Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 417
________________ सूत्रकृताङ्ग सूत्रम् २/५/-/७२७ सर्वेऽप्येकविधा एव, तथा मनुष्या अपि कर्मभूमिजाकर्मभूमिजान्तरद्वीपकसंमूर्च्छनजात्मकभेदमनात्यैकविधत्वेनैवाश्रिताः । मू. (७२८) नत्थि देवो व देवी वा, नवं सन्नं निवेसए । अत्थि देवो व देवी वा, एवं सन्नं निवेसए । वृ. तथा देवा अपि भवनपतिव्यन्तरज्योतिष्कवैमानिकभेदेन भिन्ना एकविधत्वेनैव गृहीताः तदेवं सामान्यविशेषाश्रयणाञ्चातर्विध्यं संसारस्य व्यवस्थितं नैकविधत्वं, संसारवैचित्र्य दर्शनात, नाप्यनेकविधत्वं सर्वेषां नरकादीनां स्वजात्यनतिक्रमादिति । सर्वभावानां सप्रतिपक्षत्वात्संसारसद्भावे सति अवश्यं तद्विमुक्तिलक्षणया सिद्ध्यापि भवितव्यमित्यतोऽधुना सप्रतिपक्षां सिद्धिं दर्शयितुमाह भू. (७२९) ४१४ नत्थि सिद्धी असिद्धी वा, नेवं सन्नं निवेसए । अत्थि सिद्धि असिद्धी वा, एवं सन्नं निवेसए ॥ वृ. सिद्धि अशेषकर्मच्युतिलक्षणा तद्विपर्यस्ता चासिद्धिर्नास्तीत्येवं नो संज्ञां निवेशयेद्, अपि त्वसिद्धेः - संसारलक्षणायाश् चातुर्विध्येनान्तरमेव प्रसाधिताया अविगानेनास्तित्वं प्रसिद्धं, तद्विपर्ययेण सिद्धेरप्यस्तित्वमनिवारितमित्यतोऽस्ति सिद्धिरसिद्धिर्वेत्येवं संज्ञां निवेशयेदिति स्थितम्, इदमुक्तं भवति सम्यग्दर्शनज्ञानचारित्रात्मकस्य मोक्षमार्गस्य सद्भावात्कर्मक्षयस्य च पीडोपशमादिनाऽध्यक्षेण दर्शनादतः कस्यचिदात्यन्तिककर्महानिसिद्धेरस्ति सिद्धिरिति, तथा चोक्तम् 119 11 "दोषावरणयोर्हानिर्निःशेषाऽस्त्यतिशायिनी । क्वचिद्यथा स्वहेतुभ्यो, बहिरन्तर्मलक्षयः ॥ इत्यादि, एवं सर्वज्ञसद्भावोऽपि संभवानुमानाद्द्रष्टव्यः, तथाहि अभ्यस्यमानायाः प्रज्ञाया व्याकरणादि शास्त्रसंस्कारेणोत्तरोत्तरवृद्धया प्रज्ञातिशयो दृष्टः, तत्र कस्यचिदत्यन्तातिशयप्राप्तेः सर्वज्ञत्वं स्यादिति संभवानुमानं, न चैतदाशङ्कनीयं, तद्यथा - ताप्यमानमुदकमत्यन्तोष्णतामियानाग्निसाद्भवेत्, तथा - 119 11 " दशहस्तान्तरं व्योम्नि यो नामोत्लु त्यगच्छति । न योजनमसी गन्तुं शक्तोऽभ्यासशतैरपि ॥ इति, दृष्टान्तदान्तिकयोरसाम्यात्, तथाहि ताप्यमानं जलं प्रतिक्षणं क्षयं गच्छेत् प्रज्ञा तु विवर्द्धते, यदिवा प्लोषोपलब्धेरव्याहतमग्नित्वं, तथा प्लवनविषयेऽपि पूर्वमर्यादाया अनतिक्रमाद्योजनोतप्लवनाभावः, तत्परित्यागे चोत्तरोत्तरं वृद्धया प्रज्ञाप्रकर्षगमनवद्योजनशतमपि गच्छेदित्यतो दृष्टान्तदान्तिकयोरसाम्यादेतन्नाशङ्कनीयमिति स्थितम्, प्रज्ञावृद्धेश्च बाधकप्रमाणाभावदस्ति सर्वज्ञत्वप्राप्तिरिति । यदिवा अञ्जनभृतसमुद्गकदृष्टान्तेन जीवाकुलत्वाज्जगतो हिंसाया दुर्निवारत्वात्सिद्धयभावः, तथा चोक्तम् 119 11 "जले जीवाः स्थले जीवा, आकाशे जीवमालिनि । जीवमालाकुले लोके, कथं भिक्षुरहिंसकः ॥ इत्यादि, तदेवं सर्वस्यैव हिंसकत्वात्सिद्धयभाव इति, तदेतदयुक्तं, तथाहि सदोपयुक्तस्य पिहिताश्रवद्वारस्य पञ्चसमितिसमितस्य त्रिगुप्तिगुप्तस्य सर्वथा निरवद्यानुष्ठायिनो द्विचत्वारिंशद्दोषरहितभिक्षाभुज ईर्यासमितस्य कदाचिद्रव्यतः प्राणिव्यपरोपणेऽपि तत्कृतबन्धाभावः, सर्वथा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484