________________
श्रुतस्कन्धः-२, अध्ययन-७,
४४५
-
प्रयोजनं प्रयोगः-प्रायोगिकत्वं तैरायोगप्रयोगैः संप्रयुक्तः-समन्वितः तथेतश्चेतश्च विक्षिप्तप्रचुरभक्तपानो बहुदास्यादिपरिवृतो बहुजनस्यापरिभूतश्चासीत्।तदियता विशेषणकदम्बकेनैहिकगुणा विष्करणेन द्रव्यसंपदभिहिता ।। अधुनाऽऽमुष्मिकगुणाविर्भावेन भावसंपदभिधीयते
__णमिति वाक्यालङ्कारे, स लेपाख्यो गृहपति श्रमणान्-साधूनुपास्ते-प्रत्यहं सेवत इति श्रमणोपासकः, तदनेन विशेषणेन तस्य जीवादिपदार्थाविर्भावकश्रुतज्ञानसंपदावेदिताभवति, एतदेव दर्शयति अभिगतजीवाजीवेत्यादिना ग्रन्थेन यावदसहायोऽपि देवासुरादिभिर्देवगणैरनतिक्रमणीयः-अनतिलङ्घनीयो धर्मादप्रच्यावनीय इतियावत्, तदियता विशेषणकलापेन तस्य सम्यगज्ञानित्वमावेदितं भवति । साम्प्रतं तस्य विशिष्टसम्यग्दर्शनित्वं प्रतिपादयितुमाह'निग्गंथे' इत्यादि, 'निर्ग्रन्थे' आर्हते प्रवचने निर्गता शङ्गा देशसर्वरूपा यस्य स निशङ्कः, 'तदेव सत्यं निशङ्कयज्जिनैः प्रवेदित'मित्येवंकृताध्यवसायः, तथा निर्गताकाङ्क्षा-अन्यान्यदर्शनग्रहणरूपा यस्यासौनिराकास, तथा निर्गता विचिकित्सा-चित्तविप्लुतिर्विद्वज्जुगुपसावायस्यासौनिर्विचिकित्सो, यत एवमतो लब्धः-उपलब्धोऽर्थः-परमार्थरूपो येन स लब्धार्थो ज्ञाततत्त्व इत्यर्थः।
तथा गृहीतः-स्वीकृतोऽर्थो-मोक्षमार्गरूपो येन स गृहीतार्थः, तथा-विशेषतः पृष्टोऽर्थो येन स पृष्टार्थो, यत एवमतो विनिश्चितार्थः ततोऽभिगतः-पृष्टनिर्वचनतः प्रतीतोऽर्थो येन सोऽभिगतार्थः, तथाऽस्थिमिजा-अस्थिमध्यं यावत् स धर्मे प्रेमानुरागेण रक्तः अत्यन्तं सम्यक्त्ववासितान्तश्चेताइतियावत्, एतदेवाविर्भावयन्नाह अयमाउसो'इत्यादि, केनचिद्धर्मसर्वस्वं पृष्टःसन्नेतदाचष्टे, तद्यथा-भोआयुष्मन्निदंनैर्ग्रन्थं मौनीन्द्रप्रवचनमर्थः-सद्भूतार्थःतथाप्ररूपणतया, तथेदमेवाह-अयमेव परमार्थः, कषतापच्छेदैरस्यैव शुद्धत्वेन निर्घटितत्वात्, शेषस्तु सर्वोऽपि लौकिकतीर्थिकपरिक-ल्पितोऽनर्थः, तदनेन विशेषणकदम्बकेन सम्यक्त्वगुणाविष्करणं कृतं भवति । साम्प्रतंतस्यैव सम्यग्दर्शनज्ञानाभ्यांकृतोयो गुणस्तदाविष्करणायाह-'उस्सिय'इत्यादि, उच्छृतंप्रख्यातं स्फटिकवनिर्मलं यशो यस्यासावुच्छ्रितस्पटिकः, प्रख्यातनिर्मलयशा इत्यर्थ ।
तथाऽप्रावृतम्-अस्थगितंद्वारं-गृहमुखंयस्यसोऽप्रावृतद्वारः, इदमुक्तंभवति-गृहंप्रविश्य परतीर्थिकोऽपि यद्यत्कथयति तदसौ कथयतु न तस्य परिजनोऽप्यन्यथा भावयितुं. सम्यक्त्वाच्यावयितुं शक्यत इतियावत्, तथा राज्ञां वल्लभान्तःपुरद्वारेषु प्रवेष्युं शीलं यस्य स तथा, इदमुक्तं भवति-प्रतिषिद्धान्यजनप्रवेशान्यपि यानि स्थानानि भाण्डागारान्तःपुरादीनि तेष्वप्यसौ प्रख्यातश्रावकाख्यघगुणत्वेनास्खलितप्रवेशः, तथा चतुर्दश्यष्टम्यादिषु तिथिषूपदिष्टासुमहाकल्याणकसम्बन्धितया पुण्यतिथित्वेन प्रख्यातासु तथा पौर्णमासीषु च तिसृष्वपि चतुर्मासकतिथिष्वित्यर्थः, एवंभूतेषु पौषधमनुपालयन् संपूर्ण श्रावकधर्ममनुचरति, तदनेन विशेषणकलापेन विशिष्टं देशचारित्रमावेदितं भवति।
साम्प्रतं तस्यैवोत्तरगुणख्यापनेन दानधर्ममधिकृत्याह-'समणे निग्गंधे'इत्यादि, सुगमं यावत् पडिलाभेमाणे'त्ति, साम्प्रतं तस्यैवशीलतपोभावनात्मकंधर्ममावेदयन्नाह-'बहूहि'मित्यादि, बहुभिःशीलव्रतगुणविरमणप्रत्याख्यानपौषधोपवासैस्तथा यथापरिगृहीतैश्चतपःकर्मभिरात्मानं भावयन्, एवंचानन्तरोक्तया नीत्या विहरति-धर्ममाचरंस्तिष्ठतचःसमुच्चये णमितिवाक्यालङ्कारे
मू. (७९५) तस्स णं लेवस्स गाहावइस्स नालंदाए बाहिरिया उत्तरपुरच्छिमे दिसिभाए एत्थणं सेसदविया नामं उदगसाला होत्था, अनेगखंभसयसनिविट्ठा पासादीया जाव पडिरूवा,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org