SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter इत्यस्य व्याख्यानं प्राग्वत्, त्रिगुप्त इत्युपलक्षणं, तेन पञ्चसमित इत्यपि द्रष्टव्यं शब्दनयः पुनर्देशविरतिसामायिकमपि नेच्छति, तत एवमभिदधानमृजुसूत्रं प्रति स ब्रूते-यदि नाम सावद्ययोगविरतस्त्रिगुप्तः सामायिकमित्युच्यते ततो देशविरता अपि सामायिकं प्राप्नुवन्ति तेषामपि सामायिकं कुर्वतां सावद्ययोगविरतत्वात् यथायोगं पञ्चसमितित्रिगुप्तिभावाच्च, ततस्तेषां सामायिकत्वप्रतिषेधार्थमेवमभिदध्याः - सावद्ययोगविरतस्त्रिगुप्तः षट्सु संयतः आत्मा सामायिकमिति, षट्सु संयतो नाम त्रिविधंत्रिविधेन षट्सु जीवनिकायेषु सङ्घट्टनपरितापनादिभ्यो विरतः, तत एव देशविरतानां सामायिकमपि कुर्वतां सामायिकत्वन्युदासः, त्रिविधंत्रिविधेन विरत्यभावाद्, द्विविधंत्रिविधेनेति सामायिकसूत्रोच्चारणात्, | समभिरूढः पुनः प्रमत्तसंयतानामपि सूक्ष्मसम्परायपर्यन्तानां सामायिकत्वं नेच्छति, तत उक्तप्रकारेण ब्रुवन्तं शब्दनयं प्रति स प्राह-यदि नाम सावद्ययोगविरतस्त्रिगुप्तः षट्सु संयत आत्मा सामायिकमिति ब्रूषे, ततः प्रमत्तसंयतादीनामपि सामायिकत्वप्रसङ्गः तेषामपि यथोक्तविशेषणाविशिष्टत्वात्, तस्मादेवं वद - सावद्ययोगविरतस्त्रिगुप्तः षट्सु संयत उपयुक्त आत्मा सामायिकमिति, उपयुक्तो नाम कपायोदयलेशेनाप्यकलङ्कितः सन् समभावव्यापृतः, ते च उपशान्तमोहादय एव न प्रमत्तसंयतादयः, ततस्तेषां व्युदासः, एवंभूतः पुनः समुद्घातादिगतं सयोगिकेवलिन मयोगिकेवलिनं वा सामायिकमिच्छति, न शेषं यतः सामायिकस्य फलं मोक्षः, ततो यैव सम्यक् समभावे व्यवस्थितस्य समस्तकर्म्मविमोक्षार्थमायोजिकाकरणसमुद्घातादिका विगतक्रियाऽनिवर्त्तिध्यानप्रतिपत्तिरूपा वा क्रिया सैव सामायिकशब्दस्य प्रवृत्तिनिमिचम्, अतस्तत्प्रतिपत्त्यर्थे विशेषणान्तरमा :-सावद्ययोगविरतस्त्रिगुप्तः षट्सु संयत उपयुक्तो यतमान आत्मा सामायिक For Private & Personal Use Only w.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy