Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 443
________________ सूत्रकृताङ्ग सूत्रम् २/६/-/७८६ अस्मिन् जगतिये तीर्थिका ‘अजानाना' अविद्वांसो 'धर्म' दुर्गतिगमनमार्गस्यार्गलाभूतं 'कथयन्ति' प्रतिपादयन्ति ते स्वतो नष्टा अपरानपि नाशयन्ति, क्व ? 'घोरे' भयानके संसारसागरे 'अनोरपारे' त्ति अर्वाग्भागपरभागवर्जितेऽनाद्यनन्ते इति, एवंभूते संसारार्णवे आत्मानं प्रक्षिपन्तीतियावत् । मू. (७८७) लोयं विजाणंतिह केवलेणं, पुन्त्रेण नाणेण समाहिजुत्ता । धम्मं समत्तं च कहंति जे उ, तारंति अप्पाण परं च तिना ।। वृ. साम्प्रतं सम्यगज्ञानवतामुपदेष्टृणां गुणानाविर्भावयन्नाह - 'लोय' मित्यादि, 'लोकं' चतुर्दशरज्ज्वात्मकं केवलालोकेन केवलिनो विविधम्- अनेकप्रकारं जानन्ति-विदन्तीह-अस्मिन् जगति, प्रकर्षेण जानाति प्रज्ञः पुण्यहेतुत्वाद्वा पुण्यं तेन तथाभूतेन ज्ञानेन समाधिना च युक्ताः समस्तं 'धर्म' श्रुतचारित्ररूपं ये तु परहितैषिणः 'कथयन्ति' प्रतिपादयन्ति ते महापुरुषाः स्वतः संसारसागरं तीर्णा, परं च तारयन्ति सदुपदेशदानत इति । केवलिनो लोकं जानन्तीत्युक्तेऽपि यत्पुनर्ज्ञानिनत्युक्तं, तद् बौद्धमतोच्छेदेन ज्ञानाधार आत्मा अस्तीति प्रतिपादनार्थमिति, एतदुक्तं भवति यथा देशिकः सम्यगमार्गज्ञ आत्मानं परं च तदुपदेशवर्तिनं महाकान्ताराद्विवक्षितदेशप्रापणेन निस्तारयति, एवं केवलिनोऽप्यात्मानं परं च संसारकान्तारान्निस्तारयन्तीति । - पुनरप्यार्द्रककुमार एवमाह मू. (७८८) जे गरहियं ठाणमिहावसंति, जे यावि लोए चरणोववेया । उदाडं तं तु समं मईए, अहाउसो विप्परियासमेव ॥ वृ. असर्वज्ञप्ररूपणमेवंभूतं भवति, तद्यथा-ये केचित्संसारान्तर्वर्तिनोऽशुभकर्मणोपपेताःसमन्वितास्तद्विपाकसहाया 'गर्हितं ' निन्दितं जुगुप्सितं निर्विवेकिजनाचरितं 'स्थानं' पदं कर्मानुष्ठानरूपमिह-अस्मिन् जगत्यासेवन्ति-जीविकाहेतुमाश्रयन्ति, तथा ये च सदुपदेशवर्तिनो लोकेऽस्मिन् 'चरणेन' विरतिपरिणामरूपेणोपपेताः समन्विताः, तेषामुभयेषामपि यदनुष्ठानंशोभनाशोभनस्वरूपमपि सत् तदसर्वज्ञैः - अर्वाग्दर्शिभिः 'समं' सदृशं तुल्यमुदाहृतं - उपन्यस्तं 'स्वमत्या' स्वाभिप्रायेण, न पुनर्यथावस्थितपदार्थनिरूपणेन, अथवाऽऽयुष्मन् हे एकदण्डिन् ! ‘'विपर्यासमेव' विपर्ययमेवोदाहरेद् असर्वज्ञो-यदशोभनं तच्छोभनत्वेतरत्वितरथेति, यदिवा विपर्यास इति मदनोन्मत्तप्रलापवदित्युक्तं भवतीति । ४४० मू. (७८९) संवच्छरेणावि य एगमेगं, बाणेण मारेउ महागयं तु । सेसाण जीवाण दयट्टायाए, वासं वयं वित्ति पकप्पयामो ॥ घृ. तदेवमेकदण्डिनो निराकृत्यार्द्रककुमारो यावद्भवदन्तिकं व्रजति तावद्धस्तितापसाः परिवृत्य तस्थुरिदं च प्रोचुरित्याह- 'संवच्छरेण' इत्यादि, हस्तिनं व्यापाद्यात्मनो वृत्तिं कल्पयन्तीति हस्तितापस्तास्तेषां मध्ये कश्चिवृद्धतम् एतदुवाच्, तद्यथा-भो आर्द्रककुमार ! सश्रुतिकेन सदाऽल्पबहुत्वमालोचनीयं, तत्र ये अमी तापसाः कन्दमूलफलाशिनस्ते बहूनां सत्त्वानां स्थावराणां तदाश्रितानां चोदुम्बरादिषु जङ्गमानामुपघाते वर्तन्ते, येऽपि च भैक्ष्येणात्मानं वर्तयन्ति तेऽप्याशंसादोषदूषिता इतश्चेतश्चाटाट्यमानाः पिपीलिकादिजन्तूनां उपाधाते वर्तन्ते, वयं तु संवत्सरेणापि अपिशब्दात् षण्मासेन चैकैकं हस्तिनं महाकायं बाणप्रहारेण व्यापाद्य शेषसत्वानां दयार्थमात्मनो 'वृत्तिं' वर्तनं तदामिषेण वर्षमेकं यावत्कल्पयामः, तदेवं वयमल्पसत्त्वोपघातेन प्रभूततरसत्त्वानां रक्षां कुर्म इति । - साम्प्रतमेतदेवार्द्रककुमारो हस्तितापसमतं दूषयितुमाह For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484