________________
श्रुतस्कन्धः -२, अध्ययनं-५,
४०३
सर्वकालं यावजीवंसाधुनाऽनाचारः, तांश्च 'अबहुश्रुतः' अगीतार्थोन सम्यग्जानातीत्यतस्तस्य विराधना भवेत्, हुशब्दोऽवधारणे, अबहुश्रुतस्यैव विराघनान गीतार्थस्येत्यतः 'अत्र' सदाचारे तत्परिज्ञानेचयतितव्यं, यथा हि मार्गज्ञः पथिकः कुमार्गवर्जनेन नापथगामीभवतिन चोन्मार्गदोषैयुज्यते एवमनाचारं वर्जयन्नाचारवान् भवति न चानाचारदोषैर्युज्यत इत्यतस्तप्रतिषेधार्थमाहनि. [१८४] एयरस उ पडिसेहो इहमज्झयणमि होति नायव्वो।
तो अनगारसुयंति य होई नामंतु एयस्स ॥ वृ. 'एतस्य' अनाचारस्य सर्वदोषास्पदस्य दुर्गिगमनैकहेतोः 'प्रतिषेधो निराकरणं सदाचारप्रतिपत्यर्थम् इह-अध्ययने ज्ञातव्यः, स च परमार्थतोऽगारकारणमिति, ततः केषांचिन्मतेनैतस्याध्ययनस्यानगारश्रुतमित्येतनामभवतीति।गतो नामनिष्पन्नोनिक्षेपः, तदनन्तरं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम्-- मू. (७०५) आदाय बंभचेरंच, आसुपन्ने इमंबई।
अस्सिं धम्मे अनायारं, नायरेज कयाइवि ॥ वृ.अस्यचानन्तरपरम्परसूत्रैः सम्बन्धोवाच्यः, तत्रानन्तरसूत्रेणसहायम्-एकान्तपण्डितो भवति, कथम्?-'आदाय ब्रह्मचर्य' मिति, परम्परसूत्रसंबधस्त्वयं-'बुध्येत तथात्रोटयेबन्धनं' किं कृत्वेत्याह-आदाय ब्रह्मचर्यमिति, एवमन्यैरपि सूत्रैः संबन्धो वाच्यः, अर्थस्त्वयम्-'आदाय' गृहीत्वा, किं तद् ?, ब्रह्मचर्य-सत्यतपोभूतदयेन्द्रियनिरोधलक्षणं तच्चर्यते-अनुष्ठीयते यस्मिन् तन्मौनीन्द्रं प्रवचनंब्रह्मचर्यमित्युच्यते तदादाय 'आशुप्रज्ञः' पटुप्रज्ञःसदसद्विवेकज्ञः, क्त्वाप्रत्ययस्योत्तरक्रियासव्यपेक्षित्वात्तामाह-'इमां समस्ताध्ययनेनाभिधीयमानां प्रत्यक्षासन्नभूतांवाचम्'इदं शाश्वतमेवे'त्यादिकां कदाचिदपि 'नाचरेत्' नाभिदध्यात्, तथाऽस्मिन्धर्मे-सर्वज्ञप्रणीते व्यवस्थितः सन्ननाचार-सावद्यानुष्ठानरूपं 'नसमारेत्' नविदध्यादितिसम्बन्धः, यदिवाऽऽशुप्रज्ञःसर्वज्ञः प्रतिसमयं केवलज्ञानदर्शनोपयोगित्वात्तत्संबन्धिनि धर्मे व्यवस्थितः 'इमां' वक्ष्यमाणां वाचम् अनाचारं च कदाचिदपि नाचरेदितिश्लोकार्थः।
तत्रानाचारंनाचरेदित्युक्तम्, अनाचारश्च मौनीन्द्रप्रवचनादपरोऽभिधीयते, मौनीन्द्रप्रवचनं तु मोक्षमार्गहतुतया सम्यग्दर्शनज्ञानचारित्रात्मकं, सम्यग्दर्शनं तु तत्त्वार्थश्रद्धानरूपं, तत्त्वं तु जीवाजीवपुण्यपापाश्रवबन्धसंवरनिर्जरामोक्षात्मकं, तथा धर्माधर्माकाशपुद्गलजीवकालात्मकं च द्रव्यं नित्यानित्यस्वभावं, सामान्यविशेषात्मकोऽनाद्यपर्यवसानश्चतुर्दशरज्ज्वात्मको वालोकस्तत्वमिति, ज्ञानंतुमतिश्रुतावधिमनःपर्यायकेवलस्वरूपंपञ्चधा, चारित्रंसामायिकच्छेदोपस्थापनीयपरिहारविशुद्धीयसूक्ष्मसंपराययथाख्यातरूपंपञ्चधैव मूलोत्तरगुणभेदतोवाऽनेकधेत्येवंव्यवस्थिते मौनीन्द्रप्रवचने 'न कदाचिदनीद्दशं जगदितिकृत्वाऽनाद्यपर्यवसाने लोके सति दर्शनाचारप्रतिपक्षभूतमनाचारं दर्शयितुकाम आचार्यो यथावस्थितलोकस्व-रूपोदघट्टनपूर्वकमाहमू. (७०६) अनादीयं परिन्नाय, अनवदग्गेति वा गुणो।
सासयमसासए वा, इति दिहिनधारए॥ वृ. नास्य चतुर्दशरज्ज्वात्मकस्य लोकस्यधर्माधर्मादिकस्यवाद्रव्यस्यादिःप्रथमोत्पत्तिर्विद्यत इत्यनादिकस्तमेवंभूतं 'परिज्ञाय' प्रमाणतः परिच्छिद्यतथा 'अनवदग्रम् अफर्यवसानंच परिज्ञा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org