Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 453
________________ ४५० सूत्रकृताङ्ग सूत्रम् २/७/-1८०० ____ गवंचणंउदाहु-संतेगइआ मणुस्सा भवंति, तेसिंचणंएवं वृत्तपुव्वं भवइ-नोखलु वयं संचाएमोमुंडाभवित्ता अगाराओअनगारियंपव्वइत्तए, सावयंण्हं अनुपुब्वेणंगुत्तस्स लिसिस्सामो, ते एवं संखति ते एवं संखं ठवयंति ते एवं संखं ठावयंति नन्नत्थ अभिओएणं गाहावइचोरगहणविमोक्खणयाए तसेहिं पाणेहिं निहाय दंडं, तंपि तेसिं कुसलमेव भवइ । वृ. सद्वाचं सवादं वोदकः पेढालपुत्रो भगवन्तं-गौतममेवमवादीत्, तद्यथा-हे आयुष्मन् गौतम्! कतरान्प्राणिनो यूयंवदथ, असा एवये प्राणाः-प्राणिनस्तएव त्रसाः प्राणा इत्युतान्यथेति, एवंपृष्टोभगवान् गौतमस्तमुदकंसद्वाचं पेढालपुत्रमेवमवादीत्, तद्यथा-आयुष्मन्नुदक!यान्प्राणिनो यूयं वदथ त्रसभूताः-त्रसत्वेनाविभूताः प्राणिनो नातीता नाप्येष्याः, किंतु ? वर्तमानकाल एव त्रसाः प्राणा इति, तानेव वयं वदामस्त्रसाः-त्रसत्वं प्राप्तास्तत्कालवर्तिन एव त्रसाः प्राणा इति, एतदेवव्यत्ययेन बिभणिपुराह-'जेवय'मित्यादि, यान्वयंवदामस्त्रसाएवप्राणास्त्रसाःप्राणास्तानेव यूयमेवं वदथ-त्रसभूता एव प्राणास्त्रसभूताः प्राणाः, एवं च व्यवस्थिते एतेअनन्तरोक्ते द्वे अपि स्थाने एकार्थे-तुल्ये भवतो, न ह्यत्रार्थभेदः कश्चिदस्त्यन्यत्र शब्दभेदादिति, एवं च व्यवस्थिते किमायुष्मन् ! युष्माकमयं पक्षः सुष्ठु प्रणीततरो-युक्तियुक्तः प्रतिभासते? । तद्यथा-त्रसभूता एव प्राणास्त्रसभूताः प्राणा इति, अयं तु पक्षो दुष्प्रणीततरो भवति' प्रतिभासते भवतां?, तद्यथा-सा एव प्राणास्त्रसाः प्राणाः, सन्ति चैकार्थत्वेन भवतां कोऽयं व्यामोहो? येन शब्दभेदमात्रमाश्रित्यात एकंपक्षमाक्रोशयथ द्वितीयंत्वभिनन्दथ इति।तदयमपि तुल्येऽप्यर्थे सत्येकस्य पक्षस्याक्रोशनमपरस्य सविशेषणपक्षस्याभिनन्दनमित्येष दोषाभ्युपगमो भवतां नोनैयायिको'नन्यायोपपन्नोभवति, उभयोरपिपक्षयोःसमानत्वात्, केवलंसविशेषणपक्षे भूतशब्दोपादानं मोहमावहतीति । यच्चभवताऽस्माकंप्राग्दोषोद्भावनमकारि, तद्यथा-त्रसानांवधनिवृत्तीतदन्येषांवधानुमति स्यात् साधोः, तथा भूतशब्दानुपादानेऽनन्तरमेव त्रसंस्थावरपर्यायापन्नं व्यापादयतो व्रतभङ्ग इत्येतत्कुचोद्यजातं परिहर्तुकाम आह-णमिति वाक्यालङ्कारे, भगवान्गौतमस्वामी, चशब्दः पुनःशब्दार्थे, पुनराह, तद्यथा-'सन्ति' विद्यन्तेएकेकेचनलघुकर्माणो मनुष्याःप्रव्रज्यांकर्तुमसमर्थाः, तद्वयतिरेकेणैव धर्मचिकीर्षवः, तेषांचैवमध्यवसायिनांसाधोधर्मोपदेशप्रवणस्याग्रत इदमुक्तपूर्व भवति, तद्यथा-भोः साधो! नखलुवयंशक्नुमो मुण्डा भवितुं प्रव्रज्यां ग्रहीतुमगाराद्-गृहादनगारतांसाधुभावं प्रतिपत्तुं, वयं त्वानुपूर्वेणं-क्रमशो ‘गोत्रस्येति गां त्रायत इति गोत्रं-साधुत्वं तस्य साधुभावस्यपर्यायेण-परिपाट्याऽऽत्मानमनुश्लेषयिष्यामः, इदमुक्तंभवति-पूर्वदेशविरतिरूपतया श्रावकधर्मं गृहस्थयोग्यमनिन्द्यमनुपालयामः, ततोऽनुक्रमेण पश्चाच्छ्रमणधर्ममिति । ततएवं ते 'संख्यां' व्यवस्थां 'श्रावयन्ति' प्रत्याख्यानं कुर्वन्तः प्रकाशयन्ति, तद्यथा-नान्यत्राभियोगेन। स चामियोगो राजाभियोगो गणाभियोगो बलाभियोगो देवताभियोगो गुरुनिग्रहश्वेत्येवमादिनाऽभियोगेन व्यापादयतोऽपि त्रसंन व्रतभङ्गः। तथागृहपतिचोरविमोक्षणतयेत्यस्यायमर्थःकस्यचिद्गृहपतेः षट्पुत्राः, तैश्चसत्यपि पितृपितामहक्रमायातेमहति वित्तेतथाविधकर्मोदयाद्राजकुलभाण्डागारे चौर्यमकारि, राजपुरुषैश्च भवितव्यतानियोगेन गृहीतास्ते इत्येके, परे त्वन्यथा व्याचक्षते, तद्यथा-रत्नपुरेनगरेरलशेखरोनामराजा, तेनचपरितुष्टेन रत्नमालाग्रमहिषीप्रमुखान्तः पुरस्य कौमुदीप्रचारोऽनुज्ञातः, तदवगभ्य नागरलोकेनापि राजानुमत्यास्वकीयस्य स्त्रीजनस्य तथैव क्रीडनमनुमतं, राज्ञाचनगरेसडिण्डिमशब्दमाघोषितं, तद्यथा-अस्तमनोपरिकौमुदीमहोत्सवे www.jainelibrary.org Jain Education International For Private & Personal Use Only

Loading...

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484