Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४३०
सूत्रकृताङ्ग सूत्रम् २/६/-/७५७
तायी वा मोक्षं प्रति, अयवयवमयपयचयतयणय गतावित्यस्य रूपं, स एव-भगवानेवाह-यथा विमतिपरित्या- गेन मोक्षगमनशीलो भवतीत्येतावता च संदर्भेण ब्रह्मणो-मोक्षस्य व्रतं ब्रह्मव्रतमित्येतदुक्तं,- तस्मिंश्चोक्ते तदर्थे चानुष्ठाने क्रियमाणे तस्योदयस्यार्थी लाभार्थी श्रमण इति ब्रवीम्यहमिति। मू. (७५८) समारभंते वणिया भूयगामं, परिग्गहं चेव ममायमाणा।
ते नातिसंजोगमविप्पहाय, आयस्स हेउं पगरंति संगं॥ वृ.न चैवंभूता वणिज इत्येतदाककुमार दर्शयितुमाह-ते हि वणिजश्चतुर्दशप्रकारमपि 'भूतग्राम' जन्तुसमूहं 'समारभन्ते' तदुपमर्दिकाः क्रियाः प्रवर्त्तयन्ति क्रयविक्रयार्थं शकटयानवाहनोष्टमण्डलिकादिभिरनुष्ठानैरिति, तथा परिग्रहं द्विपदचतुष्पदधनधान्यादिकंममीकुर्वन्ति ममेदमित्येवं व्यवस्थापयन्ति ते, हि वणिजो ज्ञातिभि स्वजनै सह य संयोगस्तम् अविप्रहाय अपरित्यज्य आयस्य लाभस्य हेतोः निमित्तादपरेण सार्द्ध सङ्ग सम्बन्धं कुर्वन्ति । भगवांस्तु षड्जीवरक्षापरोऽपरिग्रहस्त्यक्तस्वजनपक्षःसर्वत्राप्रतिबद्धोधर्माऽऽयमन्वेषयन्गत्वापिधर्मदेशनां विधत्ते, अतो भगवतो वणिग्भिः सार्धं च सर्वसाधर्म्यमस्तीति।। मू. (७५९) वित्तेसिणो मेहुणसंपगाढा, ते भोयणट्ठा वणिया वयंति।
वयं तु कामेसुअज्झोववन्ना, अनारिया पेमरसेसु गिद्धा ।। वृ. पुनरपि वणिजां दोषमुद्भावयन्नाह 'वित्तेसिणो'इत्यादि, वित्तं-द्रव्यं तदन्वेष्टुं शीलं येषा ते वित्तैषिणः, तथा 'मैथुने' स्त्रीसंपर्के 'संप्रगाढा' अध्युपपन्नाः, तथा ते 'भोजनार्थम्' आहारार्थंवणिजइतश्चेतश्च व्रजन्तिवदन्तिवा।तांस्तु वणिजोवयमेवंब्रूमो-यथैतेकामेष्वध्युपपन्नागृद्धाः,अनार्यकर्मकारित्वादनार्यारसेषुच-सातगौरवादिषुगृद्धा-मूर्छिताः, नत्वेवंभूता भगवन्तोऽहन्तः, कथं तेषां तैः सह साधर्म्यमिति? दूरत एव निरस्तैषा कथेति। मू. (७६०) आरंभगंचेव परिग्गहं च, अविउस्सिया निस्सिय आयदंडा।
तेसिंच से उदए जंवयासी, चउरंतनंताय दुहाय नेह ।। वृ. किंचान्यत्-'आरम्भं’ सावद्यानुष्ठानं च तथा परिग्रहं च 'अव्युत्सृज्य' अपरित्यज्य तस्मिन्नेवारम्भे क्रयविक्रयपचनपाचनादिके तथा परिग्रहे च-धनधान्यहिरण्यसुवर्णद्विपदचतुष्पदादिके निश्चयेन श्रिता-अवबद्धा निश्रित वणिजो भवन्ति तथाऽऽत्मैव दण्डयतीति दण्डो येषां ते भवन्त्यात्मदण्डा असदाचारप्रवृत्तेरिति, भावोऽपि चैषां वणिजां परिग्रहारम्भवतां स.उदये लाभोयदर्थं तेप्रवृत्ताःयंचत्वं लाभंवदसिस तेषां चतुरन्तः चतुर्गतिको यः संसारोऽनन्तस्तस्मैतदर्थं भवतीति, तथा दुःखाय च भवतीति, न चेहासावेकान्तेन तत्प्रवृत्तस्यापि भवतीति। मू. (७६१) नेगंत नश्चंतिव ओदए सो, वयंति ते दो विगुणोदयंमि ।
से उदए सातिमनंतपत्ते, तमुदयं साहयइ ताइ णाई। वृ. एतदेव दर्शयितुमाह-'नेगतिनचंति' इत्यादि एकान्तेन भवतीत्येकान्तिकः, तथा न, लाभार्थं प्रवृत्तस्य विपर्ययस्यापि दर्शनात्, तथा नाप्यात्यन्तिकः सर्वकालभावी, तत्क्षयदर्शनात, सतेषां उदयोलाभोऽनैकान्तिकोऽनात्यनितकश्चेत्येवं तद्विदोवदन्ति।तौचद्वापिभावी विगतगुणोदयौ भवतः, एतदुक्तं भवति-किं तेनोदयेन लामरूपेण योऽनैकान्तिकोऽनात्यन्तिकश्च, यश्चानायेति।यश्चभगवतः 'से' तस्य दिव्यज्ञानप्राप्तिलक्षणः उदयो लाभोयोवा धर्मदेशनावा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484