Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४०४
सूत्रकृताङ्ग सूत्रम् २/५/-/७०७
योभयनयात्मकव्युदासेनैकनयदृष्टयाऽवधारणात्मकप्रत्ययमनाचारं दर्शयति-शश्वद्भवतीति शाश्वतं-नित्यं सांख्याभिप्रायेणाप्रच्युतानुत्पन्नस्थिरैकस्वभावं स्वदर्शने चानुयायिनं सामान्यांशमवलम्ब्य धर्माधर्माकाशादिष्वनादित्वमपर्यवसानत्वंचोपलभ्यसर्वमिदंशाश्वतमित्येवंभूतां दृष्टिं 'नधारयेदिति एवं पक्षं न समाश्रयेत् । तथा विशेषपक्षमाश्रित्य 'वर्तमाननारकाः समुच्छेत्स्यन्ती'त्येतच्चसूत्रमङ्गीकृत्य यत्सत्तत्सर्वमनित्यमित्येवंभूतबौद्धदर्शनाभिप्रायेणच सर्वमशाश्वतम्अनित्यमित्येवंभूतां च दृष्टिं न धारयेदिति। मू. (७०७) एएहिं दोहिं ठाणेहिं, ववहारोन विजई।
एएहिं दोहिं ठाणेहिं, अनायारंतु जाणए॥ वृ. किमित्येकान्तेन शाश्वतमशाश्वतं वा वस्त्वित्येवंभूतां दृष्टिं न धारयेदित्याह-सर्वं नित्यमेवानित्यमेव वैताभ्यां द्वाभ्यां स्थानाभ्यामभ्युपगम्यमानाभ्यामनयोर्वा पक्षयोर्ववहरणं व्यवहारो-लोकस्यैहिकामुष्मिकयोः कार्ययोः प्रवृत्तिनिवृत्तिलक्षणोन विद्यते, तथाहि-अप्रच्युतानुत्पन्निस्थिरैकस्वभावंसर्वंनित्यमित्येवंनव्यवहियते, प्रत्यक्षेणैवनवपुराणादिभावेन प्रध्वंसाभावेन वा दर्शनात्, तथैव च लोकस्य प्रवृत्तेः, आमुष्मिकेऽपि नित्यत्वादात्मनो बन्धमोक्षाद्यभावेन दीक्षायमनियमादिकमनर्थकमिति न व्यवहियते।
तथैकान्तानित्यत्वेऽपि लोको धनधान्यघटपटादिकमनागतभोगार्थं न संगृह्णीयात्, तथाऽऽमुष्मिकेऽपिक्षणिकत्वादात्मनः प्रवृत्तिनस्यात्, तथाचदीक्षाविहारादिकमनर्थकं, तस्मानित्यानित्यात्मके एवस्याद्वादे सर्वव्यवहारप्रवृत्तिः,अतएव तयोर्नित्यानित्ययोः स्थानयोरेकान्तत्वेन समाश्रीयमाणयोरहिकामुष्मिककार्यविध्वंसरूपमनाचारं मौनीन्द्रारागमबाह्यरूपं विजानीयात्, तुशब्दोविशेषणार्थः, कथञ्चिन्नित्यानित्ये वस्तुनिसतिव्यवहारोयुज्यतइत्येतद्विशिनष्टि, तथाहिसामान्यमन्वयिनमंशमाश्रित्य स्यानित्यमितिभवति, तथा विशेषांशं प्रतिक्षणमन्यथा च अन्यथा च नवपुराणादिदर्शनतः स्यादनित्य इति भवति, तथोत्पादव्ययध्रौव्याणि चार्हद्दर्शनाश्रितानि व्यवहाराङ्गं भवति । तथा चोक्तम्॥१॥ "घटमौलिसुवर्णार्थी, नाशोत्पादस्थितिष्वयम्।
शोकप्रमोदमाध्यस्थ्यं, जनो याति सहेतुकम्। इत्यादि।तदेवं नित्यानित्यपक्षयोर्व्यवहारोन विद्यते, तथाऽनयोरेवानाचारंविजानीयादिति स्थितम् तथाऽन्यमप्यनाचारं प्रतिषेद्धकाम आहमू. (७०८) समुच्छिहिंति सत्यारो, सब्वे पाणा अनेलिसा।
गंठिगा वा भविस्संति, सासयंति वनो वए। वृ. सम्यक्-निरवशेषतया 'उच्छेत्स्यन्ति' उच्छेदं यास्यन्ति-क्षयं प्राप्स्यन्ति सामस्त्येनोत्प्राबल्येन सेत्स्यन्तिवा सिद्धिं यास्यन्ति, केते?-शास्तारः-तीर्थकृतः सर्वज्ञास्तच्छासनप्रतिपन्ना वा 'सर्वे' निरवशेषाः सिद्धिगमनयोग्या भव्याः, ततश्चोच्छिन्नभव्यं जगत्स्यादिति, शुष्कतकाभिमानग्रहगृहीता युक्ति चाभिदधति-जीवसद्भावे सत्यप्यपूर्वोत्पादाभावदभव्यस्य च सिद्धिगमनासंभवात्कालस्य चाऽऽनन्त्यादनारतं सिद्धिगमनसंभवेन तद्व्ययोपत्तेरपूर्वायाभावाद्भव्योच्छेद इत्येवं नो वदेत्, तथा सर्वेऽपि प्राणिनो' जन्तवः 'अनीशा' विसध्शाः सदा परस्परविलक्षणा एव, न कथञ्चित्तेषां साद्दश्यमस्तीत्येवमप्येकान्तेन नो वदेत्, यदिवा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484