________________
४१८
सूत्रकृताङ्ग सूत्रम् २/५/-/७३५
॥१॥ “यावत्परगुणपरदोषकीर्तने व्यापृतं मनो भवति ।
तावद्वरं विशुद्धे ध्याने व्यग्रं मनः कर्तुम् ।।
इत्यादि ॥ किंचान्यत्मू. (७३६) दक्खिणाए पडिलंभो, अस्थि वा णत्थि वा पुणो ।
न वियागरेज मेहावी, संतिमग्गंच वूहए। वृ. दानं दक्षिणा तस्याः प्रतिलम्भः-प्राप्ति स दानलाभोऽस्माद्गृहस्थादेः सकाशादस्ति नास्ति वेत्येवं न व्यागृणीयात् मेघावी मर्यादाव्यवस्थितः। यदिवा स्वयूथ्यस्य तीर्थान्तरीयस्य वा दानं ग्रहणं वा प्रति यो लाभः स एकान्तेनास्ति-संभवति नास्ति वेत्येवं न ब्रूयादेकान्तेन, तद्दानग्रहणनिषेधे दोषोत्पत्तिसंभवात्।।
तथाहि-तद्दाननिषेधेऽन्तरायसंभवस्तद्वैचित्यं च, तद्दानानुमतावप्यधिकरणोद्भव इत्यतोऽस्ति दानं नास्ति वेत्येवमेकान्तेन न ब्रूयात् । कथां तर्हि ब्रूयादिति दर्शयति-शान्तिःमोक्षस्तस्यमार्ग-सम्यग्दर्शनज्ञानचारित्रात्मकस्तमुपद्व्हयेद्-वर्धयेत, यथा मोक्षमार्गाभिवृद्धिर्भवति तथा ब्रूयादित्यर्थः, एतदुक्तं भवति-पृष्टः केनचिद्विघप्रतिषेधमन्तरेण देयप्रतिग्राहकविषयं निरवद्यमेव ब्रूयादित्येवमादिकमन्यदपि विविधधर्मदेशनावसरे वाच्यं, तथा चोक्तम्‘सावजणवजाणं वयणाणं जो न जाणइ विसेसं'इत्यादि। मू. (७३७) इच्चेएहिं ठाणेहिं, जिनदिटेहिं संजए।
धारयंते उ अप्पाणं, आमोक्खाए परिवएज्जासि ।त्तिबेमि। वृ. साम्प्रतमध्ययनार्थमुपसंजिघृक्षुराह-'इच्चेएहि मित्यादि, इत्येतैरकान्तनिषेधद्वारेणानेकान्तविधायिभिः स्थानैवक्सिंयमप्रधानैः समस्ताध्ययनोक्तैरागद्वेषरहितैर्जिनष्टैः-उपलब्धैर्न स्वमतिविकल्पोत्थापितैः संयतः-सत्संयमवानात्मानंधारयन्-एभिः स्थानैरात्मानं वर्तयन्नामोक्षायअशेषकर्मक्षयाख्यं मोक्षं यावत्परिः-समन्तात्संयमानुष्ठाने व्रजेः गच्छेस्त्वमिति विधेयस्योपदेशः। इति परिसमाप्तयर्थे, ब्रवीमीति पूर्ववत् । नया अभिहिताः अभिधास्यमानलक्षणाश्चेति ।।
अध्ययनं-५ समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादिता शीलानाचार्य विरचिता द्वीतीय श्रुतस्कन्धस्य पंचममध्ययनटीका परिसमाप्ता।
(अध्ययन-६ आर्द्रकीय) वृ.उक्तंपञ्चममध्ययनं, साम्प्रतं षष्ठमारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तराध्ययने आचारः प्रतिपादितोऽनाचारपरिहारश्च, स च येनाचीर्ण परिहतश्चासावधुना प्रतिपाद्यते, यदिवाऽनन्तराध्ययने स्वरूपमाचारनाचारयोः प्रतिपादितं, तञ्चाशक्यानुष्ठानंनभवत्यतस्तदासेवको दृष्टान्तभूत आर्द्रकः प्रतिपाद्यत इति, अथवाऽनाचारफलं ज्ञात्वा सदाचारे प्रयत्नः कार्यो यथाऽऽर्द्रककुमारेण कृत इत्येतद्दर्शनार्थमिदमध्ययनम् । ___अस्य चत्वार्यनुयोगद्वाराण्युपक्रमादीनि वाच्यानि, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-आर्द्रककुमारवक्तव्यता, यथाऽसावभयकुमारप्रतिमाव्यतिकराव्यतिबुद्धः तथाऽत्रसर्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org