Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
श्रुतस्कन्धः - २, अध्ययनं - ६,
प्रतिपाद्यत इति । निक्षेपस्त्रिधा - तत्रौघनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने निक्षेपे त्वार्द्रकीयं, तत्रार्द्रपदनिक्षेपार्थं निर्युक्तिकृदाहनि. [१८४ ]
४१९
नामंठवणा अद्दं दव्वद्दं चेव होइ भावद्दं । एवो खलु अद्दस्स उ निक्खेवो चउविहो होइ ॥
वृ. नामस्थापनाद्रव्यभावभेदाञ्चतुर्धाऽऽर्द्रकस्य निक्षेपो द्रष्टव्यः, तत्र नामस्थापने अनाहत्य द्रव्यार्द्रप्रतिपादनार्थमाह-तत्त्र द्रव्यार्द्रद्विधा- आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः 'अनुपयोगो द्रव्य 'मितिकृत्वा नोआगमतस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तं । नि. [१८५ ] उदगद्दं सारद्दं छवियद्द वसद्द तहा सिलेसद्दं । एयं दव्वद्दं खलु भावेणं होइ रागद्दं ॥
वृ. यदुदकेन मृत्तिकादिकं द्रव्यमार्गीकृतं तदुदकार्द्रं, सारार्द्रं तु यब्दहिः शुष्काकारमप्यन्तर्मध्ये सार्द्रमास्ते यथा श्रीपर्णीसोवर्चलादिकं 'छविअद्दं' तुयत् स्निग्धत्वगद्रव्यं मुक्ताफलरक्ताशोकादिकं तदभिधीयते, वसयोपलिप्तं वसार्द्र, तथा श्लेषार्द्र वज्रलेपाद्युपलिप्तं स्तम्भकुड्यादिकं यद्दव्यं तल्सिग्धाक रतया श्लेषार्द्रमित्याभिधीयते एतत्सर्वमप्युदकार्द्रादिकं द्रव्यार्द्रमेवाभिधीयते, खलुशब्दस्यैवकारार्थत्वात् । भावार्द्र तु पुनः रागः स्नेहोऽभिष्वङ्गस्तेर्नान्द्रं यज्जीवद्रव्यं तद्भावार्द्रमित्यभिधीयते । साम्प्रतमार्द्रककुमारमधिकृत्यान्यथा द्रव्यार्द्रं प्रतिपादयितुमाहएगभवियबद्धाउ य अभिमुहए य नामगोए य । एते तिन्नि पगारा दव्वद्दे होंति नायव्वा ॥
नि. [१८६ ]
वृ. एकेन भवेन यो जीवः स्वगदिरागत्यार्द्रककुमारत्वेनोत्पत्स्यते तथा ततोऽप्यासन्नतो बद्धायुष्कः तथा ततोऽप्यासन्नतमोऽभिमुखनामगोत्रोः योऽनन्तरसमयमेवार्द्रकत्वेन समुत्पत्स्यते, एते च त्रयोऽपि प्रकारा द्रव्यार्द्रके द्रष्टव्या इति ।
नि. [१८७]
अपुरे अद्दसुतो नामेणं अद्दसोत्ति अनगारो ।
तत्तो समुट्ठियमिणं अज्झयणं अद्दइति ॥
वृ. साम्प्रतं भावार्द्रकमधिकृत्याह- आर्द्रकायुष्कनामगोत्राण्यनुभवन् भावार्द्रो भवति, यद्यपि शङ्गबेरादीनामप्यार्द्रकसंज्ञाव्यवहारोऽस्ति तथापि नेदमध्ययनं तेभ्यः समुत्थितमतो न तैरिहाधिकारः, किंत्वार्द्रककुमारानगारात्समुत्थिमतस्तेनैवेहाधिकार इतिकृत्वा तद्वक्तव्यताऽभिधीयते । एतदेव नियुक्तिकृदाह - अस्याः समासेनायमर्थ आर्द्रकपुरे नगरे आर्द्रको नाम राजा, तत्सुनोऽप्यार्द्रकाभिधानः कुमारः, तद्वंशजाः किल सर्वेऽप्यारर्द्रकाभिधाना एव भवन्तीतिकृत्वा स चानगारः संवृत्तः, तस्य च श्रीमन्महावीर वर्द्धमानस्वामिसमवसरणावसरे गोशालकेन सार्द्ध हस्तितापसैश्व वादोऽभूत् तेन च ते एतदध्ययनार्थोपन्यासेन पराजिता अत इदमभिधीयते 'ततः तस्मादार्द्रकात्समुत्थितमिद-मध्ययनमार्द्रकीयमिति गाथासमासार्थः । व्यासार्थं तु स्वत एव निर्युक्तिकृदार्द्रकपूर्वभवोपन्यासेनोत्तरत्र कथयिष्यतीति । ननु च शाश्वतमिदं द्वादशाङ्गमपि गणिपिटकम् आर्द्रककथानकं तु श्रीवर्द्धमानतीर्थावसरे तत्कथमस्य शाश्वतत्वमित्याशङ्कयाह । कामं दुवालसंग जिनवयणं सासयं महाभागं । सव्वज्झयणाई तहा सव्वक्खरसन्निवाया य ॥
नि. [१८८ ]
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484