________________
सूत्रकृताङ्ग सूत्रम् २/५/-/७२७ सर्वेऽप्येकविधा एव, तथा मनुष्या अपि कर्मभूमिजाकर्मभूमिजान्तरद्वीपकसंमूर्च्छनजात्मकभेदमनात्यैकविधत्वेनैवाश्रिताः ।
मू. (७२८)
नत्थि देवो व देवी वा, नवं सन्नं निवेसए । अत्थि देवो व देवी वा, एवं सन्नं निवेसए ।
वृ. तथा देवा अपि भवनपतिव्यन्तरज्योतिष्कवैमानिकभेदेन भिन्ना एकविधत्वेनैव गृहीताः तदेवं सामान्यविशेषाश्रयणाञ्चातर्विध्यं संसारस्य व्यवस्थितं नैकविधत्वं, संसारवैचित्र्य दर्शनात, नाप्यनेकविधत्वं सर्वेषां नरकादीनां स्वजात्यनतिक्रमादिति । सर्वभावानां सप्रतिपक्षत्वात्संसारसद्भावे सति अवश्यं तद्विमुक्तिलक्षणया सिद्ध्यापि भवितव्यमित्यतोऽधुना सप्रतिपक्षां सिद्धिं दर्शयितुमाह
भू. (७२९)
४१४
नत्थि सिद्धी असिद्धी वा, नेवं सन्नं निवेसए । अत्थि सिद्धि असिद्धी वा, एवं सन्नं निवेसए ॥
वृ. सिद्धि अशेषकर्मच्युतिलक्षणा तद्विपर्यस्ता चासिद्धिर्नास्तीत्येवं नो संज्ञां निवेशयेद्, अपि त्वसिद्धेः - संसारलक्षणायाश् चातुर्विध्येनान्तरमेव प्रसाधिताया अविगानेनास्तित्वं प्रसिद्धं, तद्विपर्ययेण सिद्धेरप्यस्तित्वमनिवारितमित्यतोऽस्ति सिद्धिरसिद्धिर्वेत्येवं संज्ञां निवेशयेदिति स्थितम्, इदमुक्तं भवति सम्यग्दर्शनज्ञानचारित्रात्मकस्य मोक्षमार्गस्य सद्भावात्कर्मक्षयस्य च पीडोपशमादिनाऽध्यक्षेण दर्शनादतः कस्यचिदात्यन्तिककर्महानिसिद्धेरस्ति सिद्धिरिति, तथा चोक्तम्
119 11
"दोषावरणयोर्हानिर्निःशेषाऽस्त्यतिशायिनी ।
क्वचिद्यथा स्वहेतुभ्यो, बहिरन्तर्मलक्षयः ॥
इत्यादि, एवं सर्वज्ञसद्भावोऽपि संभवानुमानाद्द्रष्टव्यः, तथाहि अभ्यस्यमानायाः प्रज्ञाया व्याकरणादि शास्त्रसंस्कारेणोत्तरोत्तरवृद्धया प्रज्ञातिशयो दृष्टः, तत्र कस्यचिदत्यन्तातिशयप्राप्तेः सर्वज्ञत्वं स्यादिति संभवानुमानं, न चैतदाशङ्कनीयं, तद्यथा - ताप्यमानमुदकमत्यन्तोष्णतामियानाग्निसाद्भवेत्, तथा -
119 11
" दशहस्तान्तरं व्योम्नि यो नामोत्लु त्यगच्छति । न योजनमसी गन्तुं शक्तोऽभ्यासशतैरपि ॥
इति, दृष्टान्तदान्तिकयोरसाम्यात्, तथाहि ताप्यमानं जलं प्रतिक्षणं क्षयं गच्छेत् प्रज्ञा तु विवर्द्धते, यदिवा प्लोषोपलब्धेरव्याहतमग्नित्वं, तथा प्लवनविषयेऽपि पूर्वमर्यादाया अनतिक्रमाद्योजनोतप्लवनाभावः, तत्परित्यागे चोत्तरोत्तरं वृद्धया प्रज्ञाप्रकर्षगमनवद्योजनशतमपि गच्छेदित्यतो दृष्टान्तदान्तिकयोरसाम्यादेतन्नाशङ्कनीयमिति स्थितम्, प्रज्ञावृद्धेश्च बाधकप्रमाणाभावदस्ति सर्वज्ञत्वप्राप्तिरिति । यदिवा अञ्जनभृतसमुद्गकदृष्टान्तेन जीवाकुलत्वाज्जगतो हिंसाया दुर्निवारत्वात्सिद्धयभावः, तथा चोक्तम्
119 11
"जले जीवाः स्थले जीवा, आकाशे जीवमालिनि ।
जीवमालाकुले लोके, कथं भिक्षुरहिंसकः ॥
इत्यादि, तदेवं सर्वस्यैव हिंसकत्वात्सिद्धयभाव इति, तदेतदयुक्तं, तथाहि सदोपयुक्तस्य पिहिताश्रवद्वारस्य पञ्चसमितिसमितस्य त्रिगुप्तिगुप्तस्य सर्वथा निरवद्यानुष्ठायिनो द्विचत्वारिंशद्दोषरहितभिक्षाभुज ईर्यासमितस्य कदाचिद्रव्यतः प्राणिव्यपरोपणेऽपि तत्कृतबन्धाभावः, सर्वथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org