SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक मलय. वृत्ती उपोद्घाते ARRICA ॥४३०॥ सूक्ष्मवादरमनोवाक्कायव्यापारो विगतक्रियानिवर्तिध्यानमधिरूढः शैलेशी प्रतिपन्नो नामात्मा सामायिकमिति, एवं चा-131 नयैः साप्रमत्तसंयतादीनां व्यवच्छेदः, तेषां मनोवाक्कायव्यापारवत्तया सावद्ययोगपरिकलितत्वात् , 'नधि हु सक्किरियाणं अबंधगं मायिकम किंचि इह अणद्वाण'मिति वचनात्, नैगमस्य त्वनेकगमत्वात् समस्तैतद्विशेषणविशिष्टो वा द्वित्रिचतुःपञ्चविशेषणविशिष्टो। वा सामायिकमिति ॥ अन्ये त्वेवमभिदधति-सङ्ग्रहो वक्ति-आत्मा सामायिक-सामायिकशब्दवाच्यः, भावना प्रागिव, एवमुक्त व्यवहारस्तं प्रति भाषते-यदि नामात्मा सामायिकमित्येतावन्मात्रमभ्युपगम्यते ततः सावधव्यापारवहुलानामपि सामायिकत्वप्रसङ्गः, ततो मा वादीरेवं, किन्त्वेवं वद-सावद्ययोगविरत आत्मा सामायिकमिति, एवं च सावधव्यापारनिषण्णानां सामायिकत्वब्युदासः, ऋजुसूत्रः पुनः संयममेव सामायिकं मन्यते, न सम्यक्त्वसामायिकं श्रुतसामायिक वा, विरत्यभावे तयोर्निष्फलत्वात, 'ज्ञानस्य फलं विरति'रिति वचनात्, विरतिभावे च तयोः तत्रैवान्तर्भावात् , तत उक्तप्रकारेण वदन्तं व्यवहारं प्रति स प्राह-विरतिर्नाम परिज्ञानमात्रेऽपि तदासच्यभावतो लोके व्यवहियते, तथाहि-केचित्प्रबल चारित्रावरणीयकर्मोदयसमेताः कदाचित्तीर्थकरादिसमीपे धर्मश्रवणवेलायां नरकादिदुःखाकर्णनतस्तद्भीता विषयान् नरकादिकुग-18 तिप्रपातहेतुनवबुद्ध तेभ्यो विरज्यन्ते-हा घिग्! वयमेतेष्वेवंरूपेष्वपि प्रसका इति, लोकानामपि च तथारूपचेष्टादिदनत एवं प्रत्यय उपजायते-यदेते विरक्ता इति, परं ते न तान् विषयान् त्यक्तुं शक्नुवन्ति, प्रबलचारित्रावरणीयको ॥४३०॥ दयात्, ततः सावद्ययोगविरत आत्मा सामायिकमित्येतावन्मात्रोको तेषामपि सम्यक्त्वसामायिकवतां च व्यवहारतः सावद्ययोगविरतानां सामायिकस्वं प्रामोति, तस्मादेवमभिधानीयं-सावद्ययोगविरतत्रिगुप्त आत्मा सामायिकमिति, त्रिगुप्त AKADCALCACAACKAGCANCRACHAR Jain Education inte For Private & Personal Use Only O w.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy