SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ४३० सूत्रकृताङ्ग सूत्रम् २/६/-/७५७ तायी वा मोक्षं प्रति, अयवयवमयपयचयतयणय गतावित्यस्य रूपं, स एव-भगवानेवाह-यथा विमतिपरित्या- गेन मोक्षगमनशीलो भवतीत्येतावता च संदर्भेण ब्रह्मणो-मोक्षस्य व्रतं ब्रह्मव्रतमित्येतदुक्तं,- तस्मिंश्चोक्ते तदर्थे चानुष्ठाने क्रियमाणे तस्योदयस्यार्थी लाभार्थी श्रमण इति ब्रवीम्यहमिति। मू. (७५८) समारभंते वणिया भूयगामं, परिग्गहं चेव ममायमाणा। ते नातिसंजोगमविप्पहाय, आयस्स हेउं पगरंति संगं॥ वृ.न चैवंभूता वणिज इत्येतदाककुमार दर्शयितुमाह-ते हि वणिजश्चतुर्दशप्रकारमपि 'भूतग्राम' जन्तुसमूहं 'समारभन्ते' तदुपमर्दिकाः क्रियाः प्रवर्त्तयन्ति क्रयविक्रयार्थं शकटयानवाहनोष्टमण्डलिकादिभिरनुष्ठानैरिति, तथा परिग्रहं द्विपदचतुष्पदधनधान्यादिकंममीकुर्वन्ति ममेदमित्येवं व्यवस्थापयन्ति ते, हि वणिजो ज्ञातिभि स्वजनै सह य संयोगस्तम् अविप्रहाय अपरित्यज्य आयस्य लाभस्य हेतोः निमित्तादपरेण सार्द्ध सङ्ग सम्बन्धं कुर्वन्ति । भगवांस्तु षड्जीवरक्षापरोऽपरिग्रहस्त्यक्तस्वजनपक्षःसर्वत्राप्रतिबद्धोधर्माऽऽयमन्वेषयन्गत्वापिधर्मदेशनां विधत्ते, अतो भगवतो वणिग्भिः सार्धं च सर्वसाधर्म्यमस्तीति।। मू. (७५९) वित्तेसिणो मेहुणसंपगाढा, ते भोयणट्ठा वणिया वयंति। वयं तु कामेसुअज्झोववन्ना, अनारिया पेमरसेसु गिद्धा ।। वृ. पुनरपि वणिजां दोषमुद्भावयन्नाह 'वित्तेसिणो'इत्यादि, वित्तं-द्रव्यं तदन्वेष्टुं शीलं येषा ते वित्तैषिणः, तथा 'मैथुने' स्त्रीसंपर्के 'संप्रगाढा' अध्युपपन्नाः, तथा ते 'भोजनार्थम्' आहारार्थंवणिजइतश्चेतश्च व्रजन्तिवदन्तिवा।तांस्तु वणिजोवयमेवंब्रूमो-यथैतेकामेष्वध्युपपन्नागृद्धाः,अनार्यकर्मकारित्वादनार्यारसेषुच-सातगौरवादिषुगृद्धा-मूर्छिताः, नत्वेवंभूता भगवन्तोऽहन्तः, कथं तेषां तैः सह साधर्म्यमिति? दूरत एव निरस्तैषा कथेति। मू. (७६०) आरंभगंचेव परिग्गहं च, अविउस्सिया निस्सिय आयदंडा। तेसिंच से उदए जंवयासी, चउरंतनंताय दुहाय नेह ।। वृ. किंचान्यत्-'आरम्भं’ सावद्यानुष्ठानं च तथा परिग्रहं च 'अव्युत्सृज्य' अपरित्यज्य तस्मिन्नेवारम्भे क्रयविक्रयपचनपाचनादिके तथा परिग्रहे च-धनधान्यहिरण्यसुवर्णद्विपदचतुष्पदादिके निश्चयेन श्रिता-अवबद्धा निश्रित वणिजो भवन्ति तथाऽऽत्मैव दण्डयतीति दण्डो येषां ते भवन्त्यात्मदण्डा असदाचारप्रवृत्तेरिति, भावोऽपि चैषां वणिजां परिग्रहारम्भवतां स.उदये लाभोयदर्थं तेप्रवृत्ताःयंचत्वं लाभंवदसिस तेषां चतुरन्तः चतुर्गतिको यः संसारोऽनन्तस्तस्मैतदर्थं भवतीति, तथा दुःखाय च भवतीति, न चेहासावेकान्तेन तत्प्रवृत्तस्यापि भवतीति। मू. (७६१) नेगंत नश्चंतिव ओदए सो, वयंति ते दो विगुणोदयंमि । से उदए सातिमनंतपत्ते, तमुदयं साहयइ ताइ णाई। वृ. एतदेव दर्शयितुमाह-'नेगतिनचंति' इत्यादि एकान्तेन भवतीत्येकान्तिकः, तथा न, लाभार्थं प्रवृत्तस्य विपर्ययस्यापि दर्शनात्, तथा नाप्यात्यन्तिकः सर्वकालभावी, तत्क्षयदर्शनात, सतेषां उदयोलाभोऽनैकान्तिकोऽनात्यनितकश्चेत्येवं तद्विदोवदन्ति।तौचद्वापिभावी विगतगुणोदयौ भवतः, एतदुक्तं भवति-किं तेनोदयेन लामरूपेण योऽनैकान्तिकोऽनात्यन्तिकश्च, यश्चानायेति।यश्चभगवतः 'से' तस्य दिव्यज्ञानप्राप्तिलक्षणः उदयो लाभोयोवा धर्मदेशनावा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy