Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 467
________________ ४६४ सूत्रकृताङ्ग सूत्रम् २/-1-1८०६ शब्दनयस्वरूपं त्विदं, तद्यथा-शब्दद्वारेणैवास्यार्थप्रतीत्यभ्युपगमाल्लिङ्गवचनसाधनोपग्रहकालभेदाभिहितं वस्तु भिन्नमेवेच्छति, तत्र लिङ्गभेदाभिहितं वस्त्वन्यदेव भवति, तद्यथा-पुष्यस्तारका नक्षत्रमेवं संख्याभिन्नं जलमापो वर्षा ऋतुः, साधनभेदस्त्वयं-एहि मन्ये रथेन यास्यसि, नहि यातस्ये पिता, अस्यायमर्थः-एवं त्वं मन्यसे यथाऽहं रथेन यास्यामीत्यत्र मध्यमोत्तमपुरुषव्योर्व्यत्ययः, उपग्रहस्तुपरस्मैपदात्मनेपदयोर्व्यत्ययः, तद्यथा-तिष्ठति प्रतिष्ठते रमते उपरमतीत्यादि, कालभेदस्तुअग्निष्टोमयाजी पुत्रोऽस्य भविता, अस्यायमर्थः-अग्निष्टोमयाजी अग्निष्टोमेनेष्टवान्, भूते णिनिः, भवितेति भविष्यदनद्यतने लुट्, तत्रायमर्थः-णिनिप्रत्ययो भवितेत्यस्य सम्बन्धाद्भूतकालातां परित्यज्य भविष्यत्कालतांप्रतिपद्यते, तेनेदमुक्तं भवति-एवंभूतोऽस्य पुत्रो भविष्यति योऽग्निष्टोमेन यक्ष्यति तदेवंभूतंव्यवहारनयंशब्दनयोनेच्छति, लिङ्गाधभिन्नांस्तु पर्यायान्अनेकविषयत्वेनेच्छति, तद्यथा-घटः कुटः कुम्भः इन्द्रः शक्रः पुरन्दर इत्यादि, अयमप्यर्थव्यञ्जनपर्यायोभयरूपस्य वस्तुनो व्यअनपर्यायस्यैव समाश्रयणान्मिथ्यादृष्टिरिति । तथा पर्यायाणां नानार्थतया समभिरोहणात्समभिरूढो, न ह्ययं घटादिपर्यायाणामेकार्थतामिच्छति, तथाहि-घटनाद् घटः कुटनात्कुटः कौ भातीति कुम्भो, नहि घटनं कुटनं भवति, तथेन्दनादिन्द्रः पुर्दारणात्पुरन्दर इत्यादेरपिशब्दप्रवृत्तिनिमित्तस्य न परस्परानुगतिरिति, तदयमपि मिथ्याष्टिः, पर्यायाभिहितधर्मव-द्वस्तुनोऽनाश्रयणाद् गृहीतप्रत्येकावयवान्धहस्तिज्ञानवदिति। एवंभूताभिप्रायस्त्वयं-यदैव शब्दप्रवृत्तिनिमित्तंचेष्टादिकं तस्मिन्घटादिके वस्तुनि तदैवासौ युवतिमस्तकारूढ उदकाद्याहरणक्रियाप्रवृत्तो घटो भवति, न निव्यापारः, एवंभूतस्यार्थस्य समाश्रयणादेवंभूताभिधानोनयो भवति, तदयमप्यनन्तधर्माध्यासितस्यवस्तुनोऽनाश्रयणान्मिथ्यादृष्टिः, रत्नावल्यक्यवे पद्मरागादौ कृतरत्नावलीव्यपदेशपुरुषवदिति। तदेवं सर्वेऽपिनयाः प्रत्येकं मिथ्यादृष्टयोऽन्योऽन्यसव्यपेक्षास्तु सम्यक्त्वं भजन्ति । अत्र च ज्ञानक्रियाभ्यां मोक्ष इति कृत्वा ज्ञानक्रियानययोः सर्वेऽप्येते स्वधिया समवतारणीयाः। तत्रापि ज्ञाननय एहिकामुष्मिकयोनिमेव फलसाधकत्वेनेच्छतिन क्रियां, क्रियानयस्त क्रियामेव न ज्ञानं, परमार्थस्तूभयमपि समुदितमन्योऽन्यसव्यपेक्षपंग्वन्धवदभिप्रेतफलसिद्धयेऽलमिति एतदुभययुक्त एव साधुरभिप्रेतमर्थं साधयति, उक्तंच॥१॥ “सव्वेसिपि नयाणं बहुविहवत्तव्वयं नि सामेत्ता। तं सव्वनयविसुद्धं जंचरणगुणट्ठिओ साहू ।। | श्रुतस्कन्धः-२ समाप्तः । मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाङ्काचार्य विरचिता द्वीतीय श्रुतस्कन्धटीका परिसमाप्ता। | २ | द्वितीयं अङ्गसूत्रम् सूत्रकृत समाप्तम् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484