Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 258
________________ श्रीआव- बोटिकशिवभूतेः सकाशात् बोटिकलिङ्गस्य-बोटिकदृष्टर्भवत्युत्पत्तिः, वर्तमाननिर्देशप्रयोजनं प्राग्वत्, पाठान्तरं या निववदयक मल- बोडियलिंगस्स आसि उप्पत्ती', ततः कौण्डिन्यश्च कोट्टवीरश्च कौण्डिन्यकोट्टवीरं समाहारो द्वन्द्वस्ततः परम्परास्पर्शम्- कव्यतोय० वृत्ती:आचार्यशिष्यसम्बन्धलक्षणमधिकृत्योत्पन्ना-सञ्जाता, वोटिकदृष्टिरिति वाक्यशेषः। सम्प्रति निववक्तव्यतां निगमयन्नाह-181 पसंहारः उपोद्घाते एवं एए कहिआ ओसप्पिणिए उ निण्हता सत्त । वीरवरस्स पवयणे सेसाणं पवयणे नत्थि ॥ ७८४ ॥ एवम्-उक्तेन प्रकारेण एते अनन्तरोक्ताः कथिताः-प्रतिपादिता अस्यामवसपिण्यां निन्हवाः सप्त, अष्टमस्तु वोटिकः तुश॥४२६॥ ब्दसमुच्चितो, वीरवरस्य भगवतः प्रवचने-तीर्थे, शेषाणां तु तीर्थकृतां प्रवचने नस्थित्ति प्राकृतत्वान्नासीरन् निन्हवाः ॥ मुत्तूणमेसिमिक सेसाणं जावजीविया दिट्ठी। इकिकस्स य इत्तो दो दो दोसा मुणेअबा ॥ ७८५ ॥ मुक्त्वा एषामेकं गोष्ठामाहिलं निन्हवानां शेषाणां-जमालिप्रभृतीनां प्रत्याख्यानमङ्गीकृत्य यावजीविका दृष्टिरासीत् , न ते प्रत्याख्यानं गोष्ठामाहिल इवापरिमाणमिच्छुरिति भावना, आह-प्रकरणादेवेदमवसीयते किमर्थमस्योपन्यासः १, उच्यते, प्रतिदिवसोपयोगेन प्रत्याख्यानस्यातीवोपयोगित्वात् , मा भूत् कश्चित्तथैव प्रतिपद्यते, ततः प्रज्ञाप्यते-निन्हवानामपि प्रत्याख्यानविषये इयमेव दृष्टिरिति, 'एत्तो'त्ति प्राकृतत्वादमीषां मध्ये एकैकस्य निन्हवस्य द्वौ द्वौ दोपौ ज्ञातव्यो, मुक्त्वैकमिति वर्त्तते, तथाहि-बहुरता जीवप्रदेशिकान् प्रत्यूचुः-भवन्तो द्वाभ्यां कारणाभ्यां मिथ्यादृष्टयः, तत्रैकमिदं ४ ॥४२६॥ यद्भणय एकः प्रदेशो जीव इति, द्वितीयं क्रियमाणं कृतमिति, जीवप्रदेशिका अपि बहुरतान् प्रत्यवादिषुः-यूयमपि कारणद्वयेन मिथ्यादृष्टयः, एक तावदिदं यद्वदथ क्रियमाणमकृतं (द्वितीयं च चरमप्रदेशं) जीव इति प्रतिपद्यध्वे, AIRAGALANKAR lain Educalan inte For at & Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308