________________
प्राणवन्ति, तेषामपि यथायोग ज्ञेयज्ञानप्रत्याख्येयप्रत्याख्यानसम्भवात् , तत एवमाचक्ष्व-पट्सु संयत उपयुक्तो यतमान आत्मा सामायिकमिति, पटसु-पृथिवीकायिकादिषु सम्यक्-सूत्रोक्कनीत्या यतः-सहद्दलपरितापनादिम्यो विरतः संयतः | एवं चाविरतसम्यग्दृष्टिदेशविरतव्यवच्छेदः, तेषां त्रिविधंत्रिविधेन षड़जीवनिकायपरितापनादिम्यो विरत्यभावात, एवमुक्त समभिरूदः प्राह-यदि षट्सु जीवनिकायेंषु संयत उपयुक्तो यतमान आत्मा सामायिकं ततः प्रमत्तसंयतानामपि सामायिकत्वप्रसंगः, तेषामपि पसु संयतत्वात् , तत एवमवगच्छ-त्रिगुप्तः षट्सु संयत उपयुक्तो यतमान आत्मा सामायिकमिति, त्रिगुप्तो नाम मनोवाकायगुप्तः, किमुक्तं भवति-अकुशलमनोवाकायप्रवृत्तिनिरोधी कुशलमनोवाकायो-| दीपकः, एकग्रहणे तज्जातीयग्रहणमिति न्यायात् पञ्चसु ईयभापैषणाऽऽदानभाण्डमात्रनिक्षेपणोच्चारप्रश्रवणादिपरिष्ठापनरूपामु समितिषु समित इत्यपि गृह्यते, ततः प्रमत्तसंयतानां व्यवच्छेदः, तेषां निद्राविकथादिप्रमादोपेतानां यथोकरूपगुप्तिसमित्यभावात् , एवं समभिरूढेनाभिहिते एवंभूतो वदति-यदि नाम यथोक्तस्वरूप आत्मा सामायिकं ततोऽप्रमत्तसंयतादयोऽपि सामायिकं भवेयुः, तेषामपि यथोक्तविशेषणविशिष्टत्वभावात् , तत एवं प्रतिपद्यस्व-सावद्ययोगविरतत्रिगुप्तः षट्सु संयतः उपयुक्तो यतमान आत्मा सामायिकमिति, सावद्ययोगविरतो नाम अवयं-कर्मबन्धः, सहावा यस्य येन वास सावद्यः, योगो व्यापारः सामयं वीर्यमित्येकार्थ, “जोगो विरियं थामो उच्छाह परक्कमो तहा चेट्ठा है। सत्ती सामत्थं चिय जोगस्स हवंति पजाया ॥१॥" इति वचनात् , सावद्यश्चासौ योगश्च सावद्ययोगस्तस्मात् विरत:प्रतिनिवृत्तः सावद्ययोगविरतो, परिज्ञया प्रत्याख्यानपरिज्ञया च परिज्ञातसमस्तसावद्ययोगः, किमुक्कं भवति-निरुद्ध
Inin Educati
onal
For Private & Personal Use Only
www.jainelibrary.org