________________
प्रज्ञाप्यमानोऽपि मिथ्यात्वोदयात् कुलिङ्गभावो जिनमतमश्रद्धधानश्चीवराणि परित्यज्योपाश्रयाद्विनिर्गतः, तस्योत्तरा भगिनी, सा उद्याने स्थितं वन्दितुमागता, तं च तथाभूतं दृष्ट्वा तयापि चीवराणि तदनुरागेण परित्यक्तानि, ततो द्वावपि तो भिक्षार्थ प्रविष्टौ, गणिकया च तदवस्था दृष्टा, साऽचिन्तयत्-नूनमेवं स्त्रीणां बीभत्सं रूपं दृष्टा लोकोऽस्माकं विरक्तो भविष्यतीति, ततस्तया सा परिपूर्ण परिधापिता, सा नैच्छदिति मुक्तवती, ततो बलादपि तस्या उरसि कटिप्रदेशे चैक वस्त्रं सन्दधे, तदपि त्यजन्ती भ्रात्रा कथमपि दृष्ट्वा भणिता-तिष्ठत्वेतत्तव देवतया दत्तम्, आह च भाष्यकृत्-"तस्स भगिणी समुझियवस्था तह चेव तदणुरागेण । संपत्थिया नियत्या तो गणियाए पुणो मुयइ ॥१॥तीए पुणोवि बद्धोरसेगवस्था तयंपि छडेती। अच्छउ ते तेणं चिय समणुण्णाया धरेसी य ॥२॥" (वि. २६०७-८) तेन शिवभूतिना दो शिष्यो प्रनाजितो-कौण्डिन्यः कोट्टवीरश्च, ततः परम्परास्पर्शः समुत्पन्नः, उक्तंच-"कोडिन्नकोट्टवीरे पवावेसी य दोन्नि सो सीसे । तत्तो परंपराफासतो व सेसा समुप्पन्ना ॥१॥" (वि.२६०९) एवं बोटिका उत्पन्नाः, अमुमेवार्थ मूलभाध्यकारः सञ्जिहीर्घराहऊहाए पन्नत्तं योडिअ सिवभूइउत्तराहिं इमं । मिच्छादसणमिणमो रहवीरपुरे समुप्पन्नं ॥१४७॥ (म. भा.) __ऊहया-स्वतर्कबुद्ध्या प्रज्ञप्त-प्रणीतं बोटिक शिवभूत्युत्तराभ्याम् 'इणमोत्ति एतच्च मिथ्यादर्शनं क्षेत्रतो रथवीरपुरे समुत्पन्नम्। बोडिअसिवभूईओ बोडिअलिंगस्स होइ उप्पत्ती । कोडिन्नकुट्टवीरा परंपराफासमुप्पन्ना ॥ १४८ ॥(म.भा.)
ECICIALOGANESAGE
Jain Education International
For Private & Personal use only
www.jainelibrary.org