Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 438
________________ अध्ययनं - ६, श्रुतस्कन्धः - २, मू. (७७५) तं भुंजमाणा पिसितं पभूतं, नो उवलिप्पामो वयं रएणं । इच्छेवमाहंसु अणज्जधम्मा, अनारिया बाल रसेसु गिद्धा ॥ वृ. संस्कृत्य च यत्कुर्वन्ति तद्दर्शयितुमाह-'तं भुंजमाणा' इत्यादि, 'तत्' पिशितं शुक्रशोणितसंभूतमनार्याइव भुञ्जाना अपि प्रभूतं तद्रजसा- पापेन कर्मणा न वयमुपलिप्यामह इत्येवं धाष्ट्र्र्योपेताः प्रोचुः अनार्याणामिव धर्मः-स्वभावो येषां ते तथा अनार्यकर्मकारित्वादनार्या बाला इव बाला विवेकरहितत्वाद्रसेषु च मांसादिकेषु 'गृद्धा' अध्युपपन्नाः । ४३५ मू. (७७६) जे यावि भुंजंति तहप्पगारं, सेवंति ते पावमजाणमाणा । मणं न एयं कुसला करेंती, वायावि एसा बुइया उ मिच्छा ॥ ॥१॥ वृ. इत्येतच्च तेषां महतेऽनर्थायेति दर्शयति ये चापि रसगौरवगृद्धाः शाक्योपदेशवर्तिनस्तथाप्रकारं स्थूलोरभ्रसंभूतं घृतलवणमरिचादिसंस्कृतं पिशितं 'भुञ्जते' अश्नन्ति तेऽनार्या 'पाप' कल्मषमजानाना निर्विवेकिनः 'सेवन्ते' आददते, तथा चोक्तम्हिंसामूलममेध्यमास्पदमलं ध्यानस्य रौद्रस्य - यद्वीभत्सं रुधिराविलं कृमिगृहं दुर्गंधि पूयादिम् । शुक्रासृक्प्रमवं नितान्तमलिनं सद्भिः सदा निन्दितं, को भुङ्क्ते नरकाय राक्षससमो मांसं तदात्मद्रुहः ? ॥ (अपि च) मांस भक्षयिताऽमुत्र, यस्य मांसमिहद्वयहम् । एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥ (तथा) योऽत्ति यस्य च तन्मांसमुभयोः पश्यतान्तरम् । एकस्य क्षणिका तृप्तिरन्यः प्राणैर्वियुज्यते ।। ॥२॥ + ॥३॥ तदेवं महादोषं मांसादनमिति मत्वा यद्विधेयं तद्दर्शयति-तदेवंभूतं मांसादनाभिलाषरूपं मनः - अन्तःकरणं कुशला निपुणा मांसाशित्वविपाकवेदिनस्तन्निवृत्तिगुणाभिज्ञाश्च न कुर्वन्ति, तदभिलाषात् मनो निवर्त्तयन्तीत्यर्थः, आस्तां तावद्भक्षणं, वागप्येषा यथा न मांसभक्षणे दोष इत्यादिका भारत्यप्यभिहिता-उक्ता मिथ्या, तुशब्दान्मनोऽपि तदनुमत्यादौ न विधेयमति, तन्निवृत्तौ चेवानुपमा श्लाघाऽमुत्र च स्वर्गापवर्गगमनमिति, तथा चोक्तम् श्रुत्वा दुःखपम्परामतिघृणां मांसाशिनां दुर्गतिं, ये कुर्वन्ति शुभोदयेन विरतिं मांसादनस्यादरात् । सद्दीर्घायुरदूषितं गदरुजा संभाव्य यास्यन्ति ते, मत्येषूद्भटभोगधर्ममतिषु स्वर्गापगर्गेषु च । (इत्यादि) मू. (७७७) सव्वेसि जीवाण दयट्ठाए, सावज्जदोसं परिवज्जयंता । तस्संकिणो इसिणो नायपुत्ता, उदिट्ठमत्तं परिवज्जयंति ॥ वृ. न केवलं मांसादनमेव परिहार्यम्, अन्यदपि मुमुक्षणां परिहर्तव्यमिति दर्शयितुमाह'सव्वेसि' मित्यादि, सर्वेषां जीवानां प्राणार्थिनां, न केवलं पञ्चेन्द्रियाणामेवेति सर्वग्रहणं, 'दयार्थतया' दयानिमित्तं सावद्यमारम्भं महानयं दोषं इत्येवं मत्वा तं परिवर्जयन्तः साधवस्तच्छंकिनो-दोषशङ्किनः 'ऋषयो' महामुनयो 'ज्ञातपुत्रीयाः ' श्रीमन्महावीरवर्द्धमानशिष्याः उद्दिष्टं दानाय परिकल्पितं For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484