Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 429
________________ ४२६ मू. (७४६ ) सिया य बीओदग इत्थियाओ, पडिसेवमाणा समणा भवंतु । अगारिणोऽवी समणा भवंतु, सेवंति उ तंऽवि तहप्पगारं ॥ वृ. पुनरप्याक एवैतद्दूषणायाह- स्यादेतद्भवदीयं मतं यथा ते एकान्तचारिणः क्षुत्पिपासादिप्रधानतपश्चरणपिडीताश्च तत्कथं ते न तपस्विन इत्येतदाशङ्कयार्द्रक आह-यदि बीजाद्युपभोगिनोऽपि श्रमणा इत्येवं भगवताऽभ्युपगम्यते एवं तर्ह्यगारिणोऽपि गृहस्थाः श्रमणा भवन्तु, तेषामपि देशिकावस्थामाशंसावतामपि निष्किञ्चनतयैकाकिविहारित्वं क्षुत्पिपासादिपीडनं च संभाव्यते । अत आह ‘सेवंति उ' तुरवधारणे सेवन्त्येव 'तेऽपि' गृहस्थास्तथाप्रकारमेकाकिविहारादिकमिति । सूत्रकृताङ्ग सूत्रम् २/६/-/७४६ मू. (७४७) जे यावि बीओदगभोति भिक्ख, भिक्खं विहं जायति जीवियट्ठी । ते नातिसंजोगमविप्पहाय, कायोवगा नंतकरा भवंति ॥ व. पुनरप्यार्द्रको बीजोदकादिभोजिनां दोषाभिधित्सयाऽऽह 'जे यावी' त्यादि, ये चापि 'भिक्षवः' प्रव्रजिता बीजोदकभोजिनः सन्तो द्रव्यतो ब्रह्मचारिणोऽपि भिक्षां चाटन्तिजीवितार्थिनस्ते तथाभूता 'ज्ञातिसंयोगं' स्वजनसम्बन्धं 'विप्रहाय ' त्यक्त्वा कायान् कायेषु वोपगच्छन्तीति कायोपगास्तदुपमर्द्दकारम्भप्रवृत्तत्वात् संसारस्यानन्तकरा भवन्तीति, इदमुक्तं भवति - केवलं स्त्रीपरिभोग एव तैः परित्यक्तोऽसावपि द्रव्यतः शेषेण तु बीजोदकाद्युपभोगेन गृहस्थकल्पा एव ते यत्तु भिक्षाटनादिकमुपन्यस्तं तेषां तद्गृहस्थानामपि केषाञ्चित्संभाव्यते, नैतावता श्रमणभाव इति । अधुनैतदाकर्ण्य गोशालकोऽपरमुत्तरं दातुमसमर्थोऽन्यतीर्थिकान्सहायान् विधाय सोल्लुण्ठमसारं वक्तुकाम आह मू. (७४८) इमं वयं तु तुम पाउकुव्वं, पावाइणो गिरिहसि सव्व एव । पावाइणी पुढो किट्टयंता, सयं सयं दिट्टि करेति पाउ ॥ वृ. 'इमां' पूर्वोक्तां वाचं तुशब्दो विशेषणार्थं त्वं 'प्रादुष्कुर्वन्' प्रकाशयन्सर्वानपि प्रावादुकान् 'गर्हसि ' जुगुप्ससे, यस्मात्सर्वेऽपि तीर्थिका बीजोदकादिभोजिनोऽपि संसारोच्छित्तये प्रवर्तन्ते, ते तु भवता नाभ्युपगभ्यन्ते, ते तु प्रावादुकाः पृथक् पृथक् स्वीयां स्वीयां द्दष्टिं प्रत्येकं स्वदर्शन कीर्तयन्तः 'प्रादुष्कुर्वन्ति' प्रकाशयन्ति । यदिवा श्लोकपश्चार्द्धमार्द्धककुमार आह-सर्वेऽपि प्रावादुका यथावस्थितं स्वदर्शनं कीर्तयन्तः 'प्रादुष्कुर्वन्ति' प्रकाशयन्ति । तत्प्रामाण्याच्च वयमपि स्वदर्शनाविर्भावनं कुर्म, तथाहि - अप्रासुकेन बीजोदकादिपरिभोगेन कर्मबन्ध एव केवलं न संसारोच्छेद इतीदस्मदीयं दर्शनम्, एवं व्यवस्थिते काऽत्र परनिन्दा को वाऽऽत्मोत्कर्ष इति । मू. (७४९) ते अन्नमन्नस्स उ गरहमाणा, अक्खंति भो समणा माहणा य । सतोय अत्थी असतो य नत्थी, गरहामो दिट्ठिन गरहामो किंचि ॥ वृ. किं च 'ते अन्नमन्नस्से' त्यादि, 'ते' प्रावादुकाः 'अन्योऽन्यस्य' परस्परेण तु स्वदर्शनप्रतिष्ठाशया परदर्शनं गर्हमाणाः स्वदर्शनगुणानाचक्षते, तुशब्दात्परस्परतो व्याहतमनुष्ठानं चानुतिष्ठन्ति, तेच 'श्रमणा' निर्ग्रन्थादयो 'ब्राह्मणा' द्विजातयः सर्वेऽप्येते स्वकं पक्षं समर्थयन्ति परकीय च दूषयन्ति । तदेव पश्चार्द्धेन दर्शयति- 'स्वत' इति स्वकीये पक्षे स्वाभ्युपगमेऽस्ति पुण्यं तत्कार्यं च स्वर्गापवर्गादिकमस्ति अस्वतश्चपराभ्युपगमाञ्च नास्ति पुण्यादिकमित्येवं सर्वेऽपि तीर्थिकाः परस्परव्याघातेन प्रवृत्ताः, अतो वयमपि यथावस्थितत्त्वप्ररूपणतो युक्ति विकलत्वादेकान्तद्दष्टि For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484