SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ श्रीआव- बोटिकशिवभूतेः सकाशात् बोटिकलिङ्गस्य-बोटिकदृष्टर्भवत्युत्पत्तिः, वर्तमाननिर्देशप्रयोजनं प्राग्वत्, पाठान्तरं या निववदयक मल- बोडियलिंगस्स आसि उप्पत्ती', ततः कौण्डिन्यश्च कोट्टवीरश्च कौण्डिन्यकोट्टवीरं समाहारो द्वन्द्वस्ततः परम्परास्पर्शम्- कव्यतोय० वृत्ती:आचार्यशिष्यसम्बन्धलक्षणमधिकृत्योत्पन्ना-सञ्जाता, वोटिकदृष्टिरिति वाक्यशेषः। सम्प्रति निववक्तव्यतां निगमयन्नाह-181 पसंहारः उपोद्घाते एवं एए कहिआ ओसप्पिणिए उ निण्हता सत्त । वीरवरस्स पवयणे सेसाणं पवयणे नत्थि ॥ ७८४ ॥ एवम्-उक्तेन प्रकारेण एते अनन्तरोक्ताः कथिताः-प्रतिपादिता अस्यामवसपिण्यां निन्हवाः सप्त, अष्टमस्तु वोटिकः तुश॥४२६॥ ब्दसमुच्चितो, वीरवरस्य भगवतः प्रवचने-तीर्थे, शेषाणां तु तीर्थकृतां प्रवचने नस्थित्ति प्राकृतत्वान्नासीरन् निन्हवाः ॥ मुत्तूणमेसिमिक सेसाणं जावजीविया दिट्ठी। इकिकस्स य इत्तो दो दो दोसा मुणेअबा ॥ ७८५ ॥ मुक्त्वा एषामेकं गोष्ठामाहिलं निन्हवानां शेषाणां-जमालिप्रभृतीनां प्रत्याख्यानमङ्गीकृत्य यावजीविका दृष्टिरासीत् , न ते प्रत्याख्यानं गोष्ठामाहिल इवापरिमाणमिच्छुरिति भावना, आह-प्रकरणादेवेदमवसीयते किमर्थमस्योपन्यासः १, उच्यते, प्रतिदिवसोपयोगेन प्रत्याख्यानस्यातीवोपयोगित्वात् , मा भूत् कश्चित्तथैव प्रतिपद्यते, ततः प्रज्ञाप्यते-निन्हवानामपि प्रत्याख्यानविषये इयमेव दृष्टिरिति, 'एत्तो'त्ति प्राकृतत्वादमीषां मध्ये एकैकस्य निन्हवस्य द्वौ द्वौ दोपौ ज्ञातव्यो, मुक्त्वैकमिति वर्त्तते, तथाहि-बहुरता जीवप्रदेशिकान् प्रत्यूचुः-भवन्तो द्वाभ्यां कारणाभ्यां मिथ्यादृष्टयः, तत्रैकमिदं ४ ॥४२६॥ यद्भणय एकः प्रदेशो जीव इति, द्वितीयं क्रियमाणं कृतमिति, जीवप्रदेशिका अपि बहुरतान् प्रत्यवादिषुः-यूयमपि कारणद्वयेन मिथ्यादृष्टयः, एक तावदिदं यद्वदथ क्रियमाणमकृतं (द्वितीयं च चरमप्रदेशं) जीव इति प्रतिपद्यध्वे, AIRAGALANKAR lain Educalan inte For at & Personal Use Only jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy