SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ४४२ सूत्रकृताङ्ग सूत्रम् २/६/-/७९१ एवमाककुमारो राजानं प्रतिबोध्य तीर्थकरान्तिकं गत्वाऽभिवन्द्य च भगवन्तं भक्तिभरनिर्भर आसांचक्रे, भगवानपि तानि पञ्चापिशतानि प्रव्राज्य तच्छिष्यत्वेनोपनिन्य इति मू. (७९२) बुद्धस्स आणाए इमं समाहि, अस्सिं सुठिच्चा तिविहेण ताई। तरिउं समुदं व महाभवोघं, आयाणवं धम्ममुदाहरेज्जा ।।-त्तिबेमि। वृ.साम्प्रतंसमस्ताध्ययनार्थोपसंहारार्थमाह-'बुद्धस्से त्यादि, बुद्धः' अवगततत्त्वः सर्वज्ञो वीरवर्द्धमानस्वामी तस्याज्ञया-तदागमेन इमं समाधि सद्धर्मावाप्तिलक्षणंअवाप्यास्मिंश्च समाधी सुष्टु स्थित्वा मनोवाक्कायैः सुप्रणिहितेन्द्रियो न मिथ्याद्दष्टिमनुमन्यते, केवलं तदावरणजुगुप्सां त्रिविधेनापिकरणेन विधत्ते,सएवंभूतआत्मनः परेषांचत्रायी-त्राणशीलस्तायीवा-गमनशीलो मोक्षप्रति, स एवंभूतस्तरीतुम् अतिलक्ष्य समुद्रमिव दुस्तरंमहाभवौधं मोक्षार्थमादीयत इत्यादानंसम्यग्दर्शनज्ञानचारित्ररूपंतद्विद्यतेयस्यासावादानवान-साधुः, सच सम्यग्दर्शनेनसता परतीर्थिकतपः समृध्यादिदर्शनेन मौनीन्द्राद्दर्शनान्न प्रच्यवते, सम्यगज्ञानेन तु यथावस्थितवस्तुप्ररूपणतः समस्तप्रावादुकवादनिराकरणेनापरेषांयथावस्थितमोक्षमार्गमा-विर्भावयतीति, सम्यकचारित्रेण तु समस्तभूतग्रामहितैषितया निरुद्धाश्रवद्वारः सन्तपोविशे-षाच्चानेकभवोपार्जितंकर्म निर्जरयति स्वतोऽन्येषां चैवंप्रकारमेवधर्ममुदाहरेद-व्यागृणीयात् आविर्भावयेदित्यर्थ । इतिपरिसमाप्तयर्थे ब्रवीमीति नयाश्च प्राग्वदेव वाच्याः, वक्ष्यन्ते चोत्तरत्र अध्ययनं-६ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलानाचार्य विरचिता द्वीतीयश्रुतस्कन्धस्य षष्ठमध्ययनटीका परिसमाप्ता। (अध्ययन-७ नालन्दीयं) वृ. व्याख्यातं षष्ठमध्ययनम्, अधुना सप्तममारभ्यते, अस्य चायमभिसंबन्धः-इह प्राग्व्याख्यातेनाखिलेनापिसूत्रकृताङ्गेन स्वसमयपरसमयप्ररूपणाद्वारेणप्रायः साधूनामाचारोऽभिहितोऽनेन तु श्रावकगतो विधिरुच्यते, यदिवाऽनन्तराध्ययने परवादनिराकरणं कृत्वा साध्वाचारस्य य उपदेष्टा स उदाहरणद्वारेण प्रदर्शितः, इह तु श्रावकधर्मस्य य उपदेष्टा स उदाहरणद्वारेणैव प्रदर्श्यते, यदिवाऽनन्तराध्ययने परतीर्थिकैः सह वाद इह तु स्वयूथ्यैरिति। अनेनसम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराण्युपवर्णितव्यानि उपक्रमादीनि, तत्रापि नामनिष्पन्ने निक्षेपे नालन्दीयाभिधानमिदमध्ययनम्, इदंचैवं व्युत्पाद्यते-प्रतिषेधवाचिनो नकारस्यतदर्थस्यैवालंशब्दस्य 'डुदाञ्दाने' इत्येतस्यधातोर्मीनेननालंददातीति नालंदा, इदमुक्तं भवति-प्रतिषेधप्रतिषेधेनधात्वर्थस्यैवप्राकृतस्य गमनात्सदाऽर्थिभ्यो यताऽभिलषितंददातीति नालन्दा-राजगृहनगरबाहिरिका तस्यां भवं नालन्दीयमिदमध्ययनं, अनेन चाभिधानेन समस्तोऽप्युपोद्घात उपक्रमरूप आवेदितो भवति, तत्स्वरूपंच पर्यन्ते स्वत एव नियुक्तिकारः 'पासावच्चिज्जे इत्यादिगाथया निवेदयिष्यतीति। साम्प्रतं संभविनमलंशब्दस्य निक्षेपं नदौ परित्यज्य कर्तुमाहनि. [२०१] नामअलं ठवणअलं दव्वअलं चेव होइ भावअलं । ___ एसो अलसइंमिउ निक्खेवो चउविहो होइ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy