SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ४०२ सूत्रकृताङ्ग सूत्रम् २/४/-/७०४ 'तत्थ खलु'इत्यादि, तत्र-संयमसद्भावे षड् जीवनिकाया भगवता हेतुत्वेनोपन्यस्ताः, यथा प्रत्याख्यानरहितस्यषड्जीवनिकायाः संसारगतिनिबन्धनत्वेनोपन्यस्ताः एवंतएवप्रत्याख्यानिनो मोक्षाय भवन्तीति, तथा चोक्तम् - ॥१॥ “जे जत्तिया य हेऊ भवस्स ते चेव तत्तिया मोक्खे। गणणाईयालोगा दोण्हविपुण्णा भवे तुल्ला ॥ __ इत्यादि, इदमुक्तं भवति-यथाऽऽत्मनो दण्डाद्युपघाते दुःखमुत्पद्यते एवं सर्वेषामपि प्राणिनामित्यात्मोपमया तदुपघातान्निवर्तते, एष धर्म सर्वापायताणलक्षणो'ध्रुवः' अप्रच्युतानुत्पन्नस्थिरस्वभावो 'नित्य' इति परिणामानित्तायामपिसत्यांस्वरूपाच्यवनात् तथाआदित्योद्गतिरिव शश्वद्भवनाच्छाश्वतः-परैः क्वचिदप्यस्खलितो युक्तिसंगतत्वादित्यभिप्रायः ___ अयमेवंभूतश्चधर्मः'समेत्य' अवगम्य लोकं चतुदर्शरज्वात्मकं 'खेदज्ञैः सर्वज्ञैःप्रवेदितः, तदेवं स भिक्षुर्निवृत्तः सर्वाश्रवद्वारेभ्यो दन्तप्रक्षालनादिकाः क्रियाः अकुर्वन् सावधक्रियाया अभावादक्रियोऽक्रियत्वाच्च प्राणिनामलूषकः-अव्यापादको यावदेकान्तैनैवासौ पण्डितो भवति इति परिसमाप्त्यर्थे, ब्रवीमीति, पूर्ववत्, नयाः प्राग्वद्वयाख्येयाः। . अध्ययनं-४ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाझाचार्येण विरचिता द्वितीय श्रुतस्कन्धस्य चतुर्यअध्ययनटीका परिसमाप्ता। (अध्ययन-५ आचारश्रुतं) साम्प्रतंपञ्चममारभ्यते, अस्यचायमभिसंबन्धः,इहानन्तराध्ययने प्रत्याख्यानक्रियोक्ता, सा चाचारव्यवस्थितस्य सतो भवतीत्यतस्तदनन्तरमाचारश्रुताध्ययनमभिधीयते, यदिवाऽनाचारपरिवजननसम्यक्प्रत्याख्यानमस्खलितं भवतीत्यतोऽनाचारश्रुताध्ययनमभिधीयते, यदिवा प्रत्याख्यानयुक्तः सन्नाचारवान् भवतीत्यतः प्रत्याख्यानक्रियाऽनन्तरमाचारश्रुताध्ययनं तप्रतिपक्षभूतमनाचारश्रुताध्ययनं वा प्रतिपाद्यत इत्यनेन सम्बन्धेनाऽऽयातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति। ... तत्रोपक्रमान्तर्गतोऽधिकारोऽयं,तद्यथा-अनाचारंप्रतिषिध्यसाधूनामाचार प्रतिपाद्यते, नामनिष्पन्ने तु निक्षेपे आचारश्रुतमिति द्विपदं नाम, तदनयोनिक्षेपार्थं नियुक्तिकृदाहनि. [१८२] नामंठवणायारे दव्वे भावे य होति नायव्यो। एमेव य सुत्तस्सा निक्खेवो चउविहो होति॥ वृ.तत्राचारो नामस्थापनाद्रव्यभावभेदभिन्नश्चतुर्धाद्रष्टव्यः, एवं श्रुतमपीति। तत्राचारश्रुतयोरन्यत्राभिहितयोलाघवार्थमितदेशं कुर्वन्नाह। नि. [१८३] आयारसुयं भणियं वज्जेयव्वा सया अनायारा। __ अबहुसुयस्स हुहोज विराहणा इत्थ जइयव्वं ॥ वृ.आचारश्च श्रुतंचआचारश्रुतं द्वन्द्वैकवद्भावस्तदुभयमपि भणितम् उक्तं, तत्राचारः क्षुल्लिकाचारकथायामभिहितः श्रुतं तु विनयश्रुते भावार्थस्तु 'वर्जयितव्याः' परिहार्याः “सदा' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy