिति स्वरूपप्रश्ने प्रक्रान्ते विषयनिरूपणमस्यान्याय्यम्, अप्रस्तुतत्वात्, बाह्यशास्त्रवत्, उच्यते, अप्रस्तुतत्वादित्यसिद्धं तथाहि - सामायिक विषयनिरूपणं प्रस्तुतं सामायिकाङ्गत्वात्, यत् यत्सामायिका तत्प्ररूपणं प्रस्तुतं यथा सामायिकस्वात्मप्ररूपणमित्यलं विस्त|रेण ॥ तत्र यदुक्तम् 'आत्मा खलु सामायिक' मिति तत्र यथाभूतोऽसौ सामायिकं तथाभूतमभिधित्सुराह— Jain Education International ܕ For Private & Personal Use Only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy