________________
अध्ययनं - ६,
श्रुतस्कन्धः - २,
मू. (७७५) तं भुंजमाणा पिसितं पभूतं, नो उवलिप्पामो वयं रएणं । इच्छेवमाहंसु अणज्जधम्मा, अनारिया बाल रसेसु गिद्धा ॥
वृ. संस्कृत्य च यत्कुर्वन्ति तद्दर्शयितुमाह-'तं भुंजमाणा' इत्यादि, 'तत्' पिशितं शुक्रशोणितसंभूतमनार्याइव भुञ्जाना अपि प्रभूतं तद्रजसा- पापेन कर्मणा न वयमुपलिप्यामह इत्येवं धाष्ट्र्र्योपेताः प्रोचुः अनार्याणामिव धर्मः-स्वभावो येषां ते तथा अनार्यकर्मकारित्वादनार्या बाला इव बाला विवेकरहितत्वाद्रसेषु च मांसादिकेषु 'गृद्धा' अध्युपपन्नाः ।
४३५
मू. (७७६) जे यावि भुंजंति तहप्पगारं, सेवंति ते पावमजाणमाणा । मणं न एयं कुसला करेंती, वायावि एसा बुइया उ मिच्छा ॥
॥१॥
वृ. इत्येतच्च तेषां महतेऽनर्थायेति दर्शयति ये चापि रसगौरवगृद्धाः शाक्योपदेशवर्तिनस्तथाप्रकारं स्थूलोरभ्रसंभूतं घृतलवणमरिचादिसंस्कृतं पिशितं 'भुञ्जते' अश्नन्ति तेऽनार्या 'पाप' कल्मषमजानाना निर्विवेकिनः 'सेवन्ते' आददते, तथा चोक्तम्हिंसामूलममेध्यमास्पदमलं ध्यानस्य रौद्रस्य - यद्वीभत्सं रुधिराविलं कृमिगृहं दुर्गंधि पूयादिम् । शुक्रासृक्प्रमवं नितान्तमलिनं सद्भिः सदा निन्दितं, को भुङ्क्ते नरकाय राक्षससमो मांसं तदात्मद्रुहः ? ॥ (अपि च) मांस भक्षयिताऽमुत्र, यस्य मांसमिहद्वयहम् । एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥ (तथा) योऽत्ति यस्य च तन्मांसमुभयोः पश्यतान्तरम् । एकस्य क्षणिका तृप्तिरन्यः प्राणैर्वियुज्यते ।।
॥२॥
+
॥३॥
तदेवं महादोषं मांसादनमिति मत्वा यद्विधेयं तद्दर्शयति-तदेवंभूतं मांसादनाभिलाषरूपं मनः - अन्तःकरणं कुशला निपुणा मांसाशित्वविपाकवेदिनस्तन्निवृत्तिगुणाभिज्ञाश्च न कुर्वन्ति, तदभिलाषात् मनो निवर्त्तयन्तीत्यर्थः, आस्तां तावद्भक्षणं, वागप्येषा यथा न मांसभक्षणे दोष इत्यादिका भारत्यप्यभिहिता-उक्ता मिथ्या, तुशब्दान्मनोऽपि तदनुमत्यादौ न विधेयमति, तन्निवृत्तौ चेवानुपमा श्लाघाऽमुत्र च स्वर्गापवर्गगमनमिति, तथा चोक्तम्
श्रुत्वा दुःखपम्परामतिघृणां मांसाशिनां दुर्गतिं, ये कुर्वन्ति शुभोदयेन विरतिं मांसादनस्यादरात् । सद्दीर्घायुरदूषितं गदरुजा संभाव्य यास्यन्ति ते, मत्येषूद्भटभोगधर्ममतिषु स्वर्गापगर्गेषु च । (इत्यादि)
मू. (७७७) सव्वेसि जीवाण दयट्ठाए, सावज्जदोसं परिवज्जयंता । तस्संकिणो इसिणो नायपुत्ता, उदिट्ठमत्तं परिवज्जयंति ॥
वृ. न केवलं मांसादनमेव परिहार्यम्, अन्यदपि मुमुक्षणां परिहर्तव्यमिति दर्शयितुमाह'सव्वेसि' मित्यादि, सर्वेषां जीवानां प्राणार्थिनां, न केवलं पञ्चेन्द्रियाणामेवेति सर्वग्रहणं, 'दयार्थतया' दयानिमित्तं सावद्यमारम्भं महानयं दोषं इत्येवं मत्वा तं परिवर्जयन्तः साधवस्तच्छंकिनो-दोषशङ्किनः 'ऋषयो' महामुनयो 'ज्ञातपुत्रीयाः ' श्रीमन्महावीरवर्द्धमानशिष्याः उद्दिष्टं दानाय परिकल्पितं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International