SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ४०४ सूत्रकृताङ्ग सूत्रम् २/५/-/७०७ योभयनयात्मकव्युदासेनैकनयदृष्टयाऽवधारणात्मकप्रत्ययमनाचारं दर्शयति-शश्वद्भवतीति शाश्वतं-नित्यं सांख्याभिप्रायेणाप्रच्युतानुत्पन्नस्थिरैकस्वभावं स्वदर्शने चानुयायिनं सामान्यांशमवलम्ब्य धर्माधर्माकाशादिष्वनादित्वमपर्यवसानत्वंचोपलभ्यसर्वमिदंशाश्वतमित्येवंभूतां दृष्टिं 'नधारयेदिति एवं पक्षं न समाश्रयेत् । तथा विशेषपक्षमाश्रित्य 'वर्तमाननारकाः समुच्छेत्स्यन्ती'त्येतच्चसूत्रमङ्गीकृत्य यत्सत्तत्सर्वमनित्यमित्येवंभूतबौद्धदर्शनाभिप्रायेणच सर्वमशाश्वतम्अनित्यमित्येवंभूतां च दृष्टिं न धारयेदिति। मू. (७०७) एएहिं दोहिं ठाणेहिं, ववहारोन विजई। एएहिं दोहिं ठाणेहिं, अनायारंतु जाणए॥ वृ. किमित्येकान्तेन शाश्वतमशाश्वतं वा वस्त्वित्येवंभूतां दृष्टिं न धारयेदित्याह-सर्वं नित्यमेवानित्यमेव वैताभ्यां द्वाभ्यां स्थानाभ्यामभ्युपगम्यमानाभ्यामनयोर्वा पक्षयोर्ववहरणं व्यवहारो-लोकस्यैहिकामुष्मिकयोः कार्ययोः प्रवृत्तिनिवृत्तिलक्षणोन विद्यते, तथाहि-अप्रच्युतानुत्पन्निस्थिरैकस्वभावंसर्वंनित्यमित्येवंनव्यवहियते, प्रत्यक्षेणैवनवपुराणादिभावेन प्रध्वंसाभावेन वा दर्शनात्, तथैव च लोकस्य प्रवृत्तेः, आमुष्मिकेऽपि नित्यत्वादात्मनो बन्धमोक्षाद्यभावेन दीक्षायमनियमादिकमनर्थकमिति न व्यवहियते। तथैकान्तानित्यत्वेऽपि लोको धनधान्यघटपटादिकमनागतभोगार्थं न संगृह्णीयात्, तथाऽऽमुष्मिकेऽपिक्षणिकत्वादात्मनः प्रवृत्तिनस्यात्, तथाचदीक्षाविहारादिकमनर्थकं, तस्मानित्यानित्यात्मके एवस्याद्वादे सर्वव्यवहारप्रवृत्तिः,अतएव तयोर्नित्यानित्ययोः स्थानयोरेकान्तत्वेन समाश्रीयमाणयोरहिकामुष्मिककार्यविध्वंसरूपमनाचारं मौनीन्द्रारागमबाह्यरूपं विजानीयात्, तुशब्दोविशेषणार्थः, कथञ्चिन्नित्यानित्ये वस्तुनिसतिव्यवहारोयुज्यतइत्येतद्विशिनष्टि, तथाहिसामान्यमन्वयिनमंशमाश्रित्य स्यानित्यमितिभवति, तथा विशेषांशं प्रतिक्षणमन्यथा च अन्यथा च नवपुराणादिदर्शनतः स्यादनित्य इति भवति, तथोत्पादव्ययध्रौव्याणि चार्हद्दर्शनाश्रितानि व्यवहाराङ्गं भवति । तथा चोक्तम्॥१॥ "घटमौलिसुवर्णार्थी, नाशोत्पादस्थितिष्वयम्। शोकप्रमोदमाध्यस्थ्यं, जनो याति सहेतुकम्। इत्यादि।तदेवं नित्यानित्यपक्षयोर्व्यवहारोन विद्यते, तथाऽनयोरेवानाचारंविजानीयादिति स्थितम् तथाऽन्यमप्यनाचारं प्रतिषेद्धकाम आहमू. (७०८) समुच्छिहिंति सत्यारो, सब्वे पाणा अनेलिसा। गंठिगा वा भविस्संति, सासयंति वनो वए। वृ. सम्यक्-निरवशेषतया 'उच्छेत्स्यन्ति' उच्छेदं यास्यन्ति-क्षयं प्राप्स्यन्ति सामस्त्येनोत्प्राबल्येन सेत्स्यन्तिवा सिद्धिं यास्यन्ति, केते?-शास्तारः-तीर्थकृतः सर्वज्ञास्तच्छासनप्रतिपन्ना वा 'सर्वे' निरवशेषाः सिद्धिगमनयोग्या भव्याः, ततश्चोच्छिन्नभव्यं जगत्स्यादिति, शुष्कतकाभिमानग्रहगृहीता युक्ति चाभिदधति-जीवसद्भावे सत्यप्यपूर्वोत्पादाभावदभव्यस्य च सिद्धिगमनासंभवात्कालस्य चाऽऽनन्त्यादनारतं सिद्धिगमनसंभवेन तद्व्ययोपत्तेरपूर्वायाभावाद्भव्योच्छेद इत्येवं नो वदेत्, तथा सर्वेऽपि प्राणिनो' जन्तवः 'अनीशा' विसध्शाः सदा परस्परविलक्षणा एव, न कथञ्चित्तेषां साद्दश्यमस्तीत्येवमप्येकान्तेन नो वदेत्, यदिवा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy