________________
तापयत्यष्टप्रकारं कम्र्मेति तपः, तपतेरौणादिकोऽसूप्रत्ययः, अनशनोनोदरतादि तत्प्रधानः संयमतपःसंयमः, असावनमत:-अभीष्टो मोक्षांगतया, तथा निर्ग्रन्थानामिदं नैन्यं, आहेतमित्यर्थः, किं', प्रवचन-श्रुतं, इह तपोग्रहणेन द्वादशप्रकारमपि तपः परिगृह्यते, संयमो नाम पापोपरमः, स च सप्तदशप्रकारः, एतेन च चारित्रसामायिकं परिगृहीतं, नैन्थं प्रवचन-श्रुतं, चशब्दः सम्यक्त्वादिसामायिकसमुच्चयार्थः, विवहारो'त्ति एवं व्यवहारो व्यवस्थितः,व्यवहारग्रहणात् तदधोवर्तिनी नेगमसंग्रहावपि गृहीती, तत एतदुक्तं भवति-नैगमसङ्ग्रहव्यवहारास्त्रिविधमपि सामायिकं मोक्षमार्गतयाऽनुमन्यन्ते | इति । आह च भाष्यकृत्-कस्स नयस्साणुमयं किं सामइयमिह मोक्खमग्गोत्ति । भण्णइ नेगमसंगह-यवहाराणं तु सबाई
शतवसंजमा चरितं निग्गंथं पवयणंति सुयनाणं । तग्गहणे सम्मत्तं तग्गहणातो य नायवं ॥२॥ (विशे. २६२२-३) आह-यदि नेगमादयस्त्रिविधमपि सामायिक मोक्षमार्गतयाऽनुमन्यन्ते किमिति तर्हि ते मिथ्यादृष्टयः', उच्यते, व्यस्ताना| मेव तेषां तेः मोक्षमार्गतयाऽनुमाननात्, न सापेक्षाणामेवेति, शब्दऋजुसूत्रयोः पुनः कारणे कार्योपचारात् निर्वाणमार्गों निर्वाणं संयम एवेत्यनुमतं, इह ऋजुसूत्रमुलझयादौ शब्दनयोपन्यासोऽशेषोपरितननयपरिग्रहार्थः, तत एतदुक्तं भवतिऋजुसूत्रादयः सर्वे चारित्रमेवैकं मोक्षमार्गमनुमन्यन्ते, न ज्ञानदर्शने, तद्भावेऽपि मोक्षासम्भवात् , तथाहि-न सर्वज्ञानसर्वदर्शनलामेऽपि तत्कालमेवापवर्गप्राप्तिः, किन्तु सर्वसंवरलाभे, ततः स एवैको मोक्षमार्ग इति, उक्कं च-"उज्जुसुयाइमयं पुण निवाणपहो चरित्तमेवेगं । न उ नाणदसणाई भावेवि न तेसि जं मोक्खो ॥१॥जं सबनाणदसणलंभेवि न तक्षणं चिय विमोक्खो। मोक्खो य सबसंवरलाभे मग्गो स एवातो॥२॥" (विशे. २६२५-६) एवं ब्रुवाणान् ऋजुसूत्रप्रभृतीन्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org