Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
अध्ययनं - ५,
श्रुतस्कन्धः - २,
४११
तदभावे बन्धस्याप्यभावः स्यादित्यतोऽशेषबन्धनापगमस्वभावो मोक्षोऽस्तीत्येवं च संज्ञां निवेशयेदिति ।। बन्धसद्भावे चावश्यं भावी पुण्यपापसद्भाव इत्यतस्तद्भावं निषेधद्वारेणाहमू. (७२०) नत्थि पुण्णे व पावे वा, नेवं सन्नं निवेसए । अत्थि पुण्णे व पावे वा, एवं सन्नं निवेस ॥
वृ. 'नास्ति' न विद्यते 'पुण्यं' शुभकर्मप्रकृतिलक्षणं तथा 'पापं तद्विपर्ययलक्षणं 'नास्ति' न विद्यते इत्येवं संज्ञां नो निवेशयेत् । तदभावप्रतिपत्तिनिबन्धनं त्विदं तत्र केषाञ्चिन्नास्ति पुण्यं, पापमेव ह्युत्कर्षावस्थं सत्सुखदुःखनिबन्धनं, तथा परेषां पापं नास्ति, पुण्यमेव ह्यपचीयमानं पापकार्यं कुर्यादिति, अन्येषां तूमयमपि नास्ति, संसारवैचित्र्यं तु नियतिस्वभावादिकृतं, तदेतदयुक्तं, यतः पुण्यपाप शब्द सम्बन्धितशब्दौ सम्बन्धिशब्दानामेकांशस्य सत्ताऽपरसत्तानान्तरीयका अतो नैकतरस्य सत्तेति, नाप्युभयाभावः शक्यते वक्तुं -
,
-निर्निबन्धनस्य जगद्वैचित्रस्याभावात्, न हि कारणमन्तरेण क्वचित्कार्यस्योत्पत्तिर्दृष्टा, नियतिस्वभावादिवादस्तु नष्टोत्तराणां पादप्रसारिकाप्रायः अपि च तद्वादेऽभ्युपगम्यमाने सकलक्रियावैयर्थ्यं तत एव सकलकार्योत्पत्तेरित्यतोऽस्ति पुण्यं पापं चेत्येवं संज्ञां निवेशयेत् । पुण्यपापे चैवंरूपे, तद्यथा
॥१॥
“पुद्गलकर्म शुभं यत्तत्पुण्यमिति जिनशासने दृष्टम् । यदशुभमथ तत्पापमिति भवति सर्वज्ञनिर्दिष्टम् ॥ नत्थि आसवे संवरे वा, नेवं सन्नं निवेसए । अत्थि आसवे संवरे वा, एवं सन्नं निवेसए ॥
यू. (७२१)
वृ. नकारणमन्तरेण कार्यस्योत्पत्तिरतः पुण्यपापयोः प्रागुक्तयोः कारणभूतावाश्रवसंवरौ तत्प्रतिषेधनिषेधद्वारेण दर्शयितुकाम आह-आश्रवति-प्रविशति कर्म येन स प्राणातिपातादिरूप आश्रवः-कर्मोपादानकारणं, तथा तन्निरोधः संवरः, एतौ द्वावपि न स्त इत्येवं संज्ञां नो निवेशयेत्, तद भावप्रतिपत्याशङ्काकारणं त्विदं-कायवाङ्ङ्गनः कर्म योगः, स आश्रव इति, यथेदमुक्तं तथेदमप्युक्तमेव- 'उञ्चालियंमि पाए' इत्यादि, ततश्च कायादिव्यापारेण कर्मबन्धो न भवतीति, युक्तिरपिकिमयमाश्रव आत्मनो भिन्न उताभिन्नः ?
यदि भिन्नो नासावाश्रवो घटादिवद्, अभेदेऽपि नाश्रवत्वं, सिद्धात्मनामपि आश्रवप्रसङ्गात्, तदभावे च तन्निरोधलक्षणस्य संवरस्याप्यभावः सिद्ध एवेत्येवमात्मकमध्यवसायं न कुर्यात् । यतो यत्तदनैकान्तिकत्वं कायव्यापारस्य 'उच्चालयंमिपाए' इत्यादिनोक्तं तदस्माकमि संगतमेव, यतो नह्यस्माभिरप्युपयुक्तस्य कर्मबन्धोऽभ्युपगम्यते, निरुपयुक्तस्य त्वस्त्येव कर्मबन्धः, तथा भेदाभेदोभयपक्षसमाश्रयणात्तदेकपक्षाश्रितदोषाभाव इत्यस्त्याश्रवसद्भावः, तन्निरोधश्च संवर
इति, उक्तं च
-
119 11 “योगः शुद्धः पुण्याश्रवस्तु पापस्य तद्विपर्यासः । वाक्कायमनोगुप्तिर्निराश्रवः संवरस्तूक्तः ॥
इत्यतोऽस्त्याश्रवस्तथा संवरश्चेत्येवं संज्ञां निवेशयेदिति ।
आश्रवसंवरसद्भावे चावश्यंभावी वेदनानिर्जरासद्भाव इत्यतस्तं प्रतिषेधनिषेधद्वारेणाहमू. (७२२) नत्थि वेयणा निज्जरा वा, वं सन्नं निवेसए । अत्थि वेयणा निजरा वा, एवं सन्नं निवेसए ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484