Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
चिरन्तनघटवत्, अथ कृतस्यापि करणक्रिया तर्हि कृतत्वाविशेषादाकालमपरिसमाप्तिः, आह च-"जस्सेह कजमाणं कयंति तेणेह विजमाणस्स । करणकिरिया पवना, तथा च बहुदोसआवत्ती॥१॥ कयमिह न कन्जमाणं, सब्भावातो चिरंतणघडोब । अहवा कयंपि कीरइ, कीरउ निचं न य समत्ती ॥२॥" (विशेषा. २३०९-१०) अपिच-कृतमिति करणक्रिययोतीर्णमुच्यते, ततो यदि कृतं ततः क्रियमाणत्वायोगः, करणक्रियोत्तीर्णतया करणक्रियाया वैकल्याद्, अन्यच्च-कृतमिति वदता कप्रत्ययस्यातीते काले निर्वतितमिति प्रतिपन्नम् , अथ च क्रियमाणं पूर्वमभूतं सम्पति भवदुपल-13 भ्यते ततः प्रत्ययस्यायोगः, इतश्चायोगो-घटादीनां कर्तुमारब्धानां द्राधीयसा कालेन परिनिष्पन्नतयोपलब्धेः क्रियाप्रथमसमय एव करणक्रियोत्तीर्णत्वायोगात् , तथाहि-नारंभक्रियाप्रथमसमय एव घटादयः परिनिष्पन्नाः समुपलभ्यन्ते,
नापि शिवकाद्यद्धायां, किन्तु विवक्षिते क्रियाचरमसमये इति, तथा चोक्तम्-"किरियावेफलंचिय पुबमभूयं च दीसए होतं।। दिदीसइ दीहोयजओ किरियाकालोघडाईणं॥१॥नारंभेच्चिय दीसइन सिवादद्धाए दीसइ तदंते। तो नहि किरियाकाले कर्ज
*जुत्तं तदन्तमि॥२॥"(विशेषा. २३११-२) एवं स्वमतं युक्तिभिरुपस्थाप्यैवमेव प्ररूपणां चकार, स चेत्थं प्ररूपयन स्वगच्छजस्थविरैरिदमुक्तः-हे आचार्य ! क्रियमाणं कृतमित्यादि भगवदचनमवितथमेव, प्रत्यक्षविरुद्धत्वायोगात्, तथाहि-क्रियप्रमाणं नाम क्रियाविष्टमुच्यते, तद्यदि क्रियमाणं न कृतमित्यभ्युपगमस्तर्हि क्रियावैफल्यप्रसक्तिः, कार्योत्पादनार्थ हि क्रिया,
प्रथमक्षणभाविन्या च क्रियया कार्य नोत्पादित क्रियमाणस्य कृतत्वानभ्युपगमात् , तद्यदि प्रथमे क्रियाक्षणे कार्य नोत्पन्नं तत उत्तरेष्वपि क्रियाक्षणेषु तस्योत्पत्तिर्मा भूत, को हितासामुत्तरासां क्रियाणामात्मनि रूपविशेषो येन प्रथमया
JainEducation Intem
For Private & Personal use only
Phulainelibrary.org

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308