________________
श्रुतस्कन्धः -२, अध्ययनं-५,
४१७ णादिति । यदिवा यद्वैरं तत्ते श्रणा बालाः पण्डिता वा नजानन्तीत्येवं वाचं न निसृजेदित्युत्तरेण सम्बन्धः किमिति न निसृजेत् ?, यतस्तेऽपि किञ्चिजानन्त्येव ।अपिचतेषां तन्निमित्तकोपोत्पत्तेः, यच्चैवंभूतं वचस्तन वाच्यं, यत उक्तम्॥१॥
“अपत्तियं जेण सिया, आसु कुप्पिज वा परो।
अपात
सव्वसो तं न भासेज्जा, भासं अहियगामिणि ॥ (इत्यादि) मू. (७३४) असेसं अक्खयं वावि, सव्वदुक्खेति वा पुणो।
वज्झा पाणा न वज्झति, इति वायं न नीसरे । वृ.अपरमपि वासंयममधिकृत्याह-'असेस'मित्यादि, अशेष-कृत्स्नंतत्सांख्याभिप्रायेण अक्षतं-नित्यमित्येवं नब्रूयात्, प्रत्यर्थंप्रतिसमयंचान्यथाऽन्यथाभावदर्शनात्स एवायमित्येवंभूतस्यैकत्वसाधकस्य प्रत्यभिज्ञानस्य लूनपुनतिषु केशनखादिष्वपि प्रदर्शनात्, तथा अपिशब्दादेकान्तेन क्षणिकमित्येवमपि वाचन निसृजेत्, सर्वथा क्षणिकत्वेपूर्वस्य सर्वथा विनष्टत्वादुत्तरस्य निर्हेतुक उत्पादः स्यात्, तथा च सति नित्यं सत्त्वमसत्वंवाऽहेतोरन्यानपेक्षणा'दिति। तथा सर्वं जगद्दुखात्मकमित्येवमपिनब्रूयात्, सुखात्मकस्यापि सम्यग्दर्शनादिभावेन दर्शनात्, तथाचोक्तम् ॥१॥ "तणसंथारनिसन्नोऽविमुनिवरो भट्ठरागमयमोहो ।
जंपावइ मुत्तिसुहं कत्तोतं चक्कवट्टीवि ॥ इत्यादि, तथा वध्याश्चौरपारदारिकादयोऽवध्या वा तत्कर्मानुमतिप्रसङ्गादित्येवंभूतां वाचं स्वानुष्ठानपरायणःसाधुः परव्यापारनिरपेक्षो न निसृजेत्, तथा हि सिंहव्याघ्रमार्जारादीन्परसत्त्वव्यापादनपरायणान् दृष्ट्वा माध्यस्थ्यमवलम्बयेत्, तथाचोक्तम्-“मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि सत्त्वगुणाधिकक्लिश्यमानाविनेयेष्वि"ति, एवमन्योऽपिवाक्संयमो द्रष्टव्यः, तद्यथा-अमीगवादयो वाह्या न वाह्या वा तथाऽमी वृक्षादयश्छेद्यान छेद्या वेत्यादिकं वचो न वाच्यं साधुनेति। मू. (७३५) दीसंति समियायारा, भिक्खुणो साहुजीविणो।
एए मिच्छोवजीवंति, इति दिहिं न धारए॥ वृ. अयमपरो वाक्यंसयमप्रकारोऽन्तःकरणशुद्धिसमाश्रितः प्रदर्श्यते-'दीसंती'त्यादि, 'श्यन्ते' समुपलभ्यन्ते स्वशास्त्रोक्तेन विधिना निभृतः-संयत आत्मा येषां ते निभृतात्मानः, क्वचित्पाठः 'समयाचार'त्ति सम्यक्-स्वशास्त्रविहितानुष्ठानादविपरीत आचारः-अनुष्ठानं येषां तेसम्यगाचाराः, सम्यग्वा-इतो व्यवस्थित आचारो येषां ते समिताचाराः, केते?-भिक्षणशीला भिक्षवो भिक्षामात्रवृत्तयः, तथा साधुना विधिना जीवितुंशीलं येषां ते साधुजीविनः ।
तथाहि-तेन कस्यचिदुपरोधविधानेनजीवन्ति, तथाक्षान्ता दान्ता जितक्रोधाःसत्यसंधा टेढव्रतायुगान्तरमात्रष्टयः परिमितोदकपायिनो मौनिनःसदातायिनो विविक्तैकान्तध्यानाध्यासिनः अकौकुच्यास्तानेवंभूतानवधार्यापि ‘सरागा अपि वीतरागा इव चेष्टन्ते' इति मत्वैते मिथ्यात्वोपजीविन इत्येवं दृष्टिं न धारयेत्-नैवंभूतमध्यवसायं कुर्यान्नाप्येवंभूतां वाचं निसृजेद् यथैते मिथ्योपचारप्रवृत्तामायाविनइतिछद्मस्थेन ह्यग्दिर्शिनैवंभूतस्य निश्चयस्य कर्तुमशक्यत्वादित्यभिप्रायः, तेच स्वयूथ्या वा भवेयुस्तीर्थान्तरीया वा, तावुभावपिन वक्तव्यौ साधुना, यत उक्तम्12/27
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org