________________
श्रुतस्कन्धः - २, अध्ययनं - ५,
तस्यानवद्यत्वात्, तथा चोक्तम् -" उच्चालियंमि पाए" इत्यादि प्रतीतं तदेवं कर्मबन्धाभावात्सिद्धेः सद्भावोऽव्याहतः, सामग्र्यभावादसिद्धिसद्भावोऽपीति ।
मू. (७३०)
नत्थि सिद्धी नियं ठाणं, नेवं सन्नं निवेसए । अत्थि सिद्धी नियं ठाणं, एवं सन्नं निवेसए ।
वृ. साम्प्रतं सिद्धानां स्थाननिरूपणायाह- 'नत्थि सिद्धी' त्यादि, सिद्धेः-अशेषकर्मच्युतिलक्षणाया निजं स्थानं-ईषत्प्राग्भाराख्यं व्यवहारतो निश्चयतस्तु तदुपरियोजनक्रोशषड्भागः, तव्प्रतिपादकप्रमाणाभावात्स नास्तीत्येवं संज्ञां नो निवेशयेत्, यतो बाधकप्रमाणाभावात्साधकस्य चागमस्य सद्भावात्तत्सत्ता दुर्निवारेति । अपिच अपगताशेषकल्मषाणां सिद्धानां केनचिद्विशिष्टेन स्थानेन भाव्यं, तञ्चतुर्दशरज्यात्मकस्य लोकस्याग्रभूतं द्रष्टव्यं न च शक्यते वक्तुमाकाशवत्सर्वव्यापिनः सिद्धा इति, यतो लोकालोकव्याप्याकाशं, न चालोकेऽपरद्रव्यस्य संभवः, तस्याकाशमात्ररूपत्वात्, लोकमात्रव्यापित्वमपि नास्ति, विकल्पानुपपत्तेः - तथाहि
सिद्धावस्थायां तेषां व्यापित्वमभ्युपगतमुत प्रागपि ?, न तावत्सिद्धावस्थायां, तद्वयापित्वभवनेनमित्ताभावात्, नापिप्रागवस्थायां, तद्भावे सर्वसंसारिणां प्रतिनियतसुखदुःखानुभवो न स्यात्, न च शरीराद्बहिरवस्थितमवस्थानमस्ति तत्सत्तानिबन्धनस्य प्रमाणस्याभावात्, अतः सर्वव्यापित्वं विचार्यमाणं न कथञ्चिद् घटते, तदभावे च लोकाग्रमेव सिद्धानां स्थानं, तदूगतिश्च 'कर्मविमुक्तस्योर्ध्वगति' रितिकृत्वा भवति, तथा चोक्तम्
11911
"लाउ एरंडफले अग्गी धूमे य उसु धणुविमुक्के ।
गइ पुव्वपओगेणं एवं सिद्धाणवि गईओ ।। इत्यादि ।
तदेवमस्ति सिद्धिस्तस्याश्च निजं स्थानमित्येवं संज्ञां निवेशयेदिति। साम्प्रतं सिद्धेः साधकानां साधूनां तत्प्रतिपक्षभूतानामसाधूनां चास्तित्वं प्रतिपिपादयिषुः पूर्वपक्षमाहपू. (७३१) नत्थि साहू असाहू वा, नेवं सन्नं निवेसए । अत्थि साहू असाहू वा, एवं सन्नं निवेसए ॥
वृ. 'नास्ति' न विद्यते ज्ञानदर्शनचारित्रक्रियोपेतो मोक्षमार्गव्यवस्थितः साधुः, संपूर्णस्य रत्नत्रयानुष्ठानस्याभावात्, तदभावाच्च तव्प्रतिपक्षभूतस्यासाधोरप्यभावः, परस्परापेक्षित्वादेतद्वयवस्थानस्यैकतराभावे द्वितीयस्याप्यभाव इत्येवं संज्ञां नो निवेशयेत्, अपि तु अस्ति साधुः, सिद्धेः प्राक्साधितत्वात्, सिद्धिसत्ता च न साधुमन्तरेण, अतः साधुसिद्धि, तत्प्रतिपक्षभूतस्य चासाधोरिति । यश्च संपूर्णरत्नत्रयानुष्ठानाभावः प्रागाशङ्कितः स सिद्धान्ताभिप्रायमबुद्धैव, तथाहि
४१५
सम्यग्ध्ष्टेरुपयुक्तस्यारक्तद्विष्टस्य सत्संयमवतः श्रुतानुसारेणाऽऽहारादिकं शुद्धबुद्धया गृह्णतः क्वचिदज्ञानादनेषणीयग्रहणसंभवेऽपि सततोपयुक्ततया संपूर्णमेव रत्नत्रयानुष्ठानमिति, यश्च भक्ष्यमिदमिदं चाभक्ष्यं गम्यमिदमिदं चागम्यं प्रासुकमेषणीयमिदमिदं च विपरीतमित्येवं रागद्वेषसंभवेन समभावरूपस्य सामायिकस्याभावः कैश्चिञ्च्चोद्यते तत्तेषां चोदनमज्ञानविजृम्भणात्, तथाहि न तेषां सामायिकवतां साधूनां रागद्वेषतया भक्ष्याभक्ष्यादिविवेकः, अपितु प्रधानमोक्षाङ्गस्य सच्चारित्रस्य साधनार्थम्, अपिच उपकारापकारयोः समभावतया सामायिकं न पुनर्भक्ष्याभक्ष्ययोः समप्रवृत्त्येति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org