Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
श्रुतस्कन्धः - २, अध्ययनं - ७,
पवयणं पवयमाणा गाहावइं समणोवासगं उवसंपन्नं एवं पच्चक्खावेति- नन्नत्थ अभिओएणं गाहावइचोरग्गहणविमोक्खणयाए तसेहिं पाणेहिं निहाय दंड, एवं हं पञ्चक्खंताणं दुष्पचक्खायं भवइ, एवं ण्हं पञ्च्चक्खावेमाणाणं दुपच्चक्खावियव्वं भवइ, एवं ते परं पच्चक्खावेमाणा अतियरंति सयं पतिण्णं, कस्स णं तं हेउं ?, संसारिया खलु पाणा थावरावि पाणा तसत्ताए पच्चायंति, तसावि पाणा थावरत्ताए पञ्चायंति, थावरकायाओ विप्पमुच्चमाणा तसकायंसि उववज्रंति, तसकायाओ विप्पमुच्चमाणा थावरकायंसि उववज्रंति ष तेसिं च णं थावरकायंसि उववण्णाणं ठाणमेयं धत्तं ।
४४७
वृ. तद्यथा-भो गौतम ! अस्तीत्ययं विभक्तिप्रतिरूपको निपात इति बह्वर्थवृत्तिर्गृहीतः, ततश्चायमर्थ - 'सन्ति' विद्यन्ते कुमारपुत्रा नाम निर्ग्रन्था युष्मदीयं प्रवचनं प्रवदन्तः, तद्यथागृहपतिश्रमणोपासकमुपसंपन्नं-नियमायोत्थितमेवं 'प्रत्याख्यापयन्ति' प्रत्याख्यानं कारयन्ति, तद्यथास्थूलेषु प्राणिषु दण्डयतीति दण्डः - प्राण्युपमर्दस्तं 'निहाय' परित्यज्य, प्राणातिपातनिवृत्तिं कुर्वन्ति, तामेवापवदति- नान्यत्रेति, स्वमनीषिकाया अन्यत्र राजाद्यभियोगेन यः प्राण्युपघातो न तत्र निवृत्तिरिति । तत्र किल स्थूलप्राणिविशेषणात्तदन्येषामनुमतिप्रत्ययदोषः स्यादित्याशङ्कावानाह'गाहावइ' इत्यादि ।
अस्य चार्थमुत्तरत्राविर्भावयिष्यामः । येनाभिप्रायेणोदकश्चोदितवांस्तमाविष्कुर्वन्नाह एवं ण्ह'मित्यादि, ण्हमिति वाक्यालङ्गारे, अवधारणे वा, एवमेव त्रसप्राणिविशेषणत्वेनापरत्रसभूतविशेषणरहितत्वेन प्रत्याख्यानं गृह्णतां श्रावकाणां दुष्प्रत्याख्यानं भवति, प्रत्याख्यानभङ्गसद्भावात्, तथैवमेव प्रत्याख्यापयतामपि साधूनां दुष्टं प्रत्याख्यानदानं भवति, किमित्यत आह-एवं ते श्रावकाः प्रत्याख्यानं गृह्णन्तः साधवश्च परंप्रत्याख्यापयन्तः स्वां प्रतिज्ञामतिचरन्ति-अतिलङ्घयन्ति 'कस्स णं हे 'ति प्राकृतशैल्या कस्माद्धेतोरित्यर्थः । तत्र प्रतिज्ञाभङ्गकारणमाह'संसारिया' इत्यादि, संसारो विद्यते येषां ते सांसारिकाः, खलुरलङ्कारे, 'प्राणाः ' जन्तवः स्थावराः 'प्राणिनः' पृथिव्यप्तेजोवायुवनस्पतयः सन्तोऽपि तथाविधकर्मोदयात्त्रसतयाः त्रसत्वेन द्वीन्द्रियादिभावेन प्रत्यायान्ति - उत्पद्यन्ते, तथा त्रसा अपि स्थावरतयेति, एवं च परस्परगमने व्यवस्थिते सत्यवश्यंभावी प्रतिज्ञाविलोपः, तथाहि - नागरिको मया न हन्तव्य इत्येवंभूता येन प्रतिज्ञा गृहीता स यदा बहिरारामादौ व्यवस्थितं नागरिकं व्यापादयेत् किमेतावता तस्य न भवेत्प्रतिज्ञाविलोपः ।
एवमत्रापि येनत्रसवधनिवृत्तिः कृता स यदा तमेव त्रसंप्राणिनं स्थावरकायस्थितं व्यापादयेत् किं तस्य न भवेठप्रतिज्ञाविलोपः ?, भवत्येवेत्यर्थः । एवमपि त्रसस्थावरकाये समुत्पन्नानां त्रसानां यदि तथाभूतं किञ्चिदसाधारणं लिङ्गं स्यात् ततस्ते त्रसाः स्थावरत्वेनाप्युत्पन्नाः शक्यन्ते परिहर्तुं, न च तदस्तीत्येतद्दर्शयितुमाह- 'थावरकायाओ' इत्यादि, स्थावरकायात्सकाशाद्विविधम्-अनेकैः प्रकारैः प्रकर्षेण मुच्यमानाः स्थावरकायायुषा तद्योग्येश्चापरैः कर्मभिः सर्वात्मनात्रसकाये समुत्पद्यन्ते, तथा सकायादपि सर्वात्मना विमुच्यमानास्तत्कर्मभिः स्थावरकाये समुत्पद्यन्ते, तत्र चोत्पन्नानां तथाभूतत्रसलिङ्गाभावाव्प्रतिज्ञालोप इत्येतत्सूत्रेणैव दर्शयितुमाह- 'तेसिं च ण' मित्यादि, 'तेषां च' त्रसानां स्थावरकाये समुत्पन्नानां गृहीतत्रसप्राणातिपातविरतेः श्रावकस्याप्यारम्भप्रवृत्तत्वेनैतत्स्थावराख्यं घात्यं स्थानं भवति, तस्मादनिवृत्तत्वात्तस्येति ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484