________________
४३४
सूत्रकृताङ्ग सूत्रम् २/६/-/७७२ वृ. तदेवं परपक्षं दूषयित्वा स्वपक्षस्थापनायाह-मौनीन्द्रशासनप्रतिपन्नाः सर्वज्ञोक्त मार्गानुसारिणो जीवानामनुभागम्-अवस्थाविशेषं तदुपमर्दैन पीडां वा सुष्ठु 'विचिन्तयन्तः' पर्यालोचयन्तोऽन्नविधौ शुद्धिम् ‘आहृतवन्तः' स्वीकृतवन्तो द्विचत्वारिंशद्दोषरहितेन शुद्धेनाहारेणाहारं कृतवन्तोनतुयथा भवतांपिशिताद्यपि पात्रपतितंनदोषायेति ।तथा 'छन्नपदोपजीवी' मातृस्थानोपजीवी सन् न व्यागृणीयाद् ‘एषः' अनन्तरोक्तोऽनु-पश्चाद्धर्मोऽनुधर्मस्तीर्थकरानुष्ठानाद-नन्तरं भवतीत्यनुना विशिष्यते।
___ 'इह' अस्मिन् जगति प्रवचने वा सम्यग्यतानां संयतानां-सत्साधूनां न तु पुनरेवंविधो भिक्षूणामिति । यच्च भवद्भिरोदनादेरपि प्राण्यङ्गसमानतया हेतुभूतया मांसादिसाश्यं चोद्यते तदविज्ञानलोकतीर्थान्तरीयमतं, तथाहि-प्राण्यङ्गत्वेतुल्येऽपिकिञ्चिन्मांसं किंचिच्चामांसमित्येवं व्यवह्रियते, तद्यथा-गोक्षीररुधिरादेर्भक्ष्याभक्ष्यव्यवस्थिति, तथा समानेऽपिस्त्रीत्वेभायर्यास्वानादौ गम्यागम्यव्यवस्थितिरिति । तथा शुष्कतर्कदृष्टया योऽयं प्राण्डङ्गत्वादिति हेतुर्भवतोपन्यस्यते
तद्यथा
॥१
॥
भक्षणीयं भवेन्मांसं, प्राण्यङ्गत्वेन हेतुना।
ओदनादिवदित्येवं, कश्चिदाहातितार्किकः॥ . सोऽसिद्धानकान्तिकविरुद्धदोषदुष्टत्वादपकर्णनीयः, तथाहि-निरंशत्वाद्वस्तुनस्तदेवमासं तदेवच प्राण्यङ्गमिति प्रतिज्ञार्थंकदेशासिद्धः, तद्यथा-नित्यःशब्दो नित्यत्वाद्, अथ भिन्न प्राण्यङ्गं ततः सुतरामसिद्धो, व्यधिकरणत्वाद्, यथा देवदत्तस्य गृहं काकस्य कार्यात्, तथाऽनेकान्तिकोऽपि श्वादिमांसस्याभक्ष्यत्वात्, अथ तदपि किचित्कदाचित्केषाञ्चिद्भक्ष्यमिति चेदेवं च सत्यस्थ्यादेरभक्ष्यत्वादनैकान्तिकत्वं, तथा विरुद्धाव्यभिचार्यपि, यथाऽयं हेतुर्मासस्य भक्ष्यत्वं साधयत्येवंबुद्धास्थ्नामपूज्यत्वमपि।तथा लोकविरोधिनीचेयंप्रतिज्ञा, मांसोदनयोरसाम्यादृष्टान्तविरोधश्चेत्येवं व्यवस्थिते यदुक्तंप्राग्यथाबुद्धानामपि पारणाय कल्पतएतदिति, तदसाध्विति स्थितम्। मू. (७७३) सिणायगाणं तु दुवे सहस्से, जे भोयए नियए भिक्खुगाणं।
असंजए लोहियपाणि से ऊ, नियध्छति गरिहमिव लोए। वृ. अन्यदपि भिक्षुकोक्तमार्द्रककुमारोऽनूध दूषयितुमाह-'सिणायगाणं तु' इत्यादि, 'स्नातकानां' बोधिसत्त्वकल्पानां भिक्षूणां नित्यं यः सहद्वयं भोजयेदित्युक्तं प्राक् तद्रूषयतिअसंयतःसन्रुधिरक्लिन्नपाणिरनार्य इव गर्हा' निन्दां जुगुप्सापदवीं साधुजनानामिहलोक एव निश्चयेनगच्छतिपरलोकेचानार्यगम्यांगतियातीति।एवं तावत्सावद्यानुष्ठानानुमन्तृणामपात्रभूतानां यद्दानं तत्कर्मबन्धायेत्युक्तं, किंचान्यत्मू. (७७४) धूलं उरमंइह मारियाणं, उद्दिभत्तं च पगप्पएता।
तंलोणतेल्लेण उवक्खडेत्ता, सपिप्पलीयं पगरंति मंसं॥ वृ.आर्द्रकुमारएवतन्मतमाविष्कुर्वन्निदमाह, स्थूलं' बृहत्कायमुपचितमांसशोणितमुरभ्रम्ऊरणकमिह-शाक्यशासनेभिक्षुक संघोद्देशेन व्यापाद्य' घातयित्वा तथोद्दिष्टभक्तंच प्रकल्पयित्वा विकर्त्य वातमुरभंतन्मांसंचलवणतैलाभ्यामुपस्कृत्य पाचयित्वासपिप्पलीकमपरसंस्कारकद्रव्यसमन्वितं प्रकर्षेण भक्षणयोग्यं मांसं कुर्वन्तीति।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org