Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३२८
सूत्रकृताङ्ग सूत्रम् २/१/-/६४७ प्रवर्तते सा तथा तया-संयमयात्रामत्रया वृत्तिर्यस्य तत्तथा, तदपि बिलप्रवेशपन्नगभूतेनामनाऽऽहारमाहरेत्, एतदुक्तं भवति-यथाऽहिर्बिलं प्रविशन् तूर्णं प्रविशति एवं साधुनाऽप्याहारस्तत्स्वादमनास्वादयता शीघ्रं प्रवेशयितव्य इति, यदिवा सर्पणेवाहारो लब्ध्वाऽस्वादमभ्यवहार्यतइति।तदेवचाहारजातंदर्शयितुमाह-'अन्नं भक्तम् अत्रकाले सूत्रार्थपौरुष्युत्तरकालं भिक्षाकाले प्राप्ते, पुरःपश्चात्कर्मपरिहृतं भवति यथोक्तभिक्षाटनेन, ग्रहणकालावाप्तं मैक्षपरिभोगकाले भुञ्जीत, तथा पानकं पानकाले, नातितृषितो मुजीत नाप्यतिबुभुक्षितः पानकं पिबेदिति, तथा वस्त्रं वस्त्रकाले गृह्णीयाद्, उपभोगंवा कुर्यात्, तथा लयनं' गुहादिकमाश्रयस्तस्य वर्षास्ववश्यमुपादानमअन्यदा त्वनियमः, तथा शय्यतेऽस्मिन्निति शयनं-संस्तारकः सचशयनकाले,तत्राप्यगीतार्थानां प्रहरद्वयंनिद्राविमोक्षो गीतार्थानां प्रहरमेकमिति।
सभिक्षुराहारोपधिशयनस्वाध्यायध्यानादीनां मात्रांजानातीतितद्विधिज्ञः सन् अन्यतरां दिशमनुदिशं वा 'प्रतिपन्नः' समाश्रितो धर्ममाख्यापयेत्-प्रतिपादयेत् यद्येन विधेयं तद्यथायोगं विभजेद्धर्मफलानिचकीर्तयेद्-आविर्भावयेत्, तच्च धर्मकथनंपरहितार्थप्रवृत्तेनसाधुनासम्यगुपस्थितेषु शिष्येषु अनुपस्थितेषु वा-कौतुकादिप्रवृत्तेषु 'शुश्रूषमाणेषु' श्रोतुं प्रवृत्तेषु स्वपरहिताय 'प्रवेदयेद्' आवेदयेप्रकथयेदितियावत् । श्रोतुमुपस्थितेषु यत्कथयेत्तद्दर्शयितुमाह-संतिविरई इत्यादि शान्ति-उपशमः क्रोधजयस्तत्प्रधानाप्राणातिपातादिभ्यो विरतिः शान्तिविरतिः, यदिवा शान्ति-अशेषक्लेशोपशमरूपा तस्यै-तदर्थं विरतिः शान्तिविरतिस्तां कथयेत्, तथा उपशमम्' इन्द्रियनोइन्द्रियोपशमरूपं रागद्वेषाभावजनितं तथा 'निर्वृति' निर्वाणमशेषद्वन्द्वोपरमरूपं तथा 'सोयवियंति शौचंतदपि भावशौचंसर्वोपाधिविशुद्धता व्रतामालिन्यं अज्जवियंति आर्जवम्अमायित्वंतथा मार्दवं-मृदुभावःसर्वत्र प्रश्रयवत्त्वं विनयनम्रतेतियावत्,तथा 'लाघवियंति कर्मणां लाघवापादनं कर्मगुरोर्वाऽऽत्मनः कर्मापनयनतो लघ्ववस्थासंजननं, सामप्रतमुपसंहारद्वारेण सर्वशुभानुष्ठानानां मूलकारणमाह-अतिपतनम्-अतिपातः प्राण्युपमर्दनं तद्विद्यते यस्यासावतिपातिकस्तप्रतिषेधानतिपातिकस्तं सर्वेषां प्राणिनां भूतानां यावत्सत्त्वानां धर्ममनुविविच्यानुविचिन्त्य वा 'कीर्तयेत् कथयेत्, इदमुक्तं भवति-सर्वप्राणिनां रक्षाभूतं धर्मं कथयेदिति ।
साम्प्रतं धर्मकीर्तनं यथा निरुपधि भवति तथा दर्शयितुमाह-स भिक्षु परकृतपरनिष्ठिताहारभोजी यथाक्रियाकालानुष्ठायी शुश्रूषत्सुधर्मंकीर्तयेत् नान्नस्य हेतोममायमीश्वरोधर्मकथाप्रवणो विशिष्टमाहारजातंदास्यतीत्येतन्निमित्तंन धर्ममाचक्षीत, तथा पानवस्त्रलयनशयननिमत्तं न धर्ममाचक्षीत, अन्येषां वा विरूपरूपाणाम् उच्चावचानां कार्याणां कामभोगानां वा निमित्तं न धर्ममाचक्षीत तथा ग्लानिमनुपगच्छन् धर्ममाचक्षीत, कर्मनिर्जरायाश्चान्यत्र न धर्म कथये, अपरप्रयोजननिरपेक्षएवधर्मंकथयेदिति॥धर्मकथाश्रवणफलदर्शनद्वारेणोपसंजिघृक्षुराह-'इह खलु तस्से'त्यादि, ‘इह' अस्मिन् जगति खलु वाक्यालङ्कारे 'तस्य' भिक्षोर्गुणवतः ‘अन्तिके' समीपे पूर्वोक्तविशेषणविशिष्टं धर्मं श्रुत्वा "निशम्य' अवगम्य सम्यगुत्थानेनोत्थाय 'वीराः' कर्मविदारणसहिष्णवो ये चैवंभूतास्ते “एवं' पूर्वोक्तविशेषणविशिष्टानुष्ठानतया सर्वस्मिन्नपि मोक्षकारणे सम्यग्दर्शनादिके उप-सामीप्येन गताः सर्वोपगताः, तथैव सर्वेभ्यः पापस्थानेभ्य उपरताःसर्वोपरताःतथातएव सर्वोपशान्ता जितकषायतयाशीतलीभूताःतथातएव सर्वात्मतयासर्वसामर्थ्येन सदनुष्ठाने उद्यमं कृतवन्तोयेचवंभूतास्तेऽ-शेषकर्मक्षयं कृत्वा परि-समन्तानिवृताः
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484