Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४४२
सूत्रकृताङ्ग सूत्रम् २/६/-/७९१ एवमाककुमारो राजानं प्रतिबोध्य तीर्थकरान्तिकं गत्वाऽभिवन्द्य च भगवन्तं भक्तिभरनिर्भर आसांचक्रे, भगवानपि तानि पञ्चापिशतानि प्रव्राज्य तच्छिष्यत्वेनोपनिन्य इति मू. (७९२) बुद्धस्स आणाए इमं समाहि, अस्सिं सुठिच्चा तिविहेण ताई।
तरिउं समुदं व महाभवोघं, आयाणवं धम्ममुदाहरेज्जा ।।-त्तिबेमि। वृ.साम्प्रतंसमस्ताध्ययनार्थोपसंहारार्थमाह-'बुद्धस्से त्यादि, बुद्धः' अवगततत्त्वः सर्वज्ञो वीरवर्द्धमानस्वामी तस्याज्ञया-तदागमेन इमं समाधि सद्धर्मावाप्तिलक्षणंअवाप्यास्मिंश्च समाधी सुष्टु स्थित्वा मनोवाक्कायैः सुप्रणिहितेन्द्रियो न मिथ्याद्दष्टिमनुमन्यते, केवलं तदावरणजुगुप्सां त्रिविधेनापिकरणेन विधत्ते,सएवंभूतआत्मनः परेषांचत्रायी-त्राणशीलस्तायीवा-गमनशीलो मोक्षप्रति, स एवंभूतस्तरीतुम् अतिलक्ष्य समुद्रमिव दुस्तरंमहाभवौधं मोक्षार्थमादीयत इत्यादानंसम्यग्दर्शनज्ञानचारित्ररूपंतद्विद्यतेयस्यासावादानवान-साधुः, सच सम्यग्दर्शनेनसता परतीर्थिकतपः समृध्यादिदर्शनेन मौनीन्द्राद्दर्शनान्न प्रच्यवते, सम्यगज्ञानेन तु यथावस्थितवस्तुप्ररूपणतः समस्तप्रावादुकवादनिराकरणेनापरेषांयथावस्थितमोक्षमार्गमा-विर्भावयतीति, सम्यकचारित्रेण तु समस्तभूतग्रामहितैषितया निरुद्धाश्रवद्वारः सन्तपोविशे-षाच्चानेकभवोपार्जितंकर्म निर्जरयति स्वतोऽन्येषां चैवंप्रकारमेवधर्ममुदाहरेद-व्यागृणीयात् आविर्भावयेदित्यर्थ । इतिपरिसमाप्तयर्थे ब्रवीमीति नयाश्च प्राग्वदेव वाच्याः, वक्ष्यन्ते चोत्तरत्र
अध्ययनं-६ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलानाचार्य विरचिता द्वीतीयश्रुतस्कन्धस्य षष्ठमध्ययनटीका परिसमाप्ता।
(अध्ययन-७ नालन्दीयं) वृ. व्याख्यातं षष्ठमध्ययनम्, अधुना सप्तममारभ्यते, अस्य चायमभिसंबन्धः-इह प्राग्व्याख्यातेनाखिलेनापिसूत्रकृताङ्गेन स्वसमयपरसमयप्ररूपणाद्वारेणप्रायः साधूनामाचारोऽभिहितोऽनेन तु श्रावकगतो विधिरुच्यते, यदिवाऽनन्तराध्ययने परवादनिराकरणं कृत्वा साध्वाचारस्य य उपदेष्टा स उदाहरणद्वारेण प्रदर्शितः, इह तु श्रावकधर्मस्य य उपदेष्टा स उदाहरणद्वारेणैव प्रदर्श्यते, यदिवाऽनन्तराध्ययने परतीर्थिकैः सह वाद इह तु स्वयूथ्यैरिति।
अनेनसम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराण्युपवर्णितव्यानि उपक्रमादीनि, तत्रापि नामनिष्पन्ने निक्षेपे नालन्दीयाभिधानमिदमध्ययनम्, इदंचैवं व्युत्पाद्यते-प्रतिषेधवाचिनो नकारस्यतदर्थस्यैवालंशब्दस्य 'डुदाञ्दाने' इत्येतस्यधातोर्मीनेननालंददातीति नालंदा, इदमुक्तं भवति-प्रतिषेधप्रतिषेधेनधात्वर्थस्यैवप्राकृतस्य गमनात्सदाऽर्थिभ्यो यताऽभिलषितंददातीति नालन्दा-राजगृहनगरबाहिरिका तस्यां भवं नालन्दीयमिदमध्ययनं, अनेन चाभिधानेन समस्तोऽप्युपोद्घात उपक्रमरूप आवेदितो भवति, तत्स्वरूपंच पर्यन्ते स्वत एव नियुक्तिकारः 'पासावच्चिज्जे इत्यादिगाथया निवेदयिष्यतीति।
साम्प्रतं संभविनमलंशब्दस्य निक्षेपं नदौ परित्यज्य कर्तुमाहनि. [२०१] नामअलं ठवणअलं दव्वअलं चेव होइ भावअलं ।
___ एसो अलसइंमिउ निक्खेवो चउविहो होइ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484