________________
एवं शेषाणामपि परस्परं भावनीयं, गोष्ठामाहिलमधिकृत्य पुनरेकैकस्य त्रयो दोषाः, तथाहि-बहुरतान् प्रति गोष्ठामा. |हिलोऽब्रवीत्-कारणत्रयाद् भवन्तो मिथ्यादृष्टयः, तत्र-एकमिदं यत्कृतं कृतमिति (यूयं) वदतेति, द्वितीयं स्पृष्टं बद्धं कर्म, तृतीयमपरिमाणं प्रत्याख्यानमिति, बहुरता अपि तं प्रत्यवोचन, भवानपि कारणत्रयान्मिथ्यादृष्टिः-एक तावदिदं यत् क्रियमाणं कृतमिति वदति, द्वितीयं स्पृष्टमवद्धं कर्म, तृतीयं सपरिमाणं प्रत्याख्यानमिति, एवं सर्वान् प्रति योजनीयम् .. अन्ये त्वाहुः-एकैकस्य द्वौ द्वौ दोषावेवं वेदितव्यो, एकं तावत्स्वयं विप्रतिपन्ना द्वितीयं परानपि व्युग्राहयन्तीति || नन्वेता दृष्टयः संसाराय आहोस्विदपवर्गायेत्याशङ्कानिवृत्त्यर्थमाह| सत्तेया दिट्ठीओ जाइजरामरणगन्भवसहीणं । मूलं संसारस्स उ हवंति निग्गंथरूवेणं ॥ ७८६॥
सधाप्येता दृष्टयो, बोटिकास्तु मिथ्यादृष्टय एवेति न तद्विचारः, 'जातिजरामरणगर्भवसतीना'मिति जातिग्रहणं नारकादिप्रकृतिग्रहे चरितार्थमिति गर्भवसतिग्रहणमदुष्टं, मूलं-कारणं, भवतीति योगः, मा भूत्सकृद्भाविनीनां जातिजरामरणगर्भवसतीनां मूलमिति प्रत्ययस्तत आह-संसारस्स उ' इति संसरणं संसार:-तिर्यग्नरनारकामरभवानुभूतिरूपः प्रदीर्घः
तस्येव, तुशब्दस्यावधारणार्थत्वात्, केन रूपेणेत्याह-निर्ग्रन्थरूपेण ॥ अथैते निन्हवाः किं साधव उत तीर्थान्तरीया आहोM स्विन्मिथ्यादृष्टयः १, उच्यते, न साधवो, यतः साधूनामेकस्याप्यर्थाय यत्कृतमशनादि तच्छेषाणां न कल्पते, नैवं ४ निन्हवानां, तथा चाह
पवयणनीदआणं जं तेसिं कारिअं जहिं जत्थ । भजं परिहरणाए मूले मह उत्तरगुणे अ ॥ ७८७ ॥
आ.स.७२
Jain Education Inter
For Private & Personal Use Only
jainelibrary.org