Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
श्रुतस्कन्धः - २,
अध्ययनं - ६,
मू. (७६८) उड्डुं अहेयं तिरियं दिसासु, विन्नाय लिंगि तसथावराणं ।
भूयाभिसंकाइ दुगुंछमाणे, वदे करेजा व कुओ विहऽत्थी ॥
वृ. परपक्षं दूषयित्वाऽऽर्द्रकः स्वपक्षाविर्भावनायाह - ऊर्ध्वमधस्तिर्यक्षु या दिशः प्रज्ञापकादिकास्तासु सर्वास्वपि दिक्षुत्रसानां स्थावराणां च जन्तूनां यत्त्रसस्थावरत्वेन जीवलिङ्गचलनस्पन्दनाङ्कुरोभवच्छेदम्लानादिकं तद्विज्ञाय अतो 'भूताभिशङ्कया' जीवोपमर्दोऽत्र भविष्यतीत्येवंबुद्धया सर्वमनुष्ठानं जुगुप्समानः-तदुपमर्द्द परिहरन् वदेत् कुर्यादप्यतः कुतोऽस्तीहअस्मिन्नेवंभूतेऽनुष्ठाने क्रियमाणे प्रोच्यमाने वाऽस्मत्पक्षे युष्मदापादितो दोष इति ।
मू. (७६९) पुरिसेत्ति विन्नत्ति न एवमत्थि, अनारिए से पुरिसे तहा हु । को संभवो ? पिन्नगपिंडियाए, वायावि एसा बुइया असच्चा ॥
वृ. अधुना पिण्याके पुरुषबुद्धया असंभवमेव दर्शयितुमाह- 'पुरिसे' त्यादि, तस्यां पिण्याकपिण्डयां पुरुषोऽयमित्येवमत्यन्तजडस्यापि विज्ञप्तिरेव नास्ति, तस्माद्य एवं वक्ति सोऽत्यन्तं पुरुषस्तथाभ्युपगमेन हुशब्दस्यैवकारार्थत्वेन अनार्य एवासौ यः पुरुषमेव खलोऽयमितिमत्वा हतेऽपि नास्ति दोष इत्येवं वदेत्, तथाहि कः संभवः पिनाकपिण्डयां पुरुषबुद्धेरित्यतो वागपीयमीध्गसत्येति सत्त्वोपघातकत्वात्, ततश्च निशङ्कप्रहार्यनालोचको निर्विवेकतया बद्ध्यते, तस्मात्पिण्याककाष्ठादावपि प्रवर्तमानेन जीवोपमर्द्दभीरुणा साशङ्केन प्रवर्तितव्यमिति । मू. (७७०) वायाभियोगेण जमावहेज्जा, नो तारिसं वायमुदाहरिज्जा । अट्ठाणमेयं वयणं गुणाणं, नो दिक्खिए बूय सुरालमेयं ॥
वृ. किञ्चान्यत्-वाचाऽभियोगो वागभियोगस्तेनापि 'यद्' यस्मादावहेत्पापं कर्म अतो विवेकी भाषागुणदोषज्ञो न ताद्दशीं भाषाभुदाहरेत्-नाभिदध्याद् यत एवं ततोऽस्थानमेतद्वचनं गुणानां न हि प्रव्रजितो यथावस्थितार्थामिधायी एतद् 'उदारं' सुष्ठु परिस्थूरं निसारं निरुपपत्तिकं वचनं ब्रूयात्, तद्यथा-पिण्याकोऽपि पुरुषः पुरुषोऽपि पिण्याकः, तथाऽलाबुकमेव बालको बालक एव वाऽलाबुकमिति ।
मू. (७७१)
लद्धे अट्ठे अहो एव तुब्भे, जीवानुभागे सुविचिंतिए व । पुव्वं समुद्दे अवरं च पुट्ठे, उलोइए पाणितले ठिए वा ।।
वृ. साम्प्रतमार्द्रककुमार एव तं भिक्षुकं युक्तिपराजितं सन्तं सोल्लुण्ठं बिमणिषुराह'लद्धे' इत्यादि, अहो युष्माभिरथ- अनन्तरं एवंभूताभ्युपगमे सति लब्धोऽथों-विज्ञानं यथावस्थितं तत्वमिति, तथाऽवगतः सुचिन्तितो भवद्भिर्जीवानामनुभागः कर्मविपाकस्तत्पीडेति, तथैवं भूतेन विज्ञानेन भवतां यशः पूर्वसमुद्रमपरं च स्पृष्टं गतमित्यर्थः, तथा भवद्भिरेवंविधविज्ञाना वलोकननावलोकितः पाणितलस्थ इवायं लोक इति अहो ! भवतां विज्ञानातिशयो यदुत भवन्तः पिण्याकपुरुषयोर्बालालाबुकयोर्वा विशेषानमिज्ञतया पापस्य कर्मणो यथैतद्भावाभावं प्राक्कल्पितवन्त इति ।
मू. (७७२) जीवानुभागं सुविचिंतयंता, आहारिया अन्नविहीय सोहिं । न वियागरे छन्नपओपजीवि, एसोऽनुधम्मो इह संजयाणं ।।
2 28
Jain Education International
४३३
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484