________________
सूत्रकृताङ्ग सूत्रम् २/६/-/७८६ अस्मिन् जगतिये तीर्थिका ‘अजानाना' अविद्वांसो 'धर्म' दुर्गतिगमनमार्गस्यार्गलाभूतं 'कथयन्ति' प्रतिपादयन्ति ते स्वतो नष्टा अपरानपि नाशयन्ति, क्व ? 'घोरे' भयानके संसारसागरे 'अनोरपारे' त्ति अर्वाग्भागपरभागवर्जितेऽनाद्यनन्ते इति, एवंभूते संसारार्णवे आत्मानं प्रक्षिपन्तीतियावत् । मू. (७८७) लोयं विजाणंतिह केवलेणं, पुन्त्रेण नाणेण समाहिजुत्ता । धम्मं समत्तं च कहंति जे उ, तारंति अप्पाण परं च तिना ।।
वृ. साम्प्रतं सम्यगज्ञानवतामुपदेष्टृणां गुणानाविर्भावयन्नाह - 'लोय' मित्यादि, 'लोकं' चतुर्दशरज्ज्वात्मकं केवलालोकेन केवलिनो विविधम्- अनेकप्रकारं जानन्ति-विदन्तीह-अस्मिन् जगति, प्रकर्षेण जानाति प्रज्ञः पुण्यहेतुत्वाद्वा पुण्यं तेन तथाभूतेन ज्ञानेन समाधिना च युक्ताः समस्तं 'धर्म' श्रुतचारित्ररूपं ये तु परहितैषिणः 'कथयन्ति' प्रतिपादयन्ति ते महापुरुषाः स्वतः संसारसागरं तीर्णा, परं च तारयन्ति सदुपदेशदानत इति । केवलिनो लोकं जानन्तीत्युक्तेऽपि यत्पुनर्ज्ञानिनत्युक्तं, तद् बौद्धमतोच्छेदेन ज्ञानाधार आत्मा अस्तीति प्रतिपादनार्थमिति, एतदुक्तं भवति यथा देशिकः सम्यगमार्गज्ञ आत्मानं परं च तदुपदेशवर्तिनं महाकान्ताराद्विवक्षितदेशप्रापणेन निस्तारयति, एवं केवलिनोऽप्यात्मानं परं च संसारकान्तारान्निस्तारयन्तीति । - पुनरप्यार्द्रककुमार एवमाह
मू. (७८८) जे गरहियं ठाणमिहावसंति, जे यावि लोए चरणोववेया । उदाडं तं तु समं मईए, अहाउसो विप्परियासमेव ॥
वृ. असर्वज्ञप्ररूपणमेवंभूतं भवति, तद्यथा-ये केचित्संसारान्तर्वर्तिनोऽशुभकर्मणोपपेताःसमन्वितास्तद्विपाकसहाया 'गर्हितं ' निन्दितं जुगुप्सितं निर्विवेकिजनाचरितं 'स्थानं' पदं कर्मानुष्ठानरूपमिह-अस्मिन् जगत्यासेवन्ति-जीविकाहेतुमाश्रयन्ति, तथा ये च सदुपदेशवर्तिनो लोकेऽस्मिन् 'चरणेन' विरतिपरिणामरूपेणोपपेताः समन्विताः, तेषामुभयेषामपि यदनुष्ठानंशोभनाशोभनस्वरूपमपि सत् तदसर्वज्ञैः - अर्वाग्दर्शिभिः 'समं' सदृशं तुल्यमुदाहृतं - उपन्यस्तं 'स्वमत्या' स्वाभिप्रायेण, न पुनर्यथावस्थितपदार्थनिरूपणेन, अथवाऽऽयुष्मन् हे एकदण्डिन् ! ‘'विपर्यासमेव' विपर्ययमेवोदाहरेद् असर्वज्ञो-यदशोभनं तच्छोभनत्वेतरत्वितरथेति, यदिवा विपर्यास इति मदनोन्मत्तप्रलापवदित्युक्तं भवतीति ।
४४०
मू. (७८९) संवच्छरेणावि य एगमेगं, बाणेण मारेउ महागयं तु । सेसाण जीवाण दयट्टायाए, वासं वयं वित्ति पकप्पयामो ॥
घृ. तदेवमेकदण्डिनो निराकृत्यार्द्रककुमारो यावद्भवदन्तिकं व्रजति तावद्धस्तितापसाः परिवृत्य तस्थुरिदं च प्रोचुरित्याह- 'संवच्छरेण' इत्यादि, हस्तिनं व्यापाद्यात्मनो वृत्तिं कल्पयन्तीति हस्तितापस्तास्तेषां मध्ये कश्चिवृद्धतम् एतदुवाच्, तद्यथा-भो आर्द्रककुमार ! सश्रुतिकेन सदाऽल्पबहुत्वमालोचनीयं, तत्र ये अमी तापसाः कन्दमूलफलाशिनस्ते बहूनां सत्त्वानां स्थावराणां तदाश्रितानां चोदुम्बरादिषु जङ्गमानामुपघाते वर्तन्ते, येऽपि च भैक्ष्येणात्मानं वर्तयन्ति तेऽप्याशंसादोषदूषिता इतश्चेतश्चाटाट्यमानाः पिपीलिकादिजन्तूनां उपाधाते वर्तन्ते, वयं तु संवत्सरेणापि अपिशब्दात् षण्मासेन चैकैकं हस्तिनं महाकायं बाणप्रहारेण व्यापाद्य शेषसत्वानां दयार्थमात्मनो 'वृत्तिं' वर्तनं तदामिषेण वर्षमेकं यावत्कल्पयामः, तदेवं वयमल्पसत्त्वोपघातेन प्रभूततरसत्त्वानां रक्षां कुर्म इति ।
- साम्प्रतमेतदेवार्द्रककुमारो हस्तितापसमतं दूषयितुमाह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org