Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 419
________________ ४१६ सूत्रकृताङ्ग सूत्रम् २/५/-/७३२ मू. (७३२) नस्थि कल्लाण पावे वा, नेवं सन्नं निवेसए। अस्थि कल्लाण पावे वा, एवं सन्नं निवेसए॥ वृ. तदेवं मुक्तिमार्गप्रवृत्तस्य साधुत्वमितरस्य चासाधुत्वं प्रदर्याधुना च सामान्येन कल्याणपापवतोः सद्भावं प्रतिषेधनिषेधद्वारेणाह-नित्थि कल्लाण पावे वा इत्यादि, यथेष्टार्थफलसंप्राप्ति कल्याणं तन्न विद्यते, सर्वाशुचितया निरात्मकत्वाञ्च पापं पापयन् वा न कश्चिद्विद्यते, तदेवमुभयोरप्यभावः, तथा चोक्तम्॥१॥ “विद्याविनयसंपन्ने, ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च, पण्डिताः समदर्शिनः॥ इत्येवमेव कल्याणपापकाभावरूपांसंज्ञांनो निवेशयेद्, अपित्वस्ति कल्याणं कल्याणवांश्च विद्यते, तद्विपर्यस्तं पापं तद्वांश्च विद्यते, इत्येवं संज्ञां निवेशयेत्, तथाहि-नैकान्तेन कल्याणाभावो योबौद्धैरभिहितः, सर्वपदार्थानाशुचित्वासंभवात्, सर्वाशुचित्वेचबुद्धस्याप्यशुचित्वप्राप्तेः, नापि निरात्मानःस्वद्रव्यक्षेत्रकालभावापेक्षया सर्वपदार्थानां विद्यमानत्वात् परद्रव्यादिभिस्तुन विद्यन्ते, सदसदात्मकत्वाद्वस्तुनः, तदुक्तम्-“स्वपरसत्ताव्युदासोपादानापाद्यं हि वस्तुनो वस्तुत्व"मिति तथाऽऽत्माद्वैतभावाभावात्पापाभावोऽपि नास्ति, अद्वैतभावे हि सुखी दुःखी सरोगो नीरोगः सुरूपः कुरूपो दुर्भगः सुभगोऽर्थवान् दरिद्रस्तथाऽयमन्तिकोऽयं तु दवीयान् इत्येवमादिको जगद्वैचित्र्यभावोऽध्यक्षसिद्धोऽपि न स्यात् । ___यच्च समदर्शित्वमुच्यते ब्राह्मणचाण्डालादिषु तदपि समानपीडोत्पादनतो द्रष्टव्यं, न पुनः कर्मापादित वैचित्र्यभावोऽपि तेषां ब्राह्मणचाण्डालादीनां नास्तीति, तदेवंकथञ्चित्कल्याणमस्ति तद्विपर्यस्तंतुपापकमिति । नचैकान्तेन कल्याणं कल्याणमेव, यतः केवलिनांप्रक्षीणघनघातिकर्मचतुष्टयानां सातासातोदयसद्भावात्तथा नारकाणामपि पञ्चेन्द्रियत्वविशिष्टज्ञानादिसद्भावानैकान्तेन तेऽपि पापवन्त इति तस्मात्कथञ्चित्कल्याणं कथञ्चित्पापमिति स्थितम् । तदेवं कल्याणपापयोरनेकान्तरूपत्वं प्रसाध्यैकान्तंदूषयितुमाहमू. (७३३) कल्लाणे पावए वावि, ववहारो न विजइ । जं वेरंतं न जाणंति, समणा बाल पंडिया ॥ वृ. कल्यं-सुखमारोग्यं शोभनत्वं वा तदणतीति कल्याणं तदस्यास्तीति कल्याणो मत्वर्थीयाच्प्रत्ययान्तोऽर्शआदिभ्योऽजित्यनेन, कल्याणवानितियावत् । एवं पापकशब्दोऽपि मत्वर्थीयाच्प्रत्ययान्तो द्रष्टव्यः । तदेवं सर्वथा कल्याणवानेवायं तथा पापवानेवायमित्येवंभूतो व्यवहारो न विद्यते, तदेकान्तभूतस्यैवाभावात्, तदभावस्य च सर्ववस्तूनामनेकान्ताश्रयणेन प्राक्प्रसाधितत्वादिति।एतच्च व्यवहाराभावाश्रयणंसर्वत्रप्रागपियोजनीयं, तद्यथा-सर्वत्रवीर्यमस्ति नास्ति वा सर्वत्र वीर्यमित्येवंभूत एकान्तिको व्यवहारो न विद्यते, तथा नास्ति लोकोऽलोको वा तथा न सन्ति जीवा अजीवा इति चेत्येवंभूतो व्यवहारो न विद्यत इति सर्वत्र सम्बन्धनीयं । तथा वैरं-वज्रं तद्वत्कर्म वैरं विरोधो वा वैरं तद्येन परोपघातादिनैकान्तपक्षसमाश्रयणेन वा भवति तत्ते 'श्रमणाः' तीथिका बाला इव रागद्वेषकलिताः ‘पण्डिताः' पण्डिताभिमानिनः शुष्कतर्कदपाध्मातानजानन्ति, परमार्थभूतस्याहिंसालक्षणस्य धर्मस्यानेकान्तपक्षस्यवाऽनाश्रय Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484