Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 428
________________ श्रुतस्कन्धः - २, अध्ययनं - ६, ४२५ उपशान्तस्यानेन तु मानव्युदासं, तथा जितानि स्वविषयप्रवृत्तिनिषेधेनेन्द्रियाणि येन स जितेन्द्रियो वश्येन्द्रियोऽनेन तु लोभनिरासमाचष्टे, मायायास्तु लोभनिरासादेव निरासोद्रष्टव्यः, तन्मूलत्वात्तस्याः, भाषाया दोषाः असत्यासत्यामृषाकर्कशासभ्यशब्दोच्चारणादयस्तद्विवर्जकस्य तत्परिहर्त्तुस्तथा भाषाया ये गुणा-हितमितदेशकालासंदिग्धभाषणादयस्तन्निषेवकस्य सतो ब्रुवतोऽपि नास्ति दोषः, छद्मस्थस्य हि बाहुल्येन मौनव्रतमेव श्रेयः, समुत्पन्नकेवलस्य तु भाषणमपि गुणायेति । मू. (७४३) महव्वएपंच अणुव्वएय, तहेव पंचासव संवरेय । विरतिं इहस्सामणियंमि पन्ने, लवापसक्की समणे - त्तिबेमि । वृ. किंभूतं धर्ममसौ कथयतीत्याह 'महव्वए पंचे' त्यादि, महान्ति च तानि व्रतानिप्राणातिपातविरमणादीनि तानिच साधूनां प्रज्ञापितवान्, पञ्चापि तदपेक्षयाऽणूनि -लघूनि व्रतानि अणुव्रतानि पञ्चैव तानि श्रावकानुद्दिश्य प्रज्ञापितवान्, पञ्चाश्रवान् प्राणापिपातादिरूपान् कर्मणः प्रवेशद्वारभूतान् तत्संवरं च सप्तदशप्रकारं संयमं प्रतिपादितवान्, संवरवतो हि विरतिर्भवतीत्यतो विरतिं च प्रतिपादितवान् चशब्दात्तत्फलभूतौ निर्जरामोक्षौ च । 'इह' अस्मिन्प्रवचने लोके वा श्रमणभावः श्रामण्यं संपूर्णसंयमस्तस्मिन् वा विधेये मूलगुणानू - महाव्रताणुव्रतरूपान् तथोत्तरगुणान्-संवरविरत्यादिरूपान् 'पूर्णे' कृत्स्ने संयमे विघातव्ये 'प्राज्ञ' इति वा क्वचित्पाठः, प्रज्ञावानेतत्प्रतिपादितवानिति । किंभूतोऽसौ ? - लवं कर्म तस्माद् 'अवसक्कइ’त्ति अवसर्पणशीलोऽवसप श्राम्यतीति श्रमणः- तपश्चरणयुक्त इत्येदहं ब्रवीमि । स्वयमेव च भगवान्पञ्चमहाव्रतोपपन्न इन्द्रियनोइन्द्रियगुप्तो विरतश्चासौ लवावसप्प सन् स्वतोऽन्येषामपि तथाभूतमुपदेशं दत्तवानित्येतद् ब्रवीमीति । यदिवाऽऽर्द्रककुमारवचनमाकर्ण्यासौ गोशालक स्तव्प्रतिपक्षभूतं अर्थं वक्तुकाम इदमाह- इत्येतद्वक्ष्यमाणं यदहं ब्रवीमि तच्छृणु ! त्वमिति यथाप्रतिज्ञातमेवाह गोशालकः मू. (७४४) सीओदगं सेवउ बीयकार्य, आहायकम्मं तह इत्थयाओ । एतचारिस्सिह अम्ह धम्मे तवस्सिणो नाभिसमेति पावं । वृ. भवतेदमुद्ग्राहितं परार्थं प्रवृत्तस्याशोकादिप्रातिहार्यपरिग्रहस्तथा शिष्यादिपरिकरो धर्मदेशना च न दोषायेति यथा तथाऽस्माकमपि सिद्धान्ते यदेतद्वक्ष्यमाणं तन्न दोषायेति । शीतं च तदुदकं च शीतोदकम् - अप्रासुकोदकं तत्सेवनं परिभोगं करोतु, तथा जीवकायोपभोगमाधाकर्माश्रयणं स्त्रीप्रसङ्गं च विदधातु, अनेन च स्वपरोपकारः कृतो भवतीत्यस्मदीये धर्मे प्रवृत्तस्य 'एकान्तचारिणः’आरामोद्यानादिष्वेकाकिविहारोद्यतस्य तपस्विनो 'नाभिसमेति' न संबन्धमुपयाति 'पापम्' अशुभकर्मेति, इदमुक्तं भवति एतानि शीतोदकादीनि यद्यपीषत्कर्मबन्धाय तथापि धर्माधारं शरीरं प्रतिपालयत एकान्तचारिणस्तपस्विनो बन्धाय न भवन्तीति । मू. (७४५) सीतोदगं वा तह बीयकार्य, आहायकम्मं तह इत्थियाओ । एयाइं जाणं पडिसेवमाणा, अगारिणो अस्समणा भवंति ॥ वृ. एतत्परिहर्त्तुकाम आह-'सीतोदग' मित्यादि, 'एतानि' प्रागुपन्यस्तानि अप्रासुकोदकपरभोगादीनि प्रतिसेवन्तोऽगारिणो- गृहस्थास्ते भवन्ति अश्रमणाश्च-अप्रव्रजिताश्चेवं जानीहि यतःअहिंसा सत्मस्तेयं, ब्रह्मचर्यमलुब्धता इत्येत्तच्छ्रमणलक्षणं, तश्चैषां शीतोदकबीजाऽऽधाकमीपरिभोगवतां नास्तीत्यतस्ते नामाकाराभ्यां श्रमणा न परमार्थानुष्ठानत इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484