Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
श्रुतस्कन्धः -२, अध्ययनं-६,
४३७
सहस्रद्वयमपि नित्यं ये भोजन्ति, किंभूतानां कुलानि गृहाण्यामिषान्वेषणार्थिनो नित्यं येऽटन्ति ते कुलाटाः-मार्जाराः कुलाटा इव कुलाटा ब्राह्मणाः, यदिवा कुलानि क्षत्रियादिगृहाणि तानि नित्यं पिण्डपातान्वेषिणा पतर्कुकाणामालयो येषां ते कुलालयास्तेषां-निन्द्यजीविकोपगतानामेवंभूतानां स्नातकानांयः सहस्रद्वयं भोजयेत्सोऽसत्पात्रनिक्षिप्तदानोगच्छति बहुवेदनासुगतिषु।
किंभूतः सन्?-लोलपैः" आमिषगृ? रससातागौरवाद्युपपनैः जिनेन्द्रियवशगैः संप्रगाढोव्याप्तो, यदिवा किंभूते नरकेयाति?-लोलुपैः-आमिषगृनुभिरसुमद्भिाप्तोयोनरकस्तस्मिन्निति, किंभूतश्चासौदातानरकाभिसेवीभवति तदर्शयति-तीव्रः-असह्योयोऽभितापः-क्रकचपाटकुम्भीपाकतप्तत्रपुपानशाल्मल्यालिङ्गनादिरूपः स विद्यते यस्यासौ स तीव्राभितापीत्येवंभूतवेदनाभितप्तस्त्रयस्त्रिंशत्सागरोपमाणि यावदप्रतिष्ठाननरकाधिवासी भवतीति। मू. (७८२) दयावरं धम्म दुगुंछमाणा, वहावहं धम्म पसंसमाणा।
एगंपिजे भोययती असीलं, निवो निसं जाति कुओ सुरेहिं । वृ. अपिच-दया-प्राणिषु कृपा तया वरः-प्रधानो यो धर्मस्तमेवंभूतं धर्मं 'जुगुप्समानो' निन्दन्तथा वधं-प्राण्युपमईमावहतीतिवधावहस्तंतथाभूतं धर्मं प्रशंसन्' स्तुवन् एकमप्यशीलंनिरशीलं निव्रतं षडजीवकायोपमर्दैन यो भोजयेत्, किं पुनः प्रभूतान् ?, नृपो राजन्यो वा यः कश्चिन्मूढमतिर्धार्मिकं आत्मानंमन्यमानः, स वराकोकायोपमर्दैन यो भोजयेत्, किंपुनःप्रभूतान् नृपो राजन्यो वा यः कश्चिन्मूढमतिर्धार्मिकं आत्मानं मन्यमानः, सवराको निवेश नित्यान्धकारत्वान्निशा-नरकभूमिस्तां याति, कुतस्तस्यासुरेष्वपि-अधमदेवेष्वपि प्राप्तिरिति । तथा कर्मवशादसुमतां विचित्रजातिगमनाजातेरशाश्वतत्वमतो न जातिमदो विधेय इति ।
यदपिकैश्चिदुच्यते-यथा 'ब्राह्मणा ब्रह्मणोमुखाद्विनिर्गता बाहुभ्यां क्षत्रियाऊरुभ्यां वैश्याः पद्यांशूद्राः' इत्येतदप्यप्रमाणत्वादतिफल्गुप्रायं, तदभ्युपगमेचन विशेषोवर्णानांस्याद्, एकस्मात्रसूतेर्बुजशाखाप्रतिशाखाग्रभूतपनसोदुम्बरादिफलवद्, ब्रह्मणोवामुखादेरवयवानांचातुर्वण्याप्ति स्यात्, न चैतदिष्यते भवद्भिः, तथा यदि ब्राह्मणादीनां ब्रह्मणो मुखादेरुद्भवः साम्प्रतं किं जायते ?, अथ युगादावेतदित एवं च सति दृष्टहानिरदृष्टकल्पना स्यादिति । तथा यदपि कैश्चिदभ्यधायि सर्वज्ञनिक्षेपावसरे, तद्यथा-सर्वज्ञरहितोऽतीतः कालः कालत्वाद्वर्तमानकालवत्, एवं च सत्येतदपि शक्यते वक्तुं यथा-नातीतः कालो ब्रह्ममुखादिविनिर्गतचातुर्वर्ण्यसमन्वितः कालत्वाद्वर्तमानकाल-वद्, भवति चविशेषेपक्षीकृते सामान्यं हेतुरित्यतः प्रतिज्ञार्थंकदेशासिद्धता नाशङ्कनीयेति । जातेश्चानित्यत्वं युष्मसिद्धान्त एवाभिहितं, तद्यथा
-शृगालो वै एष जायते यः सपुरीषो दह्यत इत्यादिना, तथा॥१॥ _ 'सद्यः पतति मांसेन, लाक्षया लवणेन च।
त्र्यहेन शुद्रीभवति, ब्राह्मणः क्षीरविक्रयी।
-इत्यादि, परलोके चावश्यंभावी जातिपातः, यत उक्तम् - ॥१॥ “कायिकैः कर्मणां दोषैर्याति स्थावरतां नरः ।
वाचिकैः पक्षिमृगतां, मानसैरन्त्यजातिताम् ।
-इत्यादि, गुणैरप्येवंविधैर्न ब्राह्मणत्वं युज्यते, तद्यथा॥१॥ “षट्शतानिनियुज्यन्ते, पशूनां मध्यमेऽहनि ।
अश्वमेधस्य वचनान्यूनानि पशुभिस्त्रिभिः॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484