Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 398
________________ ३९५ श्रुतस्कन्धः-२, अध्ययनं-४, त्वान्मिथ्यात्वाविरतिप्रमादकषाययोगानुगतत्वंद्रष्टव्यं, तद्भावाचतेकथं प्राणातिपातादिदोषवन्तो न भवन्ति, प्राणातिपातादिदोषवत्तया चाव्यक्तविज्ञाना अपि सन्तोऽस्वप्नाद्यवस्थायामपि ते कर्मबन्धका एव । तदेवं व्यवस्थितेयप्रागुक्तंपरेण यथा-नाव्यक्तविज्ञानानामघ्नताममनस्कानां कर्मबन्ध इत्येतत्प्लवते॥ ___ साम्प्रतमाचार्यः स्वपक्षसिद्धये दृष्टान्तमाह-'तत्थ खलु भगवया' तत्रेति वाक्योपन्यासार्थमाह, खलुशब्दोवाक्यालङ्कारे, भगवता-ऐश्वर्यादिगुणोपेतेन चतुस्त्रिंशदतिशयस-मन्वितेन तीर्थकृता वधकदृष्टान्तः 'प्रज्ञप्तः' प्ररूपितः, तद्यथा नाम वधकः कश्चित्स्यादिति, कुतश्चिन्निमित्तात्कुपितः सन्कस्यचिद्वधपरिणतःकश्चित्पुरुषोभवति, यस्यासौ वधकस्तं विशेषेणदर्शयितुमाह'गाहावइस्स वे'त्यादि, गृहस्य पतिगृहपतिस्तत्पुत्रो वा, अनेन सामान्यतः प्राकृत्तपुरुषोऽभिहितः, तस्योपरि कुतश्चिन्निमित्ताद्वधकः कश्चित्संवृत्तः, सच वधपरिणाम-परिणतोऽपि कस्मिंश्चित्क्षणे पापकारिणमेनं घातयिष्यामीति। तथा राज्ञस्तत्पुत्रस्यवोपरिकुपित एतत्कुर्यादित्याह-'खणंनिद्दाय' इत्यादि,क्षणम्-अवसरं 'निद्दाय'त्ति प्राप्य लब्ध्व वध्यस्य पुरे गृहे वा प्रवेक्ष्यामीत्येतदध्यवसायी भवति, तथा क्षणम्अवसरं छिद्रादिकं वध्यस्य लब्ध्वा तदुत्तरकालं तं वध्यं हनिष्यामीत्येवं संप्रधारयति, एतदुक्तं भवति-गृहपतेः सामान्यपुरुषस्य राज्ञो वा विशिष्टतमस्य कस्यचिद्वधपरिणतोऽप्यात्मनोऽवसरं लब्ध्वापरकार्यक्षणे सति तथावध्यस्य च छिद्रमपेक्षमाणस्तदवसरापेक्षी कञ्चिकालमुदास्ते, सच तत्रौदासीन्यं कुर्वाणोऽपरकार्यं प्रति व्यग्रचेताः संस्तस्मिन्नवसरे वधं प्रत्यस्पष्टविज्ञानो भवति । स चैवंभूतोऽपि यथा तं वध्यं प्रति नित्यमेव प्रशठव्यतिपातचित्तदण्डो भवति, एवमविद्यमानैरपि प्रव्यक्तैरशुभैर्योगैरेकेन्द्रियविकलेन्द्रियादयोऽस्पष्टविज्ञाना अपि मिथ्यात्वाविरतिप्रमादकषाययोगानुगतत्वायाणातिपातादिदोषवन्तोभवन्तीति, नचतेऽवसरमपेक्षमाणा उदासीना अप्यवैरिण इति, एवमस्पष्टविज्ञाना अप्यवैरिणो न भवन्तीति, अत्र चवध्यवधकयोः क्षणापेक्षया चत्वारो भङ्गाः, तद्यथा वध्यस्थानवसरो १ वधकस्य च २ उभयोर्वाऽनवसरो ३ द्वयोरप्यवसर इति४। नागार्जुनीयास्तु पठन्ति-'अप्पण्णो' अक्खणयाएतस्सवापुरिसस्स छिदं अलभमाणे नोवहेइ, तंजया मेखणो भविस्सइतस्स पुरिसस्स छिदं लभिस्सामि तया मेसपुरिसे अवस्सं वहेयव्वे भविस्सइ, एवं मनो पहारेमाणे'त्ति सूत्रं, निगदसिद्धम् । ___ साम्प्रतमाचार्य एव स्वाभिप्रेतमर्थं परप्रश्नपूर्वकमाविर्भावयन्नाह से किं नु हु'इत्यादि, आचार्य स्वतो हि निर्णीतार्थोऽसूयया परं पृच्छति-किमिति परप्रश्ने, नुरिति वितर्के हुशब्दो वाक्यालङ्कारे, किमसौ वधकपुरुषोऽवसरापेक्षी 'छिद्रम्' अवसरं प्रधारयन् पर्यालोचयन्नहर्निशं सुप्तो जाग्रदवस्थो वा 'तस्य' गृहपते राज्ञो वा वध्यस्यामित्रभूतो मिथ्यासंस्थितो नित्यं प्रशठव्यतिपातचित्तदण्डो भवत्याहोस्वन्नेति?, एवं पृष्टः परः समतया माध्यस्थ्यमवलम्बमानो यथावस्थितमेव व्यागृणीयात्, तद्यथा-हन्ताचार्य! भवत्यसावमित्रभूत इतीत्यादि । तदेवं दृष्टान्तंप्रदर्श्य दार्शन्तिकं दर्शयितुमाह-यथाऽसौ वधक इत्यादिना दृष्टान्तमनूद्य दार्खान्तिकमर्थं दर्शयितुमाह___“एवमेवे'त्यादि, एवमेवेति यथासौ वधकोऽवसरापेक्षितया वध्यस्य व्यापत्तिमकुर्वाणोऽप्यमित्रभूतो भवत्येवमेवासावपि वालवद्वालोऽस्पष्टविज्ञानो भवत्येव, निवृत्तेरभावा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484