________________
४१६
सूत्रकृताङ्ग सूत्रम् २/५/-/७३२
मू. (७३२) नस्थि कल्लाण पावे वा, नेवं सन्नं निवेसए।
अस्थि कल्लाण पावे वा, एवं सन्नं निवेसए॥ वृ. तदेवं मुक्तिमार्गप्रवृत्तस्य साधुत्वमितरस्य चासाधुत्वं प्रदर्याधुना च सामान्येन कल्याणपापवतोः सद्भावं प्रतिषेधनिषेधद्वारेणाह-नित्थि कल्लाण पावे वा इत्यादि, यथेष्टार्थफलसंप्राप्ति कल्याणं तन्न विद्यते, सर्वाशुचितया निरात्मकत्वाञ्च पापं पापयन् वा न कश्चिद्विद्यते, तदेवमुभयोरप्यभावः, तथा चोक्तम्॥१॥ “विद्याविनयसंपन्ने, ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च, पण्डिताः समदर्शिनः॥ इत्येवमेव कल्याणपापकाभावरूपांसंज्ञांनो निवेशयेद्, अपित्वस्ति कल्याणं कल्याणवांश्च विद्यते, तद्विपर्यस्तं पापं तद्वांश्च विद्यते, इत्येवं संज्ञां निवेशयेत्, तथाहि-नैकान्तेन कल्याणाभावो योबौद्धैरभिहितः, सर्वपदार्थानाशुचित्वासंभवात्, सर्वाशुचित्वेचबुद्धस्याप्यशुचित्वप्राप्तेः, नापि निरात्मानःस्वद्रव्यक्षेत्रकालभावापेक्षया सर्वपदार्थानां विद्यमानत्वात् परद्रव्यादिभिस्तुन विद्यन्ते, सदसदात्मकत्वाद्वस्तुनः, तदुक्तम्-“स्वपरसत्ताव्युदासोपादानापाद्यं हि वस्तुनो वस्तुत्व"मिति तथाऽऽत्माद्वैतभावाभावात्पापाभावोऽपि नास्ति, अद्वैतभावे हि सुखी दुःखी सरोगो नीरोगः सुरूपः कुरूपो दुर्भगः सुभगोऽर्थवान् दरिद्रस्तथाऽयमन्तिकोऽयं तु दवीयान् इत्येवमादिको जगद्वैचित्र्यभावोऽध्यक्षसिद्धोऽपि न स्यात् । ___यच्च समदर्शित्वमुच्यते ब्राह्मणचाण्डालादिषु तदपि समानपीडोत्पादनतो द्रष्टव्यं, न पुनः कर्मापादित वैचित्र्यभावोऽपि तेषां ब्राह्मणचाण्डालादीनां नास्तीति, तदेवंकथञ्चित्कल्याणमस्ति तद्विपर्यस्तंतुपापकमिति । नचैकान्तेन कल्याणं कल्याणमेव, यतः केवलिनांप्रक्षीणघनघातिकर्मचतुष्टयानां सातासातोदयसद्भावात्तथा नारकाणामपि पञ्चेन्द्रियत्वविशिष्टज्ञानादिसद्भावानैकान्तेन तेऽपि पापवन्त इति तस्मात्कथञ्चित्कल्याणं कथञ्चित्पापमिति स्थितम् ।
तदेवं कल्याणपापयोरनेकान्तरूपत्वं प्रसाध्यैकान्तंदूषयितुमाहमू. (७३३) कल्लाणे पावए वावि, ववहारो न विजइ ।
जं वेरंतं न जाणंति, समणा बाल पंडिया ॥ वृ. कल्यं-सुखमारोग्यं शोभनत्वं वा तदणतीति कल्याणं तदस्यास्तीति कल्याणो मत्वर्थीयाच्प्रत्ययान्तोऽर्शआदिभ्योऽजित्यनेन, कल्याणवानितियावत् । एवं पापकशब्दोऽपि मत्वर्थीयाच्प्रत्ययान्तो द्रष्टव्यः । तदेवं सर्वथा कल्याणवानेवायं तथा पापवानेवायमित्येवंभूतो व्यवहारो न विद्यते, तदेकान्तभूतस्यैवाभावात्, तदभावस्य च सर्ववस्तूनामनेकान्ताश्रयणेन प्राक्प्रसाधितत्वादिति।एतच्च व्यवहाराभावाश्रयणंसर्वत्रप्रागपियोजनीयं, तद्यथा-सर्वत्रवीर्यमस्ति नास्ति वा सर्वत्र वीर्यमित्येवंभूत एकान्तिको व्यवहारो न विद्यते, तथा नास्ति लोकोऽलोको वा तथा न सन्ति जीवा अजीवा इति चेत्येवंभूतो व्यवहारो न विद्यत इति सर्वत्र सम्बन्धनीयं ।
तथा वैरं-वज्रं तद्वत्कर्म वैरं विरोधो वा वैरं तद्येन परोपघातादिनैकान्तपक्षसमाश्रयणेन वा भवति तत्ते 'श्रमणाः' तीथिका बाला इव रागद्वेषकलिताः ‘पण्डिताः' पण्डिताभिमानिनः शुष्कतर्कदपाध्मातानजानन्ति, परमार्थभूतस्याहिंसालक्षणस्य धर्मस्यानेकान्तपक्षस्यवाऽनाश्रय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org