Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
Jain Education Inter
इत्यस्य व्याख्यानं प्राग्वत्, त्रिगुप्त इत्युपलक्षणं, तेन पञ्चसमित इत्यपि द्रष्टव्यं शब्दनयः पुनर्देशविरतिसामायिकमपि नेच्छति, तत एवमभिदधानमृजुसूत्रं प्रति स ब्रूते-यदि नाम सावद्ययोगविरतस्त्रिगुप्तः सामायिकमित्युच्यते ततो देशविरता अपि सामायिकं प्राप्नुवन्ति तेषामपि सामायिकं कुर्वतां सावद्ययोगविरतत्वात् यथायोगं पञ्चसमितित्रिगुप्तिभावाच्च, ततस्तेषां सामायिकत्वप्रतिषेधार्थमेवमभिदध्याः - सावद्ययोगविरतस्त्रिगुप्तः षट्सु संयतः आत्मा सामायिकमिति, षट्सु संयतो नाम त्रिविधंत्रिविधेन षट्सु जीवनिकायेषु सङ्घट्टनपरितापनादिभ्यो विरतः, तत एव देशविरतानां सामायिकमपि कुर्वतां सामायिकत्वन्युदासः, त्रिविधंत्रिविधेन विरत्यभावाद्, द्विविधंत्रिविधेनेति सामायिकसूत्रोच्चारणात्, | समभिरूढः पुनः प्रमत्तसंयतानामपि सूक्ष्मसम्परायपर्यन्तानां सामायिकत्वं नेच्छति, तत उक्तप्रकारेण ब्रुवन्तं शब्दनयं प्रति स प्राह-यदि नाम सावद्ययोगविरतस्त्रिगुप्तः षट्सु संयत आत्मा सामायिकमिति ब्रूषे, ततः प्रमत्तसंयतादीनामपि सामायिकत्वप्रसङ्गः तेषामपि यथोक्तविशेषणाविशिष्टत्वात्, तस्मादेवं वद - सावद्ययोगविरतस्त्रिगुप्तः षट्सु संयत उपयुक्त आत्मा सामायिकमिति, उपयुक्तो नाम कपायोदयलेशेनाप्यकलङ्कितः सन् समभावव्यापृतः, ते च उपशान्तमोहादय एव न प्रमत्तसंयतादयः, ततस्तेषां व्युदासः, एवंभूतः पुनः समुद्घातादिगतं सयोगिकेवलिन मयोगिकेवलिनं वा सामायिकमिच्छति, न शेषं यतः सामायिकस्य फलं मोक्षः, ततो यैव सम्यक् समभावे व्यवस्थितस्य समस्तकर्म्मविमोक्षार्थमायोजिकाकरणसमुद्घातादिका विगतक्रियाऽनिवर्त्तिध्यानप्रतिपत्तिरूपा वा क्रिया सैव सामायिकशब्दस्य प्रवृत्तिनिमिचम्, अतस्तत्प्रतिपत्त्यर्थे विशेषणान्तरमा :-सावद्ययोगविरतस्त्रिगुप्तः षट्सु संयत उपयुक्तो यतमान आत्मा सामायिक
For Private & Personal Use Only
w.jainelibrary.org

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308