Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 416
________________ ४१३ - श्रुतस्कन्धः-२, अध्ययनं-५, तथा जीवकर्मणोरुभयोरप्ययं धर्म, तद्धर्मत्वे च प्रत्येकविकल्पदोषानुपपत्ति, अनभ्युपगमात्, संसार्यात्मनां कर्मणा सार्धं पृथग्भवनाभावत्तदुभयस्य च नरसिंहवद्वस्त्वन्तरत्वादित्यतोऽस्ति क्रोधो मानश्चेत्येवं संज्ञां निवेशयेत्। मू. (७२५) नत्थि माया व लोभे वा, नेवं सन्नं निवेसए। अस्थि माया व लोभे वा, एवं सन्नं निवेसए॥ वृ. साम्प्रतं मायालोभयोरस्तित्वं दर्शयितुमाह-अत्रापि प्राग्वन्मायालोभयोरभाववादिनं निराकृत्यास्तिवं प्रतिपादनीयमिति। मू. (७२६) नत्थि पेजे व दोसे वा, नेवं सन्नं निवेसए। अस्थि पेजे व दोसे वा, एवं सन्नं निवेसए। वृ. साम्प्रतमेषामेव क्रोधादीनां समासेनास्तित्वं प्रतिपादयन्नाह-प्रीतिलक्षणं प्रेमपुत्रकलत्रधनधान्याद्यात्मीयेषु रागस्तद्विपरीतस्त्वात्मीयोपघातकारिणि द्वेषः, तावेतौ द्वावपिन विद्येते, तथाहि केषाश्चिदभिप्रायो यदुत-मायालोभावेवावयवी विद्येते, न तत्समुदायरूपो रागोऽवयव्यस्ति, तथा क्रोधमानावेव स्तः, न तत्समुदायरूपोऽवयवी द्वेष इति । तथाहि-अवयवेभ्यो यद्यभिन्नोऽवयवी तर्हि तदभेदात्त एवनासौअथ भिन्नःपृथगुपलम्भः स्या घटपटवदित्येवमसद्विकल्पमूढतयानो संज्ञांनिवेशयेत्, यतोऽवयवावयविनोः कथञ्चिद्भेद इत्येवं भेदाभेदाख्यतृतीयपक्षसमाश्रयणात्प्रत्येकपक्षाश्रितदोषानुपपत्तिरिति, एवंचास्ति प्रितिलक्षणं प्रेमाप्रीतिलक्षणश्च द्वेष इत्येवं संज्ञां निवेशयेत्। साम्प्रतंकषायसद्भावेसिद्धेसतितत्कार्यभूतोऽवश्यंभावी संसारसद्भाव इत्येतत्प्रतिषेधनिषेधद्वारेण प्रतिपादयितुमाहमू. (७२७) नस्थि चाउरते संसारे, नेवं सन्नं निवेसए। अस्थि चाउरंते संसारे, एवं सन्नं निवेसए। वृ.चत्वारोऽन्ता-गतिभेदा नरकतिर्यङनरामरलक्षणा यस्य संसारस्यासौचतुरन्तः संसार एवकान्तारोभयैकहेतुत्वात्, स चचतुर्विधोऽपिन विद्यते, अपितु सर्वेषांसंसृतिरूपत्वात्कर्मबन्धात्मकतयाचदुःखैकहेतुत्वादेकविधएव,अथवा नारकदेवयोरनुपलभ्यमानत्वात्तिर्यमनुष्ययोरेव सुख दुःखोत्कर्षतया तद्वयवस्थानाद् द्विविधः संसारः, पर्यायनयाश्रयणात्वनेकविधः, अतश्चातुर्विध्यं न कथञ्चिद् घटत इत्येवं संज्ञांनो निवेशयेद्, अपितु अस्ति चतुरन्तः संसार इत्येवं संज्ञां निवेशयेत्। यत्तूक्तम्-एकविधः संसारः, तन्नोपपद्यते, यतोऽध्यक्षेण तिर्यमनुष्ययोर्भेदः समुपलभ्यते, न चासावेकविधत्वे संसारस्य घटते, तथा संभवानुमानेन नारकदेवानमप्यस्तित्वाभ्युपगमाद् वैविध्यमपि न विद्यते, संभवानुमानं तु-सन्ति पुण्यपापयोः प्रकृष्टफलमुजः, तन्मध्यफलभुजां तिर्यनुष्याणां दर्शनाद्, अतः संभाव्यन्ते प्रकृष्टफलभुजो, ज्योतिषां प्रत्यक्षेणैव दर्शनाद्, अथ तद्विमानानामुपलम्भः, एवमपितदधिष्ठातृभिः कैश्चिद्भवितव्यमित्यनुमानेनगम्यन्ते, ग्रहगृहीतवरप्रदानादिनाचतस्तित्वानुमिति, तदस्तित्वेतुप्रकृष्टपुण्यफलभुजइव प्रकृष्टपाप-फलभुग्भिरपि भाव्यमित्यतोऽस्ति चातुर्विध्यं संसारस्य, पर्यायनयाश्रयणे तु यदनेकविधत्वमुच्यते तदयुक्तं । यतः सप्तपृथिव्याश्रिता अपि नारकाः समानजातीयाश्रयणादेकप्रकारा एव, तथा तिर्यचोऽपि पृथिव्यादयः स्थावरास्तथा द्वित्रिचतुःपञ्चेन्द्रियाश्चद्विषष्टियोनिलक्षप्रमाणाः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484