________________
श्रुतस्कन्धः -२, अध्ययनं-६,
___
४३१ प्तिनिर्जरालक्षणः स च सादिरनन्तश्च, तमेवंभूतमुदयं प्राप्तो भगवानन्येषामपि तथामृत्मेवोदयं साधयित कथयति श्लाघते वा।
किंभूतो भगवान् ?-'तायी 'अयवयपयमयचयतयणय गता' वित्यस्य दण्डकधातोनिप्रत्येय रूपं, मोक्षं प्रति गमनशील इत्यर्थ, त्रायी वा आसन्नभव्यानां त्राणकरणात्, तथा 'ज्ञाती' ज्ञाताः-क्षत्रिया ज्ञातं वा जन्तुजातं विद्यतेयस्य स ज्ञाती, विदितसमस्तवेद्य इत्यर्थः। तदेवंभूतेन भगवता तेषां वणिजां निर्विवेकिनां कथं सर्वसाधर्म्यमिति। मू. (७६२) अहिंसयं सव्वपयानुकंपी, धम्मे ठियं कम्मविवेगहेउं ।
तमायदंडेहिं समायरतं, अबोहीएते पडिरूवमेयं ।। वृ. साम्प्रतं देवकृतसमवसरणपद्मावलीदेवच्छन्दकसिंहासनाधुपभोगं कुर्वनप्याधाकर्मकृतवसतिनिषेवकसाधुवत्कथं तदनुमतिकृतेन कर्मणाऽसौ न लिप्यत इत्येतद्गोशालकमतमाशङ्कयाह असौ भगवान्समवसरणाधुपभोगंकुर्वन्नप्यहिंसकः, स उपभोगं करोति, एतदुक्तं भवति-न हि तत्रभगवतो मनागप्याशंसाप्रतिबन्धो वा विद्यते, समतृणमणिमुक्तालोष्टकाञ्चनतया तदुपभोगं प्रति प्रवृत्तेः, देवानामपि प्रवचनोद्विभावयिषूणां कथं नु नाम भव्यानां धर्माभिमुखं प्रवृत्तिर्यथा स्यादित्येवमर्थमात्मलाभार्थं च प्रवर्तनादतोऽसौ भगवानहिंसकः।
तथा सर्वेषांप्रजायन्तइतिप्रजा-जन्तवस्तदनुकम्पीचतान्संसारेपर्यटतोऽनुकम्पतेभगवान् तच्छीलश्च तमेवंरूपं 'धर्मे' परमार्थभूते व्यवस्थितं कर्मविवेकहेतुभूतं भवद्विधा आत्मदण्डैः समाचरन्त-आत्मकल्पं कर्वन्तिवाणिगादिभिरुदाहरणैः, एतच्चाबोधे:-अज्ञानस्य प्रतिरूपं वर्तते. एकतावदिदमज्ञानंयत्स्वतः कुमार्गप्रवर्तनंद्वितीयंचैतप्रतिरूपमज्ञानं यद्भगवतामपिजगद्वन्द्यानां सर्वातिशयनिधानभूतानामितरैः समत्वापादनमिति।
साम्प्रतमार्द्रककुमारमपहस्तितगोशालकंततो भगवदभिमुखं गच्छन्तं दृष्ट्वाऽपान्तराले शाक्यपुत्रीया भिक्षव इदमूचुःमू. (७६३) पिन्नागपिंडीमवि विद्ध सूले, केइ पएज्जा पुरिसे इमेत्ति।
अलाउयं वावि कुमारएत्ति, सलिप्पती पाणि वहेण अम्हं॥ वृ.यदेतद्वणिग्दृष्टान्तदूषणन् बाह्यमनुष्ठानं दूषितं तच्छोभनं कृतंभवतायतोऽतिफल्गुप्रायं बाह्यमनुष्ठानं, आन्तरमेव त्वनुष्ठानं संसामोक्षयोःप्रधानाङ्गम्, अस्मत्सिद्धांतेचैतदेवव्यावर्ण्यते, इत्येतदाककुमार भो राजपुत्र ! त्वमहितः शृणु श्रुत्वा चावधारयेति भणित्वा ते भिक्षुका आन्तरानुष्ठानसमर्थकमात्मीयसिद्धान्ताविर्भावनायेदमाहुः-पिन्नागे"त्यादि, 'पिण्याकः' खलस्तस्य 'पिण्डि' भिन्नकंतदचेतनमपिसत्कश्चित्संभ्रमेम्लेच्छादिविषयेकेनचित्रशयताप्रावरणं खलोपरि प्रक्षिप्तं । तञ्च म्लेच्छेनान्वेष्टुं प्रवृत्तेन पुरुषोऽयमिति मत्वा खलपिण्डया सह गृहीतं, ततोऽसौ म्लेच्छो वस्त्रवेष्टितां तां खलपिण्डी पुरुषबुद्धया शूले प्रोतां पावके पचेत्,
तथा 'अलाबुकं तुम्बकं कुमारकोऽ- यमिति मत्वाऽग्नावेव पपाच, स चैवं चित्तस्य दुष्टत्वााणिवधजनितेन पातकेन लिप्यते अस्मत्सिद्धान्ते, चित्तमूलत्वाच्छुमाशुभबन्धस्येति, एवं तावदकुशलचित्तप्रामाण्यादकुर्वन्नपि प्राणातिपातं प्राणिधातकफलेन युज्यते । मू. (७६४) अहवावि विभ्रूण मिलक्खु सूले, पित्रागबुद्धीइ नरंपएजा। कुमारगं वावि अलाबुयंति, न लिप्पइ पाणिवहेण अम्हं॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org