Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 442
________________ श्रुतस्कन्धः-२, अध्ययनं-६, ४३९ सर्वेष्वपि भूतेषु कायाकारपरिणतेषु प्रतिशरीरं सर्वतः सामस्त्यान्निरंशत्वादसावात्मा संभवति । कइव?-'चन्द्र इव' शशीव 'ताराभिः' अश्विन्यादिभिर्नक्षत्रैः यथा समस्तरूपः' संपूर्ण सम्बन्धमुपयातिएवमसावपि आत्माप्रत्येकंशरीरैः सह संपूर्णसम्बन्धमपयाति। तदेवमेकदण्डिभिर्दर्शनसाम्यापादनेनसामवादपूर्वकं स्वदर्शनारोपणार्थमाईककुमारोऽभिहितो, यत्रतानिसंपूर्णानिनिरुपचरितानिपूर्वोक्तानि विशेषणानिधर्मसंसारयोर्विद्यन्तेस एवपक्षः सश्रुतिकेनसमाश्रयितव्यो भवति। एतानिचास्मदीय एव दर्शने यथोक्तानि सन्ति, नाऽऽर्हते, अतो भवताऽप्यस्मदर्शनमेवाभ्युपगन्तव्यमिति। मू. (७८५) एवं न मिजंति न संसरंती, न माहणा खत्तिय वेस पेसा। कीडा य पक्खी यसरीसिवाय, नराय सव्वे तह देवलोगा। वृ. तदेवमभिहितः सन्नाककुमारस्तदुत्तरदानायाह-'एव' मित्यादि, यदिवा प्राक्तनः श्लोकः 'अव्वत्तरूव' मित्यादिको वेदान्तवाद्यात्माद्वैतमतेन व्याख्यातव्यः, तथाहि-तेएकमेवाव्यक्तं पुरुषम्-आत्मानंमहान्तमाकाशमिव सर्वव्यापिनंसनातनम् अनन्तमक्षयमव्ययं सर्वेष्वपि भूतेषुचेतनाचेतनेषु सर्वतः-सर्वात्मतयोऽसौ स्थित इत्येवमभ्युपगतवन्तो, यथा सर्वेष्वपि तारास्वेक एव चन्द्रः संबन्धमुपयात्येवमसावपीति । अस्य चोत्तरदानायाह-एव'मित्यादि,___ -एव'मिति यथा भवतांदर्शनेएकान्तेनैव नित्योऽविकार्यात्माऽभ्युपगम्यते इत्येवंपदार्था सर्वेऽपि नित्याः, तथाच सतिकुतोबन्धमोक्षसद्भावः?, बन्धाभावाचन नारकतिर्यङ्नरामरलक्षणश्चतुर्गतिकः संसारः, मोक्षाभावाञ्च निरर्थकं व्रतग्रहणं भवतां पञ्चरात्रोपदिष्टयमनियमप्रतिपत्तिश्चेति। एवंचयदुच्यतेभवता यथा 'आवयोस्तुल्योधर्म इति, तदयुक्तमुक्तं,तथासंसारान्तर्गतानां चपदार्थानांन साम्यं, तथाहि-भवतां द्रव्यैकत्ववादिनां सर्वस्यप्रधानादभिन्नत्वात्कारणमेवास्ति, कार्यं च कारणाभिन्नत्वात्सर्वात्मना तत्र विद्यते, अस्माकंच द्रव्यपर्यायोभयवादिनां कारणे कार्य द्रव्यात्मतयां विद्यतेन पर्यायात्मकतया, अपिच-अस्माकमुत्पादव्ययघ्रौव्ययुक्तमेव सदित्युच्यते, भवतांतुध्रौव्ययुक्ततमेव सदिति, यावप्याविर्भावतिरोभावौ भवतोच्येतेतावपिनोत्पादविनाशावन्तरेण भवितुमुत्सहेते, तदेवमैहिकामुष्मिकचिन्तायामावयोर्न कथञ्चित्साम्यं । किंच-सर्वव्यापित्वे सत्यात्मनामविकारित्वे चात्माद्वैते चाभ्युपगम्यमाने नारकतिर्यङनरामरभेदेन बालकुमारसुभगदुर्भगाढ्यदरिद्रादिभेदेन वा नमीयेरन्-न परिच्छिघेरन् । नापि स्वकर्मचोदिता नानागतिषु संसरन्ति, सर्वव्यापित्वादेकत्वाद्वा, तथा न ब्राह्मणान क्षत्रिया न वैश्या न प्रेष्या-न शूद्रा नापि कीटपक्षिसरीसृपाश्च भवेयुः, तथा नराश्च सर्वेऽपि देवलोकाश्चेत्येवंनानागतिभेदेन नभिद्येरन्, अतोन सर्वव्यापीआत्मा, नाप्यात्माद्वैतवादोज्यायान, यतः प्रत्येकं सुखदुःखानुभवः समुपलभ्यते, तथा शरीरत्वकपर्यन्तमात्र एवात्मा, तत्रैव तद्गुणविज्ञानोप लब्धेरिति स्थितम्, तदेवं व्यवस्थिते युष्मदागमो यथार्थाभिधायी न भवति, असर्वज्ञप्रणीतत्वाद्, असर्वज्ञप्रणीतत्वं चैकान्तपक्षसमा श्रयणादिति । एवमसर्वज्ञस्य मार्गोद्भावने दोषमाविर्भावयन्नाहमू. (७८६) लोयं अयाणित्तिह केवलेणं, कहति जे धम्ममजाणमाणा। ___नासंति अप्पाण परं च नट्ठा, संसार घोरंमि अनोरपारे । वृ. 'लोकं चतुर्दशरज्वात्मकंचराचरंवालोकमज्ञात्वा केवलेन दिव्यज्ञानावभासेन 'इह' Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484