SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ४३२ सूत्रकृताङ्ग सूत्रम् २/६/-/७६४ वृ. अमुमेव हृष्टान्तं वैपरीत्येनाह - अथवापि सत्यपुरुष खलबुद्धया कश्चिन्म्लेच्छः शूले प्रोतमग्नौ पचेत्, तथा कुमारकं च लाबुकबुध्याऽग्नावेव पचेत्, न चासौ प्राणिवधजनितेन पातकेन लिप्यतेऽस्माकमिति । मू. (७६५) पुरिसं च विद्धूण कुमारगं वा, सूलंमि केई पए जायतेए । पिन्नाय पिंडिं सतिमारुहेत्ता, बुद्धाणं तं कप्पति पारणाए । वृ. किंचान्यत् - 'पुरिस' मित्यादि, पुरुषं वा कुमारकं वा विद्धवा शूले कश्चित्पचेत् 'जाततेजसि' अग्नावारुह्य खलपिण्डीयमिति मत्वा 'सतीं' शोभनां, तदेतद्बुद्धानामपि 'पारणाय' भोजनाय 'कल्पते' योग्यं भवति, किमुतापरेषाम् ?, एवं सर्वास्ववस्थास्वचिन्तितं-मनसाऽसंकल्पितं कर्म चयं न गच्छत्यस्मत्सिद्धान्ते, तदुक्तम् - " अविज्ञानोपचितं परिज्ञानोपचितमीर्यापथिकं स्वप्नान्तिकं चेति कर्मोपचयं न याति” । पुनरपि शाक्य एव दानफलमधिकृत्याह मू. (७६६) सिणायगाणं तु दुवे सहस्से, जे भोयए नियए भिक्खुयाणं । ते पुन्नखंधं सुमहं जिणित्ता, भवंति आरोप्प महंतसत्ता ।। वृ. स्नातका बोधिसत्त्वाः, तुशब्दात्पञ्चशिक्षापदिकादिपरिग्रहः, तेषां भिक्षुकाणां सहस्रद्वयं 'निजे' शाक्यपुत्रीये धर्मे व्यवस्थितः कश्चिदुपासकः पचनपाचनाद्यपि कृत्वा भोजयेत् समांसगुडदाडिमेनेष्टेन भोजन, ते पुरुषा महासत्त्वाः श्रद्धालवः पुण्यस्कन्धं महान्तं समावर्ज्य तेन च पुण्य स्कन्धेनारोप्याख्या देवा भवन्त्याकाशोपगाः, सर्वोत्तमां देवगतिं गच्छन्तीत्यर्थः । मू. (७६७) अजोगरूवं इह संजयाणं, पावं तु पाणाण पसज्झ काउं । अबोहिए दोण्हवि तं असाहु, वयंति जे यावि पडिस्सुणंति ॥ वृ. तदेवं बुद्धेन दानमूलः शीलमूलश्च धर्म प्रवेदितः, तद् 'एहि' आगच्छ बौद्धसिद्धान्तं प्रतिपद्यस्वेत्येवं भिक्षुकैरभिहितः सन्नार्द्रकोऽनाकुलया दृष्ट्या तान्वीक्ष्योवाचेदं वक्ष्यमाणमित्याह'अजोगरूव'मित्यादि, 'इह' अस्मिन् भवदीये शाक्यमते 'संयतानां' भिक्षूणां यदुक्तं प्राक्तदत्यन्तेनायोग्यरूपम्-अघटमानकं, तथाहि अहिंसार्थमुत्थितस्य त्रिगुप्तिगुप्तस्य पञ्चसमितिसमितस्य सतः प्रव्रजितस्य सम्यगज्ञानपूर्विकां क्रियां कुर्वतो भावशुद्धि फलवती भवति, तद्विपर्यस्तमतेस्तवज्ञानावृतस्य महामोहाकुलीकृतान्तरात्मतया खलपुरुषयोरपि विवेकमजानतः कुतस्त्याभावशुद्धिः ?, अतोऽत्यंतमसाम्प्रतमेतद्बुद्धमतानुसारिणां यत्खलबुद्धया पुरुषस्य शूलप्रोतनपचनादिकं, तथा बुद्धस्य पिनाकबुद्धया पिशितभक्षणानुमत्यादिकमिति । एतदेव दर्शयति-प्राणानाम्इन्द्रियादीनामपगमेन तुशब्दस्यैवकारार्थत्वात्पापमेव कृत्वा रससातागौरवादिगृद्धास्तदभावं व्यावर्णयन्ति, एतच्च तेषां पापाभावव्यावर्णनम् 'अबोध्यै' अबोधिलामार्थं तयोर्द्वयोरपि संपद्यते, अतोऽसाध्वेतत् । कयोर्द्वयोरित्याह-ये वदन्ति पिण्याकबुद्धया पुरुषपाकेऽपि पातकाभावं, ये च तेभ्यः शृण्वन्ति, एतयोर्द्वयोरपि वर्गयोरसाध्वेतदिति । अपिच नाज्ञानावृतमूढजने भावशुद्धया शुद्धिर्भवति, यदि च स्यात्संसारमोचकादीनामपि तर्हि कर्मविमोक्षः स्यात्, तथा भावशुद्धिमेव केवलामभ्युपगच्छतां भवतां शिरस्तुण्डमुण्डनपिण्डपातादिकं चैत्यकर्मादिकं चानुष्ठानमनर्थकमापद्यते, तस्मानैवंविधया भावशुद्धया शुद्धिरुपजायत इति स्थितम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy