Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 448
________________ श्रुतस्कन्धः-२, अध्ययन-७, ४४५ - प्रयोजनं प्रयोगः-प्रायोगिकत्वं तैरायोगप्रयोगैः संप्रयुक्तः-समन्वितः तथेतश्चेतश्च विक्षिप्तप्रचुरभक्तपानो बहुदास्यादिपरिवृतो बहुजनस्यापरिभूतश्चासीत्।तदियता विशेषणकदम्बकेनैहिकगुणा विष्करणेन द्रव्यसंपदभिहिता ।। अधुनाऽऽमुष्मिकगुणाविर्भावेन भावसंपदभिधीयते __णमिति वाक्यालङ्कारे, स लेपाख्यो गृहपति श्रमणान्-साधूनुपास्ते-प्रत्यहं सेवत इति श्रमणोपासकः, तदनेन विशेषणेन तस्य जीवादिपदार्थाविर्भावकश्रुतज्ञानसंपदावेदिताभवति, एतदेव दर्शयति अभिगतजीवाजीवेत्यादिना ग्रन्थेन यावदसहायोऽपि देवासुरादिभिर्देवगणैरनतिक्रमणीयः-अनतिलङ्घनीयो धर्मादप्रच्यावनीय इतियावत्, तदियता विशेषणकलापेन तस्य सम्यगज्ञानित्वमावेदितं भवति । साम्प्रतं तस्य विशिष्टसम्यग्दर्शनित्वं प्रतिपादयितुमाह'निग्गंथे' इत्यादि, 'निर्ग्रन्थे' आर्हते प्रवचने निर्गता शङ्गा देशसर्वरूपा यस्य स निशङ्कः, 'तदेव सत्यं निशङ्कयज्जिनैः प्रवेदित'मित्येवंकृताध्यवसायः, तथा निर्गताकाङ्क्षा-अन्यान्यदर्शनग्रहणरूपा यस्यासौनिराकास, तथा निर्गता विचिकित्सा-चित्तविप्लुतिर्विद्वज्जुगुपसावायस्यासौनिर्विचिकित्सो, यत एवमतो लब्धः-उपलब्धोऽर्थः-परमार्थरूपो येन स लब्धार्थो ज्ञाततत्त्व इत्यर्थः। तथा गृहीतः-स्वीकृतोऽर्थो-मोक्षमार्गरूपो येन स गृहीतार्थः, तथा-विशेषतः पृष्टोऽर्थो येन स पृष्टार्थो, यत एवमतो विनिश्चितार्थः ततोऽभिगतः-पृष्टनिर्वचनतः प्रतीतोऽर्थो येन सोऽभिगतार्थः, तथाऽस्थिमिजा-अस्थिमध्यं यावत् स धर्मे प्रेमानुरागेण रक्तः अत्यन्तं सम्यक्त्ववासितान्तश्चेताइतियावत्, एतदेवाविर्भावयन्नाह अयमाउसो'इत्यादि, केनचिद्धर्मसर्वस्वं पृष्टःसन्नेतदाचष्टे, तद्यथा-भोआयुष्मन्निदंनैर्ग्रन्थं मौनीन्द्रप्रवचनमर्थः-सद्भूतार्थःतथाप्ररूपणतया, तथेदमेवाह-अयमेव परमार्थः, कषतापच्छेदैरस्यैव शुद्धत्वेन निर्घटितत्वात्, शेषस्तु सर्वोऽपि लौकिकतीर्थिकपरिक-ल्पितोऽनर्थः, तदनेन विशेषणकदम्बकेन सम्यक्त्वगुणाविष्करणं कृतं भवति । साम्प्रतंतस्यैव सम्यग्दर्शनज्ञानाभ्यांकृतोयो गुणस्तदाविष्करणायाह-'उस्सिय'इत्यादि, उच्छृतंप्रख्यातं स्फटिकवनिर्मलं यशो यस्यासावुच्छ्रितस्पटिकः, प्रख्यातनिर्मलयशा इत्यर्थ । तथाऽप्रावृतम्-अस्थगितंद्वारं-गृहमुखंयस्यसोऽप्रावृतद्वारः, इदमुक्तंभवति-गृहंप्रविश्य परतीर्थिकोऽपि यद्यत्कथयति तदसौ कथयतु न तस्य परिजनोऽप्यन्यथा भावयितुं. सम्यक्त्वाच्यावयितुं शक्यत इतियावत्, तथा राज्ञां वल्लभान्तःपुरद्वारेषु प्रवेष्युं शीलं यस्य स तथा, इदमुक्तं भवति-प्रतिषिद्धान्यजनप्रवेशान्यपि यानि स्थानानि भाण्डागारान्तःपुरादीनि तेष्वप्यसौ प्रख्यातश्रावकाख्यघगुणत्वेनास्खलितप्रवेशः, तथा चतुर्दश्यष्टम्यादिषु तिथिषूपदिष्टासुमहाकल्याणकसम्बन्धितया पुण्यतिथित्वेन प्रख्यातासु तथा पौर्णमासीषु च तिसृष्वपि चतुर्मासकतिथिष्वित्यर्थः, एवंभूतेषु पौषधमनुपालयन् संपूर्ण श्रावकधर्ममनुचरति, तदनेन विशेषणकलापेन विशिष्टं देशचारित्रमावेदितं भवति। साम्प्रतं तस्यैवोत्तरगुणख्यापनेन दानधर्ममधिकृत्याह-'समणे निग्गंधे'इत्यादि, सुगमं यावत् पडिलाभेमाणे'त्ति, साम्प्रतं तस्यैवशीलतपोभावनात्मकंधर्ममावेदयन्नाह-'बहूहि'मित्यादि, बहुभिःशीलव्रतगुणविरमणप्रत्याख्यानपौषधोपवासैस्तथा यथापरिगृहीतैश्चतपःकर्मभिरात्मानं भावयन्, एवंचानन्तरोक्तया नीत्या विहरति-धर्ममाचरंस्तिष्ठतचःसमुच्चये णमितिवाक्यालङ्कारे मू. (७९५) तस्स णं लेवस्स गाहावइस्स नालंदाए बाहिरिया उत्तरपुरच्छिमे दिसिभाए एत्थणं सेसदविया नामं उदगसाला होत्था, अनेगखंभसयसनिविट्ठा पासादीया जाव पडिरूवा, For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484